संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|उड्डामरेश्वरतन्त्र| अष्टमः पटलः उड्डामरेश्वरतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः ढशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः उड्डामरेश्वरतन्त्र - अष्टमः पटलः ‘उड्डामरेश्वरतन्त्र ’ हे तंत्रशास्त्रातील अत्यंत दुर्मिल आणि गुप्त तंत्र आहे, साधक याचा उपयोग अतिशय निर्वाणीच्या क्षणी करतात. Tags : shastratantraउड्डामरेश्वरतन्त्रशास्त्रसंस्कृत अष्टमः पटलः Translation - भाषांतर अथान्यत्सम्प्रवक्ष्यामि नारीणां गर्भधारणं ।पद्मबीजं गव्यपयसा सह या नरी पिबति सा गर्भवती भवति सत्यं एव आदित्यवारे निमन्त्रयेत्चन्द्रवारे भक्षयेत् ।पूर्वदिग्भागस्थितं शरीषमूलं गव्यघृतेन सह ऋतुसमये भक्षयेत्सा संवत्सरेण गर्भवती भवति ।अनपत्या च या नरी कपित्थं भक्षयेत्सदा ।अभिमन्त्र्य तु मन्त्रेण सापि पुत्रवती भवेत् ॥एकवृक्षतटे नारी स्नानं कृत्वाभिमन्त्रयेत् ।आदिवन्ध्यापि देवेशि भवेद्गर्भवती हि सा ॥देवः शिवो भवेद्यत्र नदीसङ्गं असंनिधौ ।तस्यां नद्यां दिशि स्वाहा वन्ध्या पुत्रवती भवेत् ॥विधिरत्रोच्यते कपिलागोमयेनाथ भूमिं संलिप्य यत्नतः ।स्नात्वा विधिप्रकारेण मण्डलं कारयेत्ततः ॥चतुरस्रं चतुष्कोणं तन्मध्ये वर्तुलं स्मृतं ।तन्मध्ये विलिखेत्पश्चादष्टपत्त्रं सकर्णिकं ॥मध्ये तु पूजयेद्देवं पत्त्रे शक्तिं प्रपूजयेत् ।निर्व्रणमण्डलस्याग्रे कमलं स्थापयेद्बुधः ॥शिखिपत्त्रनखवर्णेन लिखेत् ।भृङ्गता कुलसप्तपर्वतमृत्तिका स्वमलामृत्तिकावल्मीकमृत्तिकानिम्बमूलमृत्तिका सुवर्णरजतताम्रकांस्यसहस्रमूलसर्वतीर्थानि समुद्राः सरितः सर्वाः सर्वौषधयः सर्वदेवताः सर्वसिद्धयः सर्वयोगिन्यः सर्वे गिरयः सर्वे नागाः पञ्चजात्यानि फलानि पञ्चप्रकाराक्षतानि पञ्च सुवर्णपुष्पाणि स्थिरचित्तेन मन्त्रितकलशे परिकल्पयेत् ।अथ मन्त्रः क्षं क्षीं क्षूं क्षैं क्ष्ॐ क्षः ।अनेन मन्त्रेण या नरी विधानेन निरतवर्जिता अब्रह्मचारिणी देवी वन्ध्या पञ्चपतिवर्जिता ।अपुत्रा लभते पुत्रान्दुर्भगा सुभगा भवेत् ।अनेनैव विधानेन कन्या प्राप्नोति सत्पतिं ॥मन्त्रौषधीप्रयोगाश्च ये चान्ये चूर्णकीर्णकाः ।नवाभिचारिताः कूराः शुद्धदेहा भवन्ति ते ॥ये चान्ये विघ्नकर्तारश्चरन्ति भुवि राक्षसाः ।ते सर्वे प्रलयं यान्ति सत्यं देवि मयोदितं ॥सकृदुच्चरिते मन्त्रे महापुण्यं प्रजायते ।ब्रह्महत्यादयो दोषाः क्षयं यान्ति न संशयः ॥अथ प्रथमोपाय उच्यते नागकेसर माषकं गव्यघृतेन सहर्तुस्नानदिवसे पिबेत् ।तदनन्तरं भर्त्रा सह रात्रौ संयोगं कुर्यात् ।सा अवश्यं एव गर्भवती भवति ।अथ द्वितीयोपायः श्वेतजीरकं माषमात्रकं रात्रौ मृन्मयपात्रे जलेन सह निरावरणस्थाने समग्ररात्रौ स्थापयेत् ।अग्निमदिवसे शिलायां पिष्ट्वा पर्युषितजलेन या स्त्री ऋतुस्नानदिने पीत्वा रात्रौ भर्त्रा सह संयोगं कुर्यादवश्यं सा गर्भवती भवति ।अथ तृतीयोपाय दकाल्वद्मदीपि माषकं गव्यदुग्धेन सह या ऋतुस्नानदिवसे पीत्वा रात्रौ भर्त्रा सह संयोगं कुर्यात्सा अवश्यं एव गर्भवती भवति ।इति तृतीयोपायः ।उओं घण्टाकर्णाय स्वाहा इमं सप्तधा जप्त्वा ग्रामे नगरे वा प्रविशेत्तत्र विशिष्टं भोजनं प्राप्नोति ।अन्यच्च भो अल्ल मे सिद्धा अनेनाष्टोत्तरशतं जपेत् ।शिरीषमूलमृदः क्षेत्रस्य चतुष्कोणेषु मोक्षयेत्तदा शशकमूषकवराहचतुष्पादप्रभृतीनां मुखबन्धनं भवति ।अधुना सम्प्रवक्ष्यामि मन्त्रान्मे फलदायकाः ।ये सिध्यति दशान्यूनं मन्त्रसाधनमुक्तिदाः ॥शत्रुमित्रोदासीनसाध्यसिद्धस्य लक्षणं ।मन्त्राक्षराणि लिखित्वा साधकस्य तस्य यदापि च प्रथमवर्गाक्षरो भवति तदा मित्रं द्वितीयवर्गाक्षरो भवति तदा सिद्धः ।तृतीयवर्गस्य यदा भवति तदा साध्यः चतुर्थवर्गाक्षरो भवति तदोदासीनः पञ्चमवर्गाक्षरो यदा भवति तदा शत्रुर्ज्ञातव्यः ।एतान्भेदान्ज्ञात्वा मन्त्रशोधनं आरभेत्तदा साधकानां सुखावहो भवति अथ कल्पवृक्षषण्डमूलानि यानि प्रक्षालितानि गव्यदधिमिश्रितायां राजिकायां संस्कार्याणि ।ततो नियमपूर्वकं भक्षयेत् ।निर्व्याधियोगेष्वमुं स्वमुखे नियोजयेत् ।विधानं अस्या ब्रवीमीति देवी ।अथ मन्त्रः उओं नमः षण्मुखाय शक्तिहस्ताय मयूरवाहनाय औषधीकेन देहि मे भव स्वाहा ।अनेन मन्त्रेण चतुर्दश्यां शुचिर्भूत्वा मयूरशिखां उत्पाटयेत्तदा महाप्रभावयुक्ता भवति ।गव्यघृतेन सह संगृह्येत तदा इन्द्रियबलो भवति ।पञ्चमलेन स्वर्णकारो भवति ।अन्यच्च श्वेतकरवीरमूलश्वेतगिरिकर्णिकामूलहेवचनाङ्भीकृतजाताञ्जली पञ्चमलसमायुक्ता खाने पाने प्रदातव्या मरणान्तं वशीकरणं ॥अन्यच्च श्वेतगिरिकर्णिकामूलं स्ववीर्येण सह स्वकीयपञ्चमलहरवीर्यश्वेतार्कमूलं एतानि हस्तर्क्षे पुष्यर्क्षे वा एकीकृत्य कुमारिकाहस्ताभ्यां मर्दयित्वा अष्टम्यां चतुर्दश्यां वा गजमदेन सह हस्ते गुटिकां कारयेत् ।यस्यै एकापि दीयते सा वश्या भवति नान्यथा ।शुक्लपक्षेऽपि सर्पाणां दीयते ते सर्पा अपि वश्या भवन्ति श्रीमहाभैरवस्य वचो यथा कुङ्कुमेन सह दीयते तदा वै गजो वशीभवति ।रोचनया कुङ्कुमेन सह यदा तिलकं क्रियते तदा सा स्त्री पृष्ठलग्ना भ्रमति ।गुरुदारेभ्यः तिलको न दर्शयितव्यः ।राजद्वारे तथा न्याये विवाहे युद्धे जयावहे त्रैलोक्यमोहनं एतत् ।त्रिफला माषाः निम्ब माष कदम्ब माष नीप माष तिराइता माष करञ्ज माष भृङ्गराज माष मयूरशिखा माषाः एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ।तदनन्तरं मधुना सह पेषयेत् ।भोजनं च यथाहारं कुरुते नात्र संशयः ।एतच्चूर्णं सुरेभ्योऽपि दुर्लभं ।रात्रिचूर्णं शिरीषवल्कलचूर्णं च गव्यघृतेन सह यस्यै वनितायै ऋतुस्नानदिवसे पानार्थं दीयते सा स्त्री वन्ध्यापि गर्भवती भवति नात्र संशयः ।एतच्चूर्णं कपित्थफलेन सह ऋतुसमये अपुत्रवती भक्षयति सा स्त्री पुत्रं आप्नोति ।एतच्चूर्णं श्वेतकङ्कोलीमूलं लक्ष्मणाचूर्णं च समं कृत्वा कुङ्कुमक्वाथेन सहर्तुसमये सदा भक्षणार्थं दीयते तदा तस्याः शरीरशुद्धिर्भवति ।पश्चादृतुसमयोपरि पञ्च दिनानि भक्षयेत्तदा सा गर्भधारणक्षमा भवति नात्र संशयः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP