गणेशाथर्वशीर्षपुरश्चरणविधि:

गणेशाच्या प्रस्तुत उपासना केल्याने सर्व मनोकामना पूर्ण होतात.


आचम्य प्राणानायम्य देशकालौ संकीर्त्य संकल्प: कार्य: । अमुकगोत्रोत्पन्नस्य अमुकशर्मण: मम पत्नीपुत्रभ्रात्रादिसहितस्य सर्वापच्छान्तिपूर्वक-दीर्घायुर्विपुलधनधान्यपुत्रपौत्राद्यविच्छिन्न सन्तति - स्थिरलक्ष्मी - शत्रुपराजय - वाञ्छितफलावाप्तये गणेशलोकावाप्तिकामोऽहं-कर्माङ्ग देवतागणेशप्रसादसिद्धये श्री-ऋद्धि-बुद्धिसहितमहागणपतिप्रीत्यर्थं - दशखण्डात्मकगणेशाथर्वशीर्षस्य सहस्रावृत्तिजपरूपपुरश्चरणस्य कलौ चतुर्गुणितत्वात्‌ चतुस्सहस्रावृत्तिजपं बल्लाळविनायकसंन्निधौ स्वयं वा ब्राह्मणद्वारा अधारभ्य समाप्तिदिनपर्यंन्तं करिष्ये ।
निर्विघ्नतासिद्धयर्थं गणेशपूजनं स्वस्तिपुण्याहवाचनं तथा च ब्राह्मणावरणं देवतास्थापनं च करिष्ये ।
संकल्प ---
पूर्वसंकल्पित - दशखण्डात्मक - गणेशाथर्वशीर्षस्य सहस्रावृत्तिजपरुपपुरश्चरणाङ्गभूतं मुखदेवतागणेशप्रीत्यर्थं आवाहनादिपूजां करिष्ये ।
ततश्च अष्टदलं विलिख्य ‘महीद्यौदिल्यादिमन्त्रै: कलशं संस्थाप्य “पूर्वादर्वी” मन्त्रेन पूर्णपात्रं निधाय, तन्मध्ये सौवर्णगणेशप्रतिमां अग्न्युत्तारणप्राणप्रतिष्ठापूर्वकं गणेशगायत्र्या संस्थापयेत्‌ । गणेशगायत्रीमन्त्रोऽयम्‌ - ॐ एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात्‌ । एतेन मन्त्रेण षोडशोपचारै: पूजयेत्‌ तन्मध्ये सिन्दूरदूर्वाशमीपत्राणि आवश्यकानि । प्रतिदिनं अथर्वशीर्षस्य शतजपं कृत्वा तज्जपान्ते पंचोपचारपूजनेन श्रीगणेशं निवेदयेत्‌ । जपसमाप्तिकाले तद्दशांशहवनं कुर्यात्‌ ।
तत्रायं विधि --- शुभदिने प्रात:काले शुद्धजलेन स्नात्वा नित्यकर्म कृत्वा गणेशदेवतासमीपे सार्धहस्तमितं कुण्डं वा स्थण्डिलं वा कार्यमास्थण्डिलपार्श्वे यजमान: पत्न्या सह पूर्वाभिमुखो भूत्वा आचम्य प्राणानायम्य संकल्पयेत्‌ ।
संकल्प: मया वाञ्छितफलसिद्धयर्थं श्रीऋद्धिसिद्धिसहितमहागणपतिप्रीत्यर्थं ब्राह्मणद्वारा दशखण्डात्मक-गणेशाथर्वशीर्षस्य चतु:सहस्रावृत्तिरपपुरश्चरणस्य साङ्गतासिद्‌ध्यर्थं तत्संपूर्णफलप्राप्त्यर्थं तद्दशांशेन गणेशाथर्वशीर्षस्य चतु:शतावृत्तिभि: गोधूमपिष्टनिर्मित-तिलशर्कराएलाबीजादिपूरित घृतपाचित-चतु:सहस्रमोदकहवनं करिष्ये ।
तथा च कामनानुरूपेण संकल्प: कार्य: । वाञ्छितफलप्राप्तिरहं तद्दशांशदूर्वाङकुरहवनं करिष्ये । वैश्रवणोपमप्राप्तिकामोऽहं तद्दशांशधानाद्रव्यहवनं करिष्ये । यशोत्तमबुद्धिप्राप्तिकामोऽहं आज्यपरिप्लुतसमिद्धवनं करिष्ये ।
ततश्च निर्विघ्नतासिद्धयर्थं गणेशपूजनं कृत्वा पुण्याहवाचनादिनान्दीश्राद्धान्तं कृत्वा आचार्यवरणपूर्वकं आचार्यं सम्पूज्य प्रार्थयेत्‌ “आचार्यस्त्वं” इति मन्त्रेण । गौर्यादिमातृकानां विसर्जनं कृत्वा आचार्य: स्वयं संकल्पयेत्‌ । अमुकगोत्रोल्पन्नेन अमुकशर्मणा यजमानेन पूर्वसंकल्पित-तद्दशांशहवनार्थं वृतोऽहं तत्कर्मसिद्धयर्थं आचार्यकर्म करिष्ये ।
प्रथमं तावत्‌ स्थण्डिले बलवर्धननामाग्निं प्रतिष्ठाप्य “चत्वारि श्रृंगा” मन्त्रेण ध्यानं कृत्वा अन्वाधानं कुर्यात्‌ ।

संकल्प --- अद्य क्रियमाणे दशखण्डात्मकगणेशाथर्वशीर्षस्य चतुश्शतावृत्तिरूपपुरश्चरणजपदशांशहोमे देवतापरिग्रहार्थं अन्वाधनं करिष्ये ।

ततश्च प्रधानदेवतागणपतिं चतुश्शतसंख्याभि: गणेशाथर्वशीर्षावृत्तिभि: प्रतिखण्डं पूर्वोक्तमोदकद्रव्येणाहं यक्ष्ये इति संकल्प्य हवनं कार्यम्‌ । तदनन्तरं प्रतीताविमोकपर्यन्तं कृत्वा अग्निं पूजयेत्‌ । विभूतिधारणं कृत्वा (विभूतिवंदनम्‌) आवाहितदेवतानां तथा च गणेशदेवताया: उत्तरपूजां कुर्यात्‌ । बलिदानमकृत्वा पूर्णाहुतिमदत्वा कृतं सर्वं कर्म ईश्वरार्पणं कुर्यात्‌ ।
“गच्छ गच्छ” इति मन्त्रेण अग्निविसर्जनं कृत्वा तर्पणविधिं संकल्पयेत्‌ । संकल्प :--- अद्य फलप्राप्त्यर्थं गणेशाथर्वशीर्षस्य दशखण्डात्मकपूर्वसंकल्पितपुरश्चरन-दशांशहवनकृतस्य-हवनदशांशतर्पणं करिष्ये । अष्टभि: ब्राह्मणै: अथर्वशीर्षं पंचवारमुच्चार्य कृतं गणपतितर्पणं (दशखण्डात्मकं) गणेशार्पणं कुर्यात्‌ । ततश्च मार्जनम्‌ - संकल्प :--- अद्य. फलप्राप्त्यर्थं पूर्वसंकल्पितगणेशाथर्वशीर्षस्य तर्पणदशांशमार्जनं करिष्ये ।
चतुर्भि: ब्राह्मणै: एकवारं ॐ कारपूर्वकं अथर्वशीर्षं उक्त्वा यजमानमभिषिंचेत्‌ । ततश्च गणेशाथर्वविधानसाङ्गतासिदध्यर्थं संकल्प :--- मया कृतस्य आचार्यादिब्राह्मणद्वारा दशखण्डात्मक-गणेशाथर्वशीर्षस्य, चतु:सहस्र संख्याजपस्य मोदकद्रव्येण तद्दशांशहवनस्य,  हवनदशांशतर्पणस्य, तर्पणदशांशमार्जनस्य तत्साङ्गतासिध्द्यर्थं तत्सम्पूर्णफलप्राप्त्यर्थं तत्कर्मकर्तृगां आचार्याणां पुजनं, आचार्याय गोप्रदानं, हवनादिकर्तृभ्य: ब्राह्मणेभ्य: दक्षिणाप्रदानं, कर्माङ्गदेवताप्रीत्यर्थं यथाकालं यथोपपन्नेनान्नेन ब्राह्मणसुवासिनीकुमारकुमारिका: चतुर्विधान्नेनाहं भोजयिष्ये ।
अनेन कृतेन कर्मणा श्रीमहागणपति: प्रीयताम्‌ । श्रीमहागणपत्यर्पणमस्तु ।
इति श्रीगणेशाथर्वशीर्षपुरश्चरणविधि: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP