संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|उड्डामरेश्वरतन्त्र| प्रथमः पटलः उड्डामरेश्वरतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः ढशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः उड्डामरेश्वरतन्त्र - प्रथमः पटलः ‘उड्डामरेश्वरतन्त्र ’ हे तंत्रशास्त्रातील अत्यंत दुर्मिल आणि गुप्त तंत्र आहे, साधक याचा उपयोग अतिशय निर्वाणीच्या क्षणी करतात. Tags : shastratantraउड्डामरेश्वरतन्त्रशास्त्रसंस्कृत प्रथमः पटलः Translation - भाषांतर उड्डीशेन समाकीर्णा योगिवृन्दसमाकुला ।प्रणम्य शिरसा देवी गौरी पृच्छति शंकरं ॥ईश्वर श्रोतुं इच्छामि लोकनाथ जगत्प्रभो ।प्रसादं कुरु देवेश ब्रूहि धर्मार्थसाधकं ॥वशीकरणं उच्चाटं मोहनं स्तम्भनं तथा ।शान्तिकं पौष्टिकं वाथ करणानि बहूनि च ॥चक्षुर्हानिं महेशान श्रुतिहानिं तथैव च ।ज्ञानहानिं क्रियाहानिं कीलकं च तथापरं ॥कार्यस्तम्भं सुरेशान शोषणं पूरणं तथा ।मन्त्रध्यानं विशेषेण तत्सर्वं वद मे प्रभो ॥अन्यच्च विविधं कार्यं प्रसादाद्ब्रूहि भैरव ।यस्य विज्ञानमात्रेण मनुष्यो भुवि दुर्लभः ॥श्रीरीश्वर उवाच ।शृणु त्वं हि वरारोहे सिद्ध्यर्थं यदि पृच्छसि ।तद्वदिष्यामि ते देवि तत्सर्वं समुदाहृतं ॥औषधैर्मन्त्रजापैश्च रिपुं हन्यान्न संशयः ।उड्डीशात्सारं आकृष्य मयोक्तं तव भक्तितः ॥उड्डीशं च नमस्कृत्य रुद्रं चैव सुदुर्लभं ।कपर्दिनं विरूपाक्षं सर्वभूतभयापहं ॥वक्ष्ये रुद्रोद्भवान्योगान्सर्वशत्रुविनाशकान् ।तैस्तु प्रयोजितैः सः प्राणान्हन्ति न संशयः ॥प्रथमं भूतकरणं द्वितीयोन्मादनं तथा ।तृतीयं द्वेषणं चाथ तुर्यं उच्चाटनं तथा ॥ग्रामोच्चाटं पञ्चमं च जलस्तम्भं च षष्ठकं ।वह्नेः स्तम्भकरं चाथ वशीकरणं उत्तमं ॥अन्यानपि प्रयोगांश्च बहून्शृणु वरानने ।शिवेन कथिता योगा उड्डीशे शास्त्रनिश्चये ॥अन्धीकरणं मूकीकरणं बधिरीकरणं तथा ।भूतज्वरस्य करणं अस्त्रशस्त्रस्य दूषणं ॥जलदोषप्रशमनं दध्नो मधुविनाशनं ।विनाशं मत्तकरणं गजवाजिप्रकोपनं ॥आकर्षणं भुजंगानां मानवानां तथा ध्रुवं ।वह्नेर्विनाशनं कुर्यात्पर्णानां हि विनाशनं ॥गर्दभस्यात्मकरणं परकायप्रवेशनं ।वेतालपादुकासिद्धिं उल्वकाज्ज्वलनं तथा ॥अन्यान्बहुप्रयोगांश्च रौद्रान्रोमप्रहर्षणान् ।विद्यामन्त्रप्रयोगादीनौषधांश्चाभिचारिकान् ॥गुप्तागुप्ततराः कार्या रक्षितव्याः प्रयत्नतः ।उड्डीशं यो न जानाति स रुष्टः किं करिष्यति ॥सुमेरुं चालयेत्स्थानात्सागरैः प्लावयेन्महीं ।सूर्यं च पातयेद्भूमौ नेदं मिथ्या भविष्यति ॥यथैवेन्द्रस्य वज्रं च पाशं हि वरुणस्य च ।यमस्य च यथा दण्डं कुबेरस्य गदा यथा ॥वह्नेः शक्तिर्यथा प्रोक्ता खड्गस्तु निरृतेर्यथा ।यथा वायोश्चाङ्कुशं हि त्रिशूलं शूलपाणिनः ॥स्कन्दस्य च यथा शक्तिर्विष्णोश्चक्रं सुदर्शनं ।तथैते च महायोगाः प्रयुक्ताः शत्रुकारणे ॥अनिवृत्ते निवर्तन्ते अमोघा नात्र संशयः ।संतुष्टेन प्रयुक्तेन सिध्यन्ति सुविचारतः ॥रतानां करणं वक्ष्ये शत्रुसाधनं उत्तमं ।येनैव कृतमात्रेण भूतो गृह्णाति मानवं ॥निम्बकाष्ठं समादाय चतुरङ्गुलमानतः ।शत्रुविष्टासमालिप्तं तथा नाम समालिखेत् ॥चिताङ्गारेण तन्नाम्ना धूपं दद्यान्महेश्वरि ।चितान्तः संस्थितो भूत्वा यस्य गात्रमृदाहरेत् ॥कृष्णाष्टम्यां चतुर्दश्यां अष्टोत्तरशतं जपेत् ।भूतो गृह्णाति तं शीघ्रं मन्त्रेणानेन मन्त्रितः ॥उओं नमो भगवते सर्वभूताधिपतये विरूपाक्षाय नित्यं क्रूराय दंष्ट्रिणे विकरालिने ग्रहयक्षभूतवेतालेन सह शंकर मनुष्यं दह दह पच पच गृह्ण गृह्ण गृह्णापय गृह्णापय हुं फट्स्वाहा ।प्रत्यानयं यदीच्छेत तस्यैषा क्रियते क्रिया ।दापयेद्देवं ईशानं घृतेन वचया सह ॥गुग्गुलं प्रददेद्धूपं घृतमिश्रं समन्ततः ।मन्त्रेण मन्त्रयित्वा तु ततः स्वास्थ्यं भवेत्किल ॥मन्त्रः उओं नमः शिवाय शान्ताय प्रभाय मुक्ताय देवाधिदेवाय शुभ्रबाहवे व्याधिं शमय शमय अमुकः स्वस्थो भवतु नमोऽस्तु ते ।इति स्वास्थ्यमन्त्रः ।अथान्यत्सम्प्रवक्ष्यामि प्रयोगं भुवि दुर्लभं ।येनैव कृतमात्रेण ज्वरो गृह्णाति मानवं ॥निम्बकाष्ठाकृतिं कृत्वा चतुरङ्गुलमानतः ।तस्या हृदि विषोन्मत्तराजिकालवणैस्तथा ॥नाम संलिख्य प्रकृतौ पाच्यमानायां ततः परं ।ततस्तु शत्रुनाम्ना च अष्टोत्तरशतं जपेत् ॥ततः स प्रहरार्धेन ज्वरभूतेन गृह्यते ।अथ जपमन्त्रः उओं बकामुखा चामुण्डा अमुकस्य क्षीरमांसशोणितभोजिनी अमुकं खः खः ज्वरेण गृह्ण गृह्ण गृह्णापय गृह्णापय हुं फट्स्वाहा ।प्रत्यानयं यदीच्छेत तस्यैषा क्रियते क्रिया ॥दुग्धस्नातनामाक्षराणि तदा स्वस्थो भवेदिति ।अथान्यत्सम्प्रवक्ष्यामि प्रयोगं भुवि दुर्लभं ॥येन विज्ञानमात्रेण शत्रोरुच्चाटनं भवेत् ।ब्रह्मदण्डी चिताभस्म गोमयस्य तथैव च ॥क्षारं चापि समादाय काकजङ्गासमन्वितं ।क्षिपेच्छिरसि शत्रूणां तूर्णं उच्चाटयेद्रिपुं ॥ततः संस्नापयेदेनं गोक्षीरेण समन्वितं ।मुण्डनं चाथ केशानां ततः स्वस्थो भवेद्ध्रुवं ॥अथान्यत्सम्प्रवक्ष्यामि शत्रोरुच्चाटनं वरं ।धूपं निर्भेदकं नाम स्वयं रुद्रेण भाषितं ॥ब्रह्मदण्डी समूला च काकजङ्गा समन्विता ।निर्मोकं सर्पराजस्य धूपं उच्चाटयेद्रिपून् ॥सर्पकञ्चुकं आदाय कृष्णोरगशिरस्तथा ।निखनेद्यस्य च द्वारे तं उच्चाटयते हठात् ॥ब्रह्मदण्डी सुरामांसी कच्छपस्य शिरस्तथा ।श्मशानभस्मसंयुक्तं कपाले मानुषे न्यसेत् ॥शत्रोर्द्वारे निखातेन तूर्णं उच्चाटयेद्रिपून् ।सप्तरात्रौ देवेशि समूलं नश्यते गृहं ॥अथ विद्वेषणं वक्ष्ये शत्रूणां शृणु शंकरि ।येनैव कृतमात्रेण विद्वेषो जायते नृणां ॥ब्रह्मदण्डी समूला च काकमांसेन संयुता ।जातीपुष्परसैर्भाव्या सप्तरात्रं पुनः पुनः ॥ततो मार्जारमूत्रेण सप्ताहं भावयेत्ततः ।एष धूपः प्रदातव्यः शत्रुगोत्रस्य मध्यतः ॥यथा गन्धं समाघ्राति पिता पुत्रैः समं कलिः ।विद्वेषणं परं तेषां सुहृद्भिर्बान्धवैः सह ॥स्वस्थीकरणकं प्रोक्तं घृतगुग्गुलधूपतः ।अथ मारणं ।सुरां मानुषमांसं च समादाय विचक्षणः ॥गृध्रास्थि शत्रुविष्ठां च द्वारमध्ये निखातयेत् ।सप्ताहेन भवेन्मारो यथा रुद्रेण भाषितं ॥ब्रह्मदण्डी चिताभस्म सुरामांसीसमायुतं ।अरिष्टस्य च पत्त्राणि विषं रुधिरं एव च ॥मोहाय च प्रयोक्तव्यः शत्रूणां नामयोगतः ।सप्तरात्रप्रयोगेन सर्वशत्रुप्रणाशनं ॥एतेषां दुष्टयोगानां शत्रवे तदुदाहृतं ।शतं अष्टोत्तरेणैव मन्त्रयित्वा विचक्षणः ॥उओं नमो भगवते श्रीउड्डामरेश्वराय अमुकं उच्चाटय उच्चाटय विद्वेषय विद्वेषय स्वाहा ।एकरात्रोषितो भूत्वा कृष्णाष्टम्यां समाहितः ।देवं अभ्यर्च्य चेशानं शतं अष्टाधिकं जपेत् ॥मन्त्रं एतत्प्रयोक्तव्यं सिद्धये सिद्धिकाम्यया ।शत्रुसैन्ये प्रयोक्तव्यं राज्ञश्च विजयार्थिनः ॥लाङ्गूलं गृहगोधायाः कृकलासस्य मस्तकं ।इन्द्रगोपकसंयुक्तं जम्बूकस्य शिरस्तथा ॥एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ।अमुक्ते हि प्रयोक्तव्यं सर्वं जनशतं हरेत् ॥नृकपालं समूत्रं च पेचकस्य शिरस्तथा ।वृश्चिकस्य तु लाङ्गूलं हालाहलकं एव च ॥श्वेतमण्डूकमांसं च मूत्रं चैव गजोष्ट्रयोः ।गृहीत्वा समभागानि सूक्ष्मचूर्णानि कारयेत् ॥एतानि शोषयित्वा तु कल्कं कृत्वा पुनः पुनः ।उओं हीं यमाय शत्रुनाशनाय स्वाहा ।अन्ने पाने प्रदातव्यं रिपुसैन्यविनाशनं ॥स्पृष्टमात्रेण तेनैव विस्फोटास्तु समन्ततः ।तस्य देहे ज्वरस्तीव्रो भवेत्तीव्रा च वेदना ॥म्रियते सप्तरात्रौ प्रत्यानयनवर्जितः ।अथान्यत्सम्प्रवक्ष्यामि यस्य ध्यानेन साधनं ॥कथितं चैव रुद्रेण त्रिदशेभ्यः प्रसादतः ।रुधिरं कृष्णसर्पस्य कुक्कुटस्य तु कस्यचित् ॥कच्छपस्य मयूराणां रोचनं जात्यञ्जनं तथा ।कुङ्कुमं भद्रमुस्तं च तगरं कृष्णं एव च ॥एतानि समभागानि पुष्यार्के च समाहरेत् ।अश्लेषायां तु पिष्टानि कृत्वा पात्रे च राजते ॥दशाहं स्थापयेद्भूम्यां पश्चादुद्धृत्य लेपयेत् ।असिधाराङ्गदा नाम स्वयं रुद्रेण भाषिता ॥अथालिपेत्तु गात्राणि स कृत्वास्थीन्यथापि वा ।फलपुष्पे तथा पत्त्रे धूपसत्तैस्तथैव च ॥अगदोऽयं महामन्त्रो भूतानां च भयावहः ।अन्ने पाने मन्त्रयित्वा प्रयुञ्जीत विधानतः ॥उओं नमो भगवते रुद्राय शान्ताय दिव्ययोगाय दिव्यरूपाय जटिलब्रह्मचारिणे अगदोक्षित्रिदशैव महाबलशतं मनोहं ठः ठः स्वाहा ।पीड्यमानं जपेन्मन्त्रं शुचिर्भूत्वा समाहितः ।अष्टोत्तरसहस्रं तु ततो मन्त्रं इमं जपेत् ॥कन्यया पेषयच्चैव गोष्ठमध्ये प्रयत्नतः ।तदशक्तौ चितायां तु यथाशक्ति पुनः पुनः ॥स्वयं रुद्रेण सम्प्रोक्तं सर्वकार्यप्रसाधकं ।सर्वे चैव प्रयोक्तव्याः सर्वशत्रुविनाशकाः ॥तस्मात्सर्वप्रयत्नेन रक्षितव्याः प्रयोगवान् ।अभुक्ते नैव प्रोक्त यं क्रूरे पापजने तथा ॥दातव्यं भक्तियुक्ताय शास्त्रज्ञायामरेश्वरि ।इति पार्वतीशिवसंवादे वीरभद्रेश्वरतन्त्रोद्धृते उड्डामरेश्वरमहातन्त्रे प्रथमः पटलः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP