संस्कृत सूची|पूजा विधीः|विधिविधानः| मन्त्रमहोदधौ गणेशतरड्ग: विधिविधानः शारदातिलकान्तर्गत: गणेशपटल : मन्त्रमहोदधौ गणेशतरड्ग: ब्रह्मणस्पतिसूक्तहवनविधि: अथर्वशीर्षगणहवनविधानम् गणहोमविधिकारिका नारिकेलखण्डहवनकल्प: बौधायनोक्त: विनायककल्प: अथर्वशीर्षन्यासा: गणेशाथर्वशीर्षपुरश्चरणविधि: महागणपतिमंत्रविधानम् गृत्समदीया बाह्यपूजा दादशावरणपूजा गणेशकल्पोक्तपूजाविधानम् पार्थिव गणपतिपूजा मन्त्रमहोदधौ गणेशतरड्ग: गणेशाच्या प्रस्तुत उपासना केल्याने सर्व मनोकामना पूर्ण होतात. Tags : ganeshagodprayervidhiगणपतीगणेशदेवतादेवीविधी मन्त्रमहोदधौ गणेशतरड्ग: Translation - भाषांतर गणेशस्य मनून्वक्ष्ये सर्वाभीपृप्रदायकान् ॥जलं ( व ) चक्री ( क ) वह्लि ( र ) युत: कर्णे द्वाढया च कामिका ( तुं ) ॥१॥दारको ( ड ) दीर्घत्संयुक्तो ( आ ) वायु: ( य ) कवच ( हुं ) पश्चिम: ॥षडक्षरो मन्त्रराजो भजतामिष्ट-सिद्धिद: ॥२॥भार्गवो मुनिरस्वोक्त: छदो-नुप्टुबुदाह्लत: ॥विघ्नेशो देवता बीजं वं शक्तिर्य-मितीरितम् ॥३॥षडक्षरै: सविधुभि: प्रणवाद्यैर्न-मोन्तकै: ॥पकुर्याज्जातिसंयुक्तै: षडड्राविधिमुत्तमम् ॥४॥भ्रूमध्यकण्ठहदयनाभिलिड्रपदेषु च ॥मनोर्वर्णान्क्रमानन्यस्य व्यापय्याथो स्मरेत्प्रभुम् ॥५॥उद्यद्दिनेश्वररुचिं निजहस्तपद्मै: पाशाड्कुशाभयवरान्दधतं गजास्यम् ॥रक्ताम्बरं सकल दु:खहरं गणेशं ध्यायेत्प्रसन्नमखिलाभरणा-भिरामम् ॥६॥ऋतुलक्षं जपेन्मन्त्रमष्टद्रव्यै-र्दशांशत: ॥जुहुयान्मन्त्रसंसिध्यै वाडवान्भोजयेच्छु-चीन् ॥७॥इक्षव: सक्तवो रम्भाफलनि चिपिटास्तिला: ॥मोदका नारिकेलनि लाजा-द्रव्याष्टकं स्मृतम् ॥८॥पीठमाधारशक्त्यादि-परतत्त्वान्तमर्चयेत् ॥तत्राष्टदिक्षुमध्ये च सम्पूज्या नवशक्तय: ॥९॥तीव्रा च चालिनी नन्दा भोगदा कामरूपिणी ॥उग्रा तेजोवती सत्या नवमी विघ्रनाशिनी ॥१०॥विनायकस्य मन्त्रा-णामेता: स्यु: पीठशक्तय: ॥सर्वशक्तिक्रमान्ते तु लासनाय ह्लदन्तिक: ॥११॥पीठमन्त्रस्तदीयेन बीजेनादौ समन्वित: ॥प्रदायासनमेतेन मूर्ति मूलेन कल्पयेत् ॥१२॥तस्यां गणेशभावाह्य पूजयेदासनादिभि: ॥अभ्यर्च्य कुसुमैरीशं कुर्या-दावरणार्चनम् ॥१३॥आग्रेयादिषु कोणेषु हदयं च शिर: शिखाम् ॥वर्माभ्यर्च्याग्रतो नेत्रं दिक्ष्वस्त्रं पूजयेत्सुधी: ॥१४॥द्बितीयावरणे पूज्या: प्रागाद्यष्टैव शक्तय: ॥विद्यादिमा विधात्री च भोगदा विघ्रघातिनी ॥१५॥निद्यिप्रदीपा पापमी पुण्या पश्चाच्छशिप्रमा ॥दलाग्रेषु वक्रतुण्ड एकदंष्ट्रो महोदर: ॥१६॥गजास्यलम्बोदरकौ विकटो विघ्नराजक: ॥धूस्रवर्णस्वदग्रेषु शक्राद्या आयुधैर्युता: ॥१७॥एवसावरणै: पूज्य: पञ्चभि-र्गणनायक: ॥पूर्वोक्ता च पुरश्चर्या कार्या मन्त्रस्य सिद्धये ॥१८॥तत: सिद्धे मनौ काम्यान्प्रयोगा-न्साधयेन्निजान् ॥ब्रह्मचर्यरतो मन्त्री जपेद्रवि-सहस्रकम् ॥१९॥पण्मासमध्याद्दारिद्यं नाश-यत्येव निश्चितम् ॥चतुर्थ्यादिचतुर्थ्यन्तं जपे द्दशसहस्रकम् ॥२०॥प्रत्यहं जुहुयादप्टोत्तरं शतमतन्द्रित: ॥पूर्वोक्तं फलमाप्रोति पण्मासा-भ्दक्तितत्पर: ॥२१॥आज्याक्तान्नस्य होमेन भवेद्धनसमृद्धिमान् ॥पृथुकैर्नारिकेलैर्वा मरिचैर्वा सहस्रकम् ॥२२॥प्रत्यहं जुहतो मासाज्जायते धनसञ्चय: ॥जीरसिन्धुमरीचाक्तैरप्टद्रव्यै: सहस्र-कम् ॥२३॥जुह्लन्प्रतिदिनं पक्षात्स्यात्कुंबेर इवार्थवान् ॥चतु:शतं चतुश्चत्वारिंशदाख्यं दिने दिने ॥२४॥तर्पयेन्मृलमन्त्रेण मण्डलदिप्टमा-प्नुयात् ॥अथ मन्त्रान्तरं वक्ष्ये साधकानां निधि-प्रदम् ॥२५॥रायस्पोपमृगुर्याढयो ददिनामेप-सात्वतौ ॥सदृशौ दोरत्नधातुमान्रक्षी गगनं रति: ॥२६॥स सधोबलशार्ड्रीखं नो पडक्षर-संयुत: ॥एकत्रिंशद्वर्णयुक्तो मन्त्रोऽभीपृग्रदायक:॥२७॥सायकैस्रिभिरष्टाभिश्चतुर्भि: पश्चभी रसै: ॥मन्त्रोत्थितै: कमाद्वर्णै: षडड्रं समुदीरितम् ॥२८॥ऋप्याद्यर्चाप्रयोगा: स्यु: पृर्ववन्निधिदो ह्ययम् ॥पद्मनाभयुतो भानुर्मेधा सद्यसमन्विता ॥२९॥लकावनन्तमारूढौ वायु: पावकगेहिनी ॥पड-क्षरोऽयमादिप्टो भजतामिप्टदो मनु: ॥३०॥पूर्ववत्सर्वमेतस्य समागधनमीरितम् ॥लकुली-दृशमारूढौ भृगुतौ लेहित: सदृक् ॥३१॥वक:सदीर्घश्च: साक्षिर्लिखेन्मन्त्र: शिरोऽन्तिम: ॥नवाक्षरो मनुश्चास्य कड्कोल: परिकीर्तित: ॥३२॥विराट्छन्दो देवता तु स्याद्वै चोच्छिप्टनायक: ॥द्बाभ्यां त्रिभिर्द्वयेनाथ द्वाभ्यां सकलमन्त्रत: ॥३३॥पञ्चागान्यस्य कुर्वीत ध्यायेत्तं शशिशे-खरम् ॥चतुर्भुजं रक्ततनुं त्रिनेत्रं पाशाड्कुशौ मोदकपात्रदन्तौ ॥करैर्दधानं सरसीरुहस्थ-मुन्मत्तमुच्छिप्टगणेशमीडे ॥३४॥लक्षमेकं जप-न्मन्त्रं दशांशं जुहुयात्तिले: ॥पूर्वाक्ते पूजयेत्पीठे विधिनोच्छिप्टविघ्नपम् ॥३५॥आदावड्रानि सम्पूज्य ब्रह्माद्यान्दिक्षु पूजयेत ॥ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी परा ॥३६॥वाराही च तथेन्द्राणी चामुण्डा रमया सह ॥ककुप्सु वक्र-तुण्डाद्यान्दशसु प्रतिपूजयेत् ॥३७॥वक्रतुण्डै-कदंप्ट्रौ च तथा लम्बोदराभिध: ॥विकटो धूम्र-वर्णश्च विघ्नश्चपि गजानन: ॥३८॥विनायको गणपतिर्हस्तिदन्ताभिधोऽन्तिम: ॥इन्द्राद्यानपि वज्राद्यान्पूजयेदावृतिद्वये ॥३९॥एवं सिद्धे मनौ मन्त्री प्रयोगान्कर्तुमर्हति ॥स्वाड्गुष्ठप्रतिमां कृत्वा कपिनासितभानुना ॥४०॥गणेशप्रतिमां रम्यामुक्तलक्षणलक्षिताम् ॥प्रतिष्ठाप्य विधानेन मधुनास्रापयेच्च ताम् ॥४१॥आरभ्य कृष्ण-भूतादि यावच्छुक्ला चतुर्दशी ॥सगुडं पायसं तस्मै निवेद्य प्रजपेन्मनुभ् ॥४२॥सहस्रं प्रत्यहं तावज्जुहुयात्सघृतैस्तिलै: ॥गणेशोऽहमिति ध्यायन्नुच्छिष्टेनावृतो रह: ॥४३॥पक्षाद्राज्य-मवाप्रोति नृपजोऽन्योऽपि वा नर: ॥कुलाल-मृत्स्ना प्रतिमा पूजितैवं सुराज्यदा ॥४४॥वल्मीकमृत्कृतालाभमेवमिष्टान्प्रयच्छति ॥गौडी सौभाग्यदा सैवं लावणी क्षोभयेदरीन् ॥४५॥निम्बजा नाशयेच्छत्रून्प्रतिमैवं समर्चिता ॥मध्वक्तैर्होमतो लाजैर्वशयेदखिलं जगत् ॥४६॥सुप्तोऽधिशय्यमुच्छिप्टो जपञ्च्छत्रून्वशं नयेत् ॥कटुतैलान्वितैराजीपुष्पौर्विद्वेषयेदरीन् ॥४७॥द्यूते विवादे समरे जप्तोऽयं जयमावहेत् ॥कुबेरोऽस्य मनोर्जापान्निधीनां स्वामितामयात् ॥४८॥लेभाते राज्यमनरि वानरेशबिभीषणौ ॥रक्तवस्राड्ररागाढय: ताम्बूलं निश्यदं जपेत् ॥४९॥यद्वा निवेदितं तस्मै मोदकं भक्षयञ्जपेत् ॥पिशितं वा फलं वापि तेन तेन बलिं हरेत् ॥५०॥सेन्दु: स्मृतिस्तथकाशं मन्विन्द्वाढ्यौ च सृष्टिलौ ॥पञ्चान्तकशिवौ तद्वदुच्छिप्टभगान्वित: ॥५१॥उमाकान्त: श्याय मां ते हायक्षाया सबिन्दुय: ॥बलिरित्येष कथितो नवेन्द्वर्णो बले-र्मनु: ॥५२॥ध्रुवो मायासेन्दुशार्ड्रिर्बीजाढयो नववर्णक: ॥द्वादशार्णो मनु: प्रोक्त: सर्व-मस्य नवार्णवत् ॥५३॥ताराद्यश्च गणेशाद्यो नवार्णो दशवर्णक: ॥द्विविधोऽस्योपासनं तु प्रोक्तमन्यन्नवार्णवत् ॥५४॥ध्रुवो ह्लदुच्छिष्ट-गणेशाय ते तु नवाक्षर: ॥एकोनविंशत्यर्णाढयो मनुर्मुन्यादिपूर्ववत् ॥५५॥त्रिभि: सप्तभिरक्षिभ्यां त्रिभिर्द्वाभ्यां द्वयेन च ॥मन्त्रोत्थितै: सुधीर्वर्णै:कुर्यादड्रं पुरार्चनम् ॥५६॥तारो नमो भगवते झिंटीशश्र्चतुरानन: ॥दंष्ट्राय हस्तिमुच्चार्य खाय लम्बोदराय च ॥५७॥उच्छिष्टमवियद्दीर्घात्मने पाशोड्कुश: परा ॥सेन्दु: शार्ड्रीभगयुते द्वे मेघे वह्लिकामिनी ॥५८॥उच्छिष्टगणनाथस्य मनु-रद्रिगुणाक्षर: ॥गणको मुनिराख्यातो गायत्री-च्छंद ईरित: ॥५९॥उच्छिष्टगणपो देवो जये-दुच्छिष्ट एव तम् ॥सप्तदिग्बाणसप्ताब्धियुगार्णै-रड्रकं मनो: ॥६०॥शरान्धनुष्पाशसृणीस्व-हस्तैर्दधानमारक्तसरोरुहस्थम् ॥विवस्त्रपत्न्यां सुरतप्रवृत्तमुच्छिष्टमम्बासुतमाश्रयेऽहम् ॥६१॥लक्षं जपेद् घृतैर्हुत्वा तद्दशामशं प्रपूजयेत् ॥पूर्वोक्तपीठे स्वाभीष्टसिद्धये पूर्ववद्बिभुम् ॥६२॥कृष्णाष्टम्यादितद्भूतं यावत्तावज्जपेन्मनुम् ॥प्रत्यहं साष्टसाहस्रं जुहुयात्तदशांशत: ॥६३॥तर्पयेदपि मन्त्रोऽयं सिद्धिमेवं प्रयच्छति ॥धनं धान्यं सुतान्पौत्रान्सौभाग्यमतुलं यश: ॥६४॥मूर्ति कुर्याद्गणेशस्य शुभाहे निम्बदारुणा ॥प्राणप्रतिष्ठां कृत्वाथ तदग्रे मन्त्रमाजपेत् ॥६५॥यं ध्यात्वा दासवत्सोऽपि वश्यो भवति निश्चितम् ।नदीजलं समादाय सप्तविंशतिसंख्यया ॥६६॥मन्त्रसित्वा मुखं तेन प्रक्षाल्येशसमां व्रजेत् ॥पश्येद्यं दृश्यते येन स वश्यो जायते क्षणात् ॥६७॥चतु: सहस्रं धत्तूरपुष्पाणि मनुनार्पयेत् ॥गणेशाय नृपादीनां जनानां वश्यताकृते ॥६८॥सुन्दरी-वामपादस्य रेणुभादाय तत्र तु ॥संस्थाप्य गण-नाथस्य प्रतिमां प्रजपेन्मनुम् ॥६९॥तां ध्यात्वा रविसाहस्रं सा समायातिदूरत: ॥श्र्वेतार्केणाथ निम्बेन कृत्वा मूर्ति धृतासुकाम् ॥७०॥चतुर्थ्यां पूजयेद्रात्रौ रक्तै: कुसुमचन्दनै : ॥जप्त्वा सहस्रं तां मूर्तिं क्षिपेद्रात्रौ सरित्तटे ॥७१॥स्वेष्ट कार्यं समाचष्टे स्वप्रे तस्य गणाधिप: ॥सहस्रं निम्ब-काष्ठानां होमादुच्चाटयेदरीन् ॥७२॥वज्रिण: समिधां होमाद्रिपुर्य्यमपुरं व्रजेत् ॥वानरस्या-स्थिसञ्जप्तं क्षिप्तमुच्चाटयेद्गृहे ॥७३॥जप्तं नरास्थिकन्याया गृहे क्षिप्तं तदाप्तिकृत् ॥कुला-लस्य मृदा स्रीणां वामदादस्य रेणुणा ॥७४॥कृत्वा पुत्तलिकां तस्या हदि स्रीनाम संलिखेत् ॥निखनेन्मन्त्रसञ्जप्तैर्न्निम्बकाष्ठै: क्षिताविमाम् ॥७५॥सोन्मत्ता भवति क्षिप्रमुद्धृतायां सुख्म भवेत् ॥शत्रोरेव्म कृता सा तु लशुनेन समन्विता ॥७६॥शरावान्तर्गता सम्यक्पूजिता वारिविद्विष: ॥निखाता पक्षमात्रेण शत्रूच्चाटनकृत्स्मृता ॥७७॥विषमे समनुप्राप्ते सितार्कारिष्टदारुजम् ॥गणपं पूजितं सम्यक्कुसुमै: रक्तचन्दनै: ॥७८॥मद्य-भाण्डस्थितं हस्तमात्रे तं निखनेत्स्थले ॥तत्रो-पविश्य प्रजपेन्मन्त्री नक्तं दिवा मनुम् ॥७९॥सप्ताहमध्ये नश्यन्ति सर्वे घोरा उपद्रवा: ॥शत्रवो वशमायान्ति वर्धन्ते धनसम्पद: ॥८०॥दुष्ट-स्त्रीवामपादस्य रजसा निजदेहजै: ॥मलैर्भूत्रपुरी-षाद्यै: कुम्मकारमृदापि च ॥८१॥एतै: कृत्वा गणेशस्य प्रतिमां मद्यभाण्डगाम् ॥सम्पूज्य निखनेद्भूमौ हस्तार्धे पूरिते पुन: ॥८२॥संस्थाप्य वह्लिं जुहुयात्कुसुमैर्हयमारजै: ॥सहस्रं सा भवेद्दासी तन्वा च मनसा धनै: ॥८३॥एवमादिप्रयो-गांस्तु नवार्णेनापि साधयेत् ॥हस्तिमुखा-याथ डेन्तो लम्बोदरस्तथा ॥८४॥उच्छिष्टान्ते महात्माड्रे पाशाड्कशशिवात्मभू: ॥मायावर्म च घे घे उच्छिष्टाय दहनाड्रना ॥८५॥द्वात्रिंशद- क्षरो मन्त्रो यजनं पूर्ववन्मतम् ॥रसेषुसप्तषट्षट्-कनेत्रार्णैरड्रमीरितम् ॥८६॥उच्छिष्टगजवक्त्रस्य मन्त्रेष्वेषु न शोधनम् ॥सिद्धादिचक्रं मासादे: प्राप्तास्ते सिद्धिदा गुरो: ॥८७॥मनवोऽमी सदा गोप्या न प्रकाश्या यत: कुत: ॥परीक्षिताय शिष्याय प्रदेया निजसूनवे ॥८८॥मायात्रिमूर्ति-चन्द्रस्थौ पञ्चान्तकहुताशनौ ॥तारादिशक्तिबीजा-न्तोमन्त्रोऽयं चतुरक्षर: ॥८९॥भार्गवोऽस्य मुनि-श्छन्दो विराट्शक्तिर्गणाधिप: ॥देवो माया द्वितीये तु शक्तिबीजे प्रकीर्तिते ॥९०॥षड्दीर्घ-युगद्बितीयेन ताराद्येन षडड्रकम् ॥विधाय साव-धानेन मनसा संस्मरेत्प्रभुम् ॥९१॥विषाणा-ड्कुशावक्षसूत्रं च पाशं दधानं करैर्मौदकं पुष्क-रेण ॥स्वपत्न्यायुतं हेमभूषाभराढ्यं गणेशं समु द्यद्दिनेशाभमीडे ॥९२॥एवं ध्यात्वा जपेल्लक्षच-तुष्कं तद्दशांशत: ॥अपूपैर्जुहुयाद्बह्लौ मध्वक्तैस्त-र्पयेच्चतम् ॥९३॥पूर्वोक्ते पूजयेत्पीठे केसरेष्वड्र-देवता: ॥दलेषु वक्रतुण्डाद्यान्ब्राह्मीत्याद्यान्द-लाग्रगान् ॥९४॥ककुप्पालांस्तदस्त्राणि सिद्ध एवं भवेन्मनु: ॥घृताक्तमन्नं जुहुयादावर्षादन्नवा-न्भवेत् ॥९५॥परभान्नैर्हुता लक्ष्मीरिक्षुदण्डैर्नृप-श्रिय: ॥रम्माफलैर्नारिकेले: पृथुकैर्वश्यता भवेत् ॥९६॥घृतेन धनमाप्रोति लवणैर्मधुसंयुतै: ॥वामनेत्रां वशीकुर्यादपूपै: पृथिवीपतिम् ॥९७॥तारो रमाचन्द्रयुक्त: खान्त: सौम्यसमीरण: ॥डेतो गणपतिस्तोयं स्वरान्तेदसर्व च ॥९८॥जनं मे वशमादीर्घो वायु: पावककामिनी ॥अष्टाविशतिवर्णोऽयं मनुर्धनसमृद्धिद: ॥९९॥अन्तर्यामी मुनिश्र्छन्दो गायत्री देवता मनो: ॥लक्ष्मीविनायको बीजं रमाशक्तिर्वसुप्रिया ॥१००॥रमागणेशबीजाभ्यां दीर्घाढ्याभ्यां षडड्रकम् ॥दन्ताभये चक्तदरौ दधान्म कराग्रगस्वर्णघटं त्रिनेत्रम् ॥धृताब्जयालिड्रितमब्धिपुत्र्या लक्ष्मी-गणेशं कनकाममीडे ॥१०१॥चतुर्लक्षं जपेन्मत्रं समिद्भिर्बिल्वशाखिन: ॥दशांशं जुहुयात्पीठे पूर्वोक्ते तं प्रपूजयेत् ॥१०२॥आदावड्रानि सम्पूज्य शक्तीरष्टाविमा यजेत् ॥बालका विमला पश्चात्कमला वनमालिका ॥१०३॥बिभीषिका मालिका च शाड्करी वसुबालिका ॥शड्खपद्मनिधी पूज्यौ पार्श्वयोर्दक्षवामयो: ॥१०४॥लोकाधि-पांस्तदस्त्राणि तद्वहि: परिपूजयेत् ॥एव्म सिद्धे मनौ मन्त्री प्रयोगान्कर्तुमर्हति ॥१०५॥उरो-मात्रे जले स्थित्वा मन्त्री ध्यात्वार्कमण्डले ॥एवं त्रिलक्षं जपतो धनवृद्धि: प्रजायते ॥१०६॥बिल्वमूलं समास्थाय तावज्जप्ते फल हि तत् ॥अशोककाष्ठैर्ज्वलिते वह्यावाज्याक्ततण्डुलै: ॥१०७॥होमतो वशयेद्विश्वमर्ककाष्ठं शुचावपि ॥खादि-राग्रौ नरपतिं लक्ष्मीं पायसहोमत: ॥१०८॥वक्रकर्णेन्दुयुक् णान्तौ डैकतुण्डाय मन्मथ: ॥मायारमागजमुखो गणपान्ते भगी हरि: ॥१०९॥वरबालग्रिसत्या: सरेफारूढं जलं स्थिरा ॥सेन्दुर्मेषो मेवशान्ते मानयोषर्बुधप्रिया ॥११०॥स्यात्त्रयस्त्रिंशदर्णाढयो मनुस्त्रैलोक्यमोहन: ॥गणकोऽस्य ऋषिश्छन्दो गायत्री देवता पुन:॥१११॥ त्रैलोक्यमोहनकरो गणेशो भक्त-सिद्धिद: ॥रविवेदशरोदन्वद्रसनेत्रै: षडड्रकम् ॥११२॥गदाबीजपूरे धनु:शूलचक्रे सरोजोत्पले पाशधान्याग्रंदन्तान् ॥करै: सन्दधानं स्वशुण्डा-प्रराजन्मणीकुम्भमड्काधिरूढं स्वपत्न्या ॥११३॥स्वरोजन्मना भूषणानां भरेणोज्ज्वलद्धस्ततन्व्या समालिड्रिताड्रम् ॥करीन्द्राननं चन्द्रचूदं त्रिनेत्रं जगन्मोहन रक्तकान्तिं भजेत्तम् ॥११४॥वेदलक्षं जपेन्मन्त्रमष्टद्रव्यैर्दशांशत: ॥हुत्वा पूवोंदितं पीठे पूजयेद्रणनायकम् ॥११५॥अड्रार्चा पूर्व-वत्प्रोक्ता शक्ती: पत्रेषु पूजयेत् ॥वामा ज्येष्ठा च रौद्री स्यात्काली कलपदादिका ॥११६॥विकरिण्याह्लया तद्बदलाद्या प्रमथन्यपि ॥सर्वभूत-दमन्याख्या मनोम्नन्यपि चाग्रत: ॥११७॥दिक्षु प्रमोद: सुमुखो दुर्मुखो विघ्रनाशक: ॥दीर्घाद्या मातर: पूज्या इन्द्राद्या आयुधान्यपि ॥११८॥एवं सिद्धे मनौ कुर्यात्प्रयोगानिष्टसिद्धये ॥वशये-त्कमलैर्भूपान्मन्त्रिण: कुमुदैर्हुतै: ॥११९॥सभि-द्बरैश्चलदलसमुद्भूतैर्धरासुरान् ॥उदुम्बरोत्थैर्नृ-पतीन्प्लक्षैर्वाटैर्विशोन्तिमान् ॥१२०॥क्षौद्रेण कनकप्राप्ति: गोप्राप्ति: पयसा गवाम् ॥ऋद्धिर्द-ध्योदनैरन्नं घृतै: श्रीर्वेतसैर्जलम् ॥१२१॥तारो वर्मगणेशो भूर्हरिद्रागणलोहित: ॥आषाढीये वरवरसत्य: सर्वजतर्जनी ॥१२२॥हदयं स्तम्मय-द्बन्द्वं वल्लभान्स्वर्णरेतस: ॥द्वात्रिंशदक्षरो मन्त्रो मदनो मुनिरीरित: ॥१२३॥छन्दोऽनुष्टुव्-देवता तु हरिद्रागणनायक: ॥वेदाष्टशरसप्ताड्र-नेत्रार्णैरड्रमीरितम् ॥१२४॥पाशाड्कुशौ मोदकमेकदन्तं करैर्दधानं कनकासनस्थम् ॥हारिद्रखण्डप्रतिमं त्रिनेत्रं पीतांशुकं रात्रिगणेश-मीडे ॥१२५॥वेदलक्षं जपित्वान्ते हरिद्राचूर्ण-मिश्रितै: ॥दशांशं तन्डुलैर्हुत्वा ब्राह्मणानपि भोजयेत् ॥१२६॥पूर्वोक्तपीठे प्रयजेदड्रमातृ-दिशाधवै: ॥एवमाराधितो मन्त्रस्सिद्धो यच्छे न्मनोरथान् ॥१२७॥शुक्लपक्षे चतुर्थ्या तु कन्यापिष्टहरिद्रया ॥विलिप्याड्रं जले स्रात्वा पूजयेद्रणनायकम् ॥१२८॥तर्पयित्वा पुरस्तस्य सहस्रं साष्टकं जपेत् ॥शतं हुत्वा घृतापूपै-र्भोजयेद्ब्रह्यचारिण: ॥१२९॥कुमारीरपि सन्तोष्य गुरुं प्राप्रोति वाञ्छितम् ॥लाजै: कन्यामवाप्रोति कन्यापि लभते वरम् ॥१३०॥वन्ध्या नारी रज:स्राता पूजयित्वा गणाधिपम् ॥पलप्रमाण-गोमूत्रे पिष्टा: सिन्धुवचानिशा: ॥१३१॥सहस्रं मन्त्रयेत्कन्या बटून्सभ्भोज्य मोदकै: ॥पीत्वा तदोषधं पुत्रं लभते गुणसागरम् ॥१३२॥वाणीस्तम्मं रिपुस्तम्मं कुर्यान्मनुरुपासित: ॥जलग्निचौरसिंहास्रप्रमुखानपि रोधयेत् ॥१३३॥शार्ड्रीमांसस्थित: सेन्दुर्बीजमुक्तं गणेशितु: ॥हरिद्राख्यस्य यजनं पूर्ववत्प्रोदितं मनो: ॥१३४॥प्रोक्ता एते गणेशस्य मन्त्रा इष्टमभीप्सता ॥गोपनीया न दुष्टेभ्यो वदनीया: कथञ्चन ॥१३५॥इति मन्त्रमहोदधौ गणेशतरड्र: ॥ N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP