ब्रह्मणस्पतिसूक्तहवनविधि:

गणेशाच्या प्रस्तुत उपासना केल्याने सर्व मनोकामना पूर्ण होतात.


आचम्य प्राणानायम्य देशकालौ संकीर्त्य संकल्प :--- मा आत्मन : श्रीगणपतिप्रीतये समस्ताशेषपापक्षयपूर्वकं सकलसंपत्सकलसमृद्धिसहितसकलकार्यसिद्धयर्थं आयुरारोग्यैश्वर्यामिवृद्धयर्थं मम मन: कामनासिद्धयर्थं सग्नहमख ब्रह्मणस्पतिसूक्तैकविशंत्यावृत्त्याभि: हवनारव्यं कर्म करिष्ये ।
तत्रादो निर्विघ्नतासिद्धयर्थं महागणपतिपूजनं स्वस्तिपुण्याहवाचन नान्दीश्राद्धं मातृकापूजनं, तथाचार्यादिऋत्विग्वरणं करिप्ये । आचार्यादीन्‌ यथाविधि वृणुयात्‌ । वृत: आचार्य: स्थण्डिलपूर्वभागे गणपतिभद्रे वा सर्वतोभद्रे वा केवले स्वस्तिके बह्मादिमण्डलदेवता: संस्थाप्य पूजयेत्‌ ।
तदुपरि धान्यपूरितमध्यभागे कलशं संस्थाप्य तस्योपरि पूर्णपात्रं निधाय यथाशक्ति निर्मितां सुवर्णमर्यी यथोक्तलक्षणां श्रीगणेशप्रतिमां संस्थापर्यत्‌ । सा प्रतिमा पूर्णपात्रोपरि लिखिते अष्टदले “गणानां त्वा” इति मन्त्रेण संस्थाप्या । अनन्तरं यथामिलितषोडशोपचारै: यथाविधि पूजां कुर्यात्‌ । पंचखाद्यं वा मोदकान्‌ नैवेद्ये समर्पणं कृत्वा यथाशक्ति रत्नालङ्कारै: पूजयेत्‌ ।
ततश्च स्थण्डिलान्तिके संस्कारपूर्वकं गृह्योक्तविधिना अग्निं प्रतिष्ठाप्य स्थापितदेवताया: उत्तरभागे आदित्यादिनवग्रहादीनां आवाहयेत्संपूजयेच्च । ततश्चान्वाधानं कुर्यात्‌ ।
तत्र च संकल्प: । मया क्रियमाणे ग्रहमखपूर्वकब्रह्मणस्प्तिसुक्तहवनकर्मणि देवतापरिग्रहार्थमन्वाधानं करिष्ये ।
ततश्च अन्वाहिताग्नौ प्रधानदेवतां गणपर्ति द्विषष्टि-क्रमात्मकब्रह्मणस्पतिसूक्तेन प्रत्यर्चं जुडुयात्‌ ।
यथा काम: तथा द्रव्यमिति न्यायेन द्‌र्घाङ्कुरद्रव्यम्‌, मोदकद्रव्यम्‌, लाजाद्रव्यम्‌, साज्यसमिमद्‌द्रव्यं च गृह्णीयात्‌ । एते मन्त्रा: हवनकाले ॐ कारयुक्ता: स्वाहान्ताश्च वक्तव्या: ।
(१) ॐ सोमानं स्वरणं. औशिज: स्वाहा ।
(२) ॐ यो रीवान्यो. तुर: स्वाहा ।
(३) ॐ मा न: शंसो. ब्रह्मणस्पते स्वाहा ।
(४) ॐ स घा वीरो. मर्त्यं स्वाहा ।
(५) ॐ त्वं तं ब्रह्मण. त्वंहस: स्वाहा ।
(‍६) ॐ उत्तिष्ठ. भवासचा स्वाहा ।
(७) ॐ त्यामिद्धि. आचके स्वाहा ।
(८) ॐ प्रैतु ब्रह्मण. नयंतु न: स्वाहा ।
(९) ॐ यो वाघते. मनेहसं स्वाहा ।
(१०) ॐ प्रनूनं. चक्रिरे स्वाहा ।
(११) ॐ तमिद्वोचे. अश्नवत्स्वाहा ।
(१२) ॐ को देव. क्षयं दघे स्वाहा ।
(१३) ॐ उप क्षत्रं. वज्रिण: स्वाहा ।
(१४) ॐ गणानां त्वा. सादनं स्वाहा ।
(१५) ॐ देवाश्चित्ते. ब्रह्मणामसि स्वाहा ।
(१६) ॐ आ विबाध्या. स्वर्विदं स्वाहा ।
(१७) ॐ सुनीति. महित्वनं स्वाहा ।
(१८) ॐ न तमंहो. ब्रह्मणस्पते स्वाहा ।
(१९) ॐ त्वं नो. हरस्वती स्वाहा ।
(२०) ॐ उत वा यो. कृधि स्वाहा ।
(२१) ॐ त्रातारं. मुन्नशन्‌ स्वाहा ।
(२२) ॐ त्वया वयं. अनप्नस: स्वाहा ।
(२३) ॐ त्वया व यमु. तारिषी महि स्वाहा ।
(२४) ॐ अनानुदो. हर्षिण: स्वाहा ।
(२५) ॐ अदेवे. शर्धत: स्वाहा ।
(२६) ॐ भरेषु. रथाँ इव स्वाहा ।
(२७) ॐ तेजिष्ठया. अर्दय स्वाहा ।
(२८) ॐ बृहस्पते. धेहि चित्रं स्वाहा ।
(२९) ॐ मा. न:. साम्नोविदु: स्वाहा ।
(३०) ॐ विश्वेभ्यो. धर्मरि स्वाहा ।
(३१) ॐ तव श्रिये. अर्णवं स्वाहा ।
(३२) ॐ ब्रह्मणस्पते. सुवीरा: स्वाहा ।
(३३) ॐ सेमा. नो मर्ति स्वाहा ।
(३४) ॐ यो नं त्वा. पर्वतं स्वाहा ।
(३५) ॐ तद्देवानां. व्यचक्षय स्वाहा ।
(३६) ॐ अश्मास्य. समुद्रिणं स्वाहा ।
(३७) ॐ सना ता. ब्रह्मणस्पति: स्वाहा ।
(३८) ॐ अमिनक्ष. युरा विशं स्वाहा ।
(३९) ॐ ऋतावान:. जहुर्हि तं स्वाहा ।
(४०) ॐ ऋतज्येन. कर्णयोनय: स्वाहा ।
(४१) ॐ स संनय. वृथा स्वाहा ।
(४२) ॐ विभु प्रभु. विश: स्वाहा ।
(४३) ॐ जोऽवरे. ब्रह्मणस्पति: स्वाहा ।
(४४) ॐ विश्वं सत्यं. जिगातं स्वाहा ।
(४५) ॐ उताशिष्ठा. ब्रह्मणस्पति: स्वाहा ।
(४६) ॐ ब्रह्मणस्पते पृथक्‌ स्वाहा ।
(४७) ॐ ब्रह्मणस्पते. वेषे मे हवं स्वाहा ।
(४८) ॐ ब्रह्मणस्पते त्वम. सुवीरा: स्वाहा ।
(४९) ॐ इन्धानो. ब्रह्मणस्पति: स्वाहा ।
(५०) ॐ वीरेभि. ब्रह्मणस्पति: स्वाहा ।
(५१) ॐ सिन्हु. ब्रह्मणस्पति: स्वाहा ।
(५२) ॐ तस्मा. ब्रह्मणस्पति: स्वाहा ।
(५३) ॐ तस्मा इ. ब्रह्मणस्पति: स्वाहा ।
(५४) ॐ ऋजुरि. भोजनं स्वाहा ।
(५५) ॐ यजस्व. वृणीमहे स्वाहा ।
(५६) ॐ स इज्ज. ब्रह्मणस्पर्ति स्वाहा ।
(५७) ॐ योऽअस्मै. रद्‌भुत: स्वाहा ।
(५८) ॐ तमु ज्येष्ठं. राजा स्वाहा ।
(५९) ॐ इयं वा. मराती: स्वाहा ।
(६०) ॐ चत्तो इत. द्दषन्निहि स्वाहा ।
(६१) ॐ अदो य. परस्तरं स्वाहा ।
(६२) ॐ अग्निर्येन. समिदं कुरु स्वाहा ।
(६३) ॐ यत्र बाणा:. शर्म यच्छतु स्वाहा ।
(६४) ॐ यदिन्द्र ब्रह्मणस्पते. पात्वंहस: स्वाहा ।

एवं ब्रह्मणस्पतिसूक्तमन्त्राणां हवनं कृत्वा १३०२ आहुतिभि: ब्रह्मादिमण्डलदेवता: प्रत्येकं तिलैर्वा घृतेन-एकैकयाहुत्यादशदश वा यष्टव्या: ।
(द्रव्यका: दूर्वाङ्‌कुरद्रव्यम्‌ कीर्तिकाम: लाजाद्रव्यम्‌, इष्टमनोरथार्थसिद्धयर्थं मोदकद्रव्यम्‌, गृह्लीयात्‌ ।
शेषेण स्विपृकृत्‌ । अन्वाधानोक्तरीत्या होमं संपाद्य पूर्णाहुतिं दत्वा संस्रवादि कृत्वा होमशेषं समापयेत्‌ ।
ततश्च प्रार्थयेत्‌ । देहेन वाचामनसा कृतान्मे सांसर्गिकान्‌ जागृतस्वप्नजातान्‌ ।
सौषुप्ततौर्यान्‌ सकलापराधान्‌ क्षमस्व. हेरम्ब दयानिधे त्वम्‌ ॥१॥
ततश्चाभिषेक: । ततश्चाभिषेक: । आचार्य: सदारं यजमानमभिर्षिचेत्‌ ।
तथा च रजामान: अग्निपूजनं कृत्वा विमूतिधारणं कुर्यात्‌ ।
कर्मण: साङ्गतासिद्धयर्थं यथाशक्ति गोप्रदानादिचदक्षिणां आचार्यादिभ्य: दत्वा ब्राह्मणभोजनसंकल्पं कुर्यात्‌ ।
तथा च स्थापितदेवतादीनां विसर्जनं कृत्वा तत्सर्वं आचार्याय दत्व पीठदानादिकं कुर्यात्‌ ।
प्रतिमाविसर्जनमन्त्र: । गच्छ गच्छ सुरश्रेष्ठ स्वस्थाने त्वं गणेश्वर ॥
कर्मणानेन मे नित्यं यथोक्तफलदो भव ॥ प्रतिमादानमन्त्रा: ।
गणेशप्रतिमां श्रेष्ठां वस्त्रयुग्मसंमन्विताम्‌ ॥ तुभ्यं संप्रददे विप्र प्रीयतां मे गजानन: ॥१॥
गणेश: प्रतिगृह्लाति गणेशो वे ददाति च ॥ गणेशस्तारको हात्र गणेशाय नमो नम: ॥२॥
विनायक गणेशान सर्वदेवनमस्कृत ॥ पार्वतीप्रिय विघ्नेश मम विघ्नं विनाशय ॥३॥
भूयसीदक्षिणादानं कृत्वा एतत्कर्म गणपतिप्रीत्यर्थं प्ररमेश्वरार्पणं कुर्यात्‌ ।
ब्राह्मणेभ्य: कर्मसम्पूर्णतां वाचयित्वा तेभ्य: आशिष: गृहीत्वा सर्वै: आचार्यादिभि: साकं भुञ्जीयात्‌ ।
भोजनोत्तरं ताम्बूलदक्षिणां दत्वा आशिष: गृह्लीयात्‌ ।
इति ब्रह्मणस्पतिसूक्तहवनविधि: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP