संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|उड्डामरेश्वरतन्त्र| द्वादशः पटलः उड्डामरेश्वरतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः ढशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः उड्डामरेश्वरतन्त्र - द्वादशः पटलः ‘उड्डामरेश्वरतन्त्र ’ हे तंत्रशास्त्रातील अत्यंत दुर्मिल आणि गुप्त तंत्र आहे, साधक याचा उपयोग अतिशय निर्वाणीच्या क्षणी करतात. Tags : shastratantraउड्डामरेश्वरतन्त्रशास्त्रसंस्कृत द्वादशः पटलः Translation - भाषांतर ओं ह्रीं श्रीं क्लीं द्रं चण्डोग्रे त्रिनेत्रे चामुण्डे अरिष्टे हूं फट्स्वाहा ।ह्रीं नमाम्यहं महादेवं नृसिंहं भीमरूपिणं ओं नमस्तस्मै ।श्रीपार्वत्युवाच ।उड्डीशेन समाकीर्णे योगिवृन्दसमाकुले ।प्रणम्य शिरसा गौरी परिपृच्छति शंकरं ॥श्रीश्वर उवाच ।शृणु त्वं हि वरारोहे सिद्ध्यर्थं प्रतिवाससे ।तं वदिष्यामि ते देवि सर्वं तत्समुपाहृतं ॥देवि यो द्विजो मन्त्रैस्तु विप्रहन्यान्न संशयः ।पूर्वोदितं मयोड्डीशं कथ्यते तव भक्तितः ॥उड्डीशं च नमस्कृत्य रुद्रं चैव सुदुर्जयं ।कपर्दिनं विरूपाक्षं सर्वभूतभयावहं ॥प्रथमं भूतकरणं द्वितीयोन्मादनं तथा ।तृतीयं द्वेषणं चैव तुर्यं उच्चाटनं तथा ॥ग्रामोच्चाटं पञ्चमं च षष्ठं च जलस्तम्भनं ।सप्तमं अग्निस्तम्भं च वशीकरणं अष्टमं ॥अन्यानपि प्रयोगांश्च शृणुष्व वै वरानने ।शिवेन कथिता योगा उड्डीशे शास्त्रनिश्चये ॥अन्धी च वन्धीकरणं मूकीकारस्तथैव च ।गात्रसंकोचनं चैव भूतज्वरकरस्तथा ॥अस्त्रशस्त्रस्य त्रुटितं पानीयस्य विनाशनं ।दधिमधुनाशनं च नखकरणं तथैव च ॥गजानां वाजिनां चैव प्रकोपनं परस्परं ।आकर्षणं भुजंगानां मानवानां तथा ध्रुवं ॥सस्यविनाशनं चैव गर्भस्यान्तर्धिकारणं ।वेतालाञ्जनसिद्धिश्च उलूकसिद्धिरपि हि ॥अन्यानपि महारौद्रान्प्रयोगान्शृणु साम्प्रतं ।विद्यामन्त्रप्रयोगांश्च औषधं चाभिचारिकं ॥गुप्ता गुप्ततराः कार्या रक्षितव्याः प्रयत्नतः ।अकुलीनाधमबुद्धेर्भक्तिहीनस्य वै तथा ॥हिंसकस्य च क्षुद्रस्य निन्दकस्य विशेषतः ।स्वार्थं फलादिलुब्धस्य उपदेशं अमन्यतः ॥अस्मिन्शापे पूरुषास्ते वर्जनीयाः प्रयत्नतः ।एतैश्च सह संयोगो न कार्यः सर्वदा बुधैः ॥य उड्डीशक्रियाशक्तिभेदं कुर्वन्ति मोहिताः ।ते दुष्टा दुर्जयाश्चैव किं अत्र बहुभाषितैः ॥यदीच्छासिद्धिं आत्मानं आत्मार्थं हि तथैव च ।सत्पूरुषाय दातव्यं देवगुरुरताय च ॥प्रयोगास्तु प्रयोक्तव्याः साधकैः शत्रुकारणे ।अनिमित्ता निवर्तन्ते स्वात्मग्राहे न संशयः ॥असंतुष्टो ह्ययुक्तश्च प्रयोगानिति नाचरेत् ।शास्त्रसिद्धविचारास्तु सामन्तकोषकाः शुभाः ॥ओं ग्ल्ॐ गं गणेशाय नमः ।मन्त्रेणानेन मन्त्रज्ञः कुम्भकारमृदा तथा ।लम्बोदरं प्रकुर्वीत पूजयेदुपचारकैः ॥साप्ताहिकं त्रिसंध्यायां जप्तव्यं सावधानतः ।सहस्रैकप्रमाणेन जपाच्छान्तिर्भविष्यति ॥प्रातरष्टोत्तरं जप्त्वा लभेद्बुद्धिं शुभां नरः ।मासेनैकेन देवेशि श्रीलाभश्च भवेद्ध्रुवं ॥षण्मासेन वरारोहे महाधनपतिर्भवेत् ।त्रिकालज्ञानवेत्ता च वर्षैकेन न संशयः ॥ऐं नमः स्वाहा ।प्रातः सहस्रवारं तु प्रजप्तेन प्रपूजयेत् ।वरदां तु महादेवीं श्वेतगन्धानुलेपनैः ॥पुष्पैर्जापैर्दक्षिणादिसोपचारैस्तु प्रत्यहं ।सप्तमे दिवसे ह्येवं वागैश्वर्यं प्रजायते ॥भवेत्सद्यः प्रवक्ता च श्रुतिस्मृतिधरोऽपि च ।बान्धवः सर्वभूतानां चिरायुः सुखं एधते ॥ओं क्लीं मन्त्रेणानेन देवेशि साधकः जपं आरभेत् ।रक्तवस्त्रावृतो नित्यं तथा कुङ्कुमजाङ्गले ॥सप्ताहजपमात्रेण ह्यानयेत्त्रिदशाङ्गनां ।ओं द्रीं द्रीं द्रीं द्रीं स्वाहा ।पूर्वविधानो हि जपेदेकान्तसंस्थितः ॥आकर्षेति स्त्रियं शस्तां सालंकारां सुवाससं ।ओं हैं हः हुं ।ऊर्ध्वदृष्टिप्रयोगेण जपेल्लक्षत्रयं प्रिये ॥सर्वपापविनिर्मुक्तो जायते खेचरे पदे ।ओं द्रीं कारीण्डः क्षः क्षीं फट्स्वाहा ।एकपादस्थितो भद्रे जपेदष्टोत्तरं शतं ॥यद्यत्प्रार्थयते वस्तु तद्ददाति दिने दिने ।यजेन्नरविशेषं च देवाग्निगुरुब्राह्मणैः ॥ओं श्रीं क्षीं लोहं मुञ्च किलि किलि अमुकं काटय काटय मातंगिनि स्वाहा ।मन्त्रेणानेन पूर्वाह्णे पूजयन्नुपचारकैः ।शरावं पूरयित्वा तु चतुष्पथे बलिं हरेत् ॥समन्त्रं क्षिप्यति पुमान्पुरुषं यदि पश्यति ।आत्मचिन्तितकार्याणि साधयत्येव नान्यथा ॥ओं स्तम्भिनि स्वाहा कपालिनि स्वाहा द्रीं द्रीं वैषादार्थिनि स्वाहा छः छः ।मन्त्रेण मृत्तिकां जप्त्वा प्रतार्य सप्तधा जले ।संमुखीभूय क्षिप्त्वा च जप्त्वा चायुतं वासरे ॥तेन सिद्धो भवेन्मन्त्रः साधकस्य न संशयः ।ओं श्रीं क्षां क्षीं क्षूं क्षैं क्ष्ॐ क्षः ।मध्याह्नसमये सूर्यसम्मुखे जपं आचरेत् ॥अयुतं जप्तमात्रेण स्वसामर्थ्यं प्रपश्यति ।तस्य दृष्टिनिपातेन द्विपदश्च चतुष्पदः ॥ज्वराभिभूता जायन्ते अपूर्वा मन्त्रसम्पदः ।ओं हंसः हंसं सोऽहं स्वाहा ।एकविंशतिजप्तेन जलेन ज्वरपीडितः ॥विमुच्यते पानमात्रात्सद्यः स्वस्थश्च जायते ।ओं द्रीं नमो घोरेश्वरि घोरमुखि चामुण्डे ऊर्ध्वकेशि विकृतानने द्रीं द्रीं हुं फतुं स्वाहा ।अयं सर्वदलनमन्त्रः ॥ओं द्रीं द्रीं द्रीं फट्फट्फट्स्वाहा सर्वग्रहाणां त्रासनं कुरु कुरु अङ्गुलिप्रहारेण ।ओं स्रं स्रां स्रिं स्रीं स्रुं स्रूं स्रें स्रैं स्रों स्र्ॐ स्रं स्रः ह रं र्ॐ रीं रूं रैं रेविः छुं छुं हंसः अमृतवर्चसे स्वाहा ।अनेन मन्त्रेणोदकं शरावं संक्षिप्याष्टोत्तरशतेनाभिमन्त्रितं कृत्वा पिबेत्प्रातरुत्थाय संवत्सरेण वल्लीपलितवर्जितो भवति ।वृक्षस्थावरजङ्गमाकृतिं समाङ्गीकाराच्च व्याघ्रलोमादिकं पूर्वोदर्यां भस्मीकरोति सर्वजनप्रियो भवति चिरायुर्भवति ।ओं नमो भगवते रुद्राय चण्डेश्वराय हुं हुं हुं फट्स्वाहा ।अनेन मन्त्रेण जपं कृत्वा शीघ्रं ईप्सितं लभेत् ॥ओं हूं द्रीं क्षं क्षां क्षिं क्षीं क्षुं क्षूं क्षें क्षैं क्षों क्ष्ॐ क्षं क्षः हूं फट्स्वाहा ।इमं मन्त्रं पूर्वं लक्षं एकं जपेत्तद्दशांशं अयुतं हवनं कुर्यात् ।एकैकं समिधं घृताक्तां जुहुयात्सिद्धो भवति गङ्गागोलोके न ते मेघाः प्रणश्यन्ति न च वर्षन्ति वासवो नदसमुद्रं शोषयति मेघस्तम्भो भवति ।उदकमध्ये स्थित्वा जपं करोत्यनावृष्टिकालेऽतिवृष्टिं करोति ।ओं द्रीं प्रचलिते कुबेरे हूं हूं किलि किलि स्वाहा ।पूर्ववेलायां आदर्शदीपसमीपे षडङ्गुलेन भाजने सूर्यमण्डले कुमारं वामे वेशयति पूर्वं अयुतजपः कर्तव्यः पञ्चोपचारेण पूजा च कर्तव्या पूर्वाभिश्च स्वराज्ये ।ओं श्रीं हिमजाते प्रयच्छ मे धनं स्वाहा ।अनेन मन्त्रेण सिद्धार्थकं घृतमिश्रितं हुनेतष्टोत्तरशते न अन्नपानविमिश्रितं सहस्रेण हुनेत्मनसः प्रार्थितं लभेतयुतं हुनेच्छ्रीसुमना भवेत्लक्षं हुनेद्ग्रामशतं लभेत् ॥ओं नमो नमः ।इमं मन्त्रं शतं जपेत्सर्वकामप्रदोऽयं मन्त्रः ॥ओं द्रीं श्रीं सारसे सिद्धिकरि क्रीं नमः स्वाहा ।इमं मन्त्रं लक्षं एकं जपेद्रक्तकरवीरैश्च पूजयेत्सततं सर्वकामदोऽयं मन्त्रः ॥ओं द्रुं क्षें क्षें हुं क्षः अमुकं क्षः स्वाहा ।अनेन मन्त्रेण राजिकालवणतुषकण्टकशिवनिर्माल्यं तैलेन युतं हुनेत्समस्तश्रीभाजनं भवति ॥ओं हुं हुं हुं लूं लं ल्ॐ हुं लः अमुकं छः छः स्वाहा ।अनेन मन्त्रेण सिद्धार्थं भस्मना सह मन्त्रितं कर्तव्यं यस्य गृहे प्रक्षिप्य मन्त्रबलिपांश्वैराक्षिपेत्तस्य बाहुस्तम्भो भवति ।रिपुसैन्याग्रे क्षिपेत्शत्रुसैन्यस्तम्भो भवति अश्वगजनरा निश्चेष्टा भवन्ति विकला भवन्ति समन्तादेवाकुला भवन्ति ॥ओं रुं रुं मुखे स्वाहा ।अनेन मन्त्रेण जप्ततैलेन मुखं प्रक्षाल्य तिलतैलेन गात्राभ्यङ्गं वा विधाय वातादिकं दिनसप्तकेन नश्यति ।ऐं मातंगि विमलावति विकराले द्रीं छः छः स्वाहा ।अनेन मन्त्रेण जपापुष्पं परिजप्य वारीणि नद्यादौ होमयेत्सप्ताहेन ईप्सितं फलं लभेत् ।कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रभृत् ।तन्नामकीर्तनादेव हृतं नष्टं च लभ्यते ॥नित्यं नित्यं जपेत्किंचिद्विद्यां वित्तस्य प्राप्तये ।ओं मं किणि स्वाहा ।इति वृश्चिकमन्त्रः ।ओं हुं हुं हंसः हंसं सोऽहं सोऽहं स्वाहा ।इति सर्वविषापहरणमन्त्रः ।मयूरपिच्छेन कुशेन शरेण शरदण्डेन वा तद्देहे सम्मार्जनं कुर्यात् ।हं हां हिं हीं हुं हूं हें हैं हों ह्ॐ हं हः छः छः स्वाहा ।इमं गोक्षीरसदृशं वारं वारं विचिन्तयेद्वा वराननमुखे शिरसि शरीरे ततः कण्ठे ततो हृदि नाभिमण्डले गुह्ये तथा सर्वाङ्गे चिन्तयेत्तथा पूरकेण वरारोहे कण्ठदष्टोऽपि जीवति ।ओं गं गणपतये महागणपतये विघ्नहराय मतंगसम्भवाय लम्बोदराय गौरीप्रियपुत्राय ह्रीं गां नमः रं हं क्षः स्वाहा ।गोरोचनाविषराजिकापिप्पलीनीचयवैर्महातैलेन सह देवदत्तैश्च लक्षितानालिखेत्निम्बकाष्ठेन प्रतिकृतिं हुत्वा पृष्ठतो लिखेत्सद्यो ज्वरविलोपो भवति शान्तिर्भवति ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP