संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|उड्डामरेश्वरतन्त्र| षष्ठः पटलः उड्डामरेश्वरतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः ढशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः उड्डामरेश्वरतन्त्र - षष्ठः पटलः ‘उड्डामरेश्वरतन्त्र ’ हे तंत्रशास्त्रातील अत्यंत दुर्मिल आणि गुप्त तंत्र आहे, साधक याचा उपयोग अतिशय निर्वाणीच्या क्षणी करतात. Tags : shastratantraउड्डामरेश्वरतन्त्रशास्त्रसंस्कृत षष्ठः पटलः Translation - भाषांतर कृष्णच्छागरोमकृष्णमार्जाररोमकृष्णकाकरोमाणि कृष्णाष्टम्यां कृष्णचतुर्दश्यां वा शनिभ्ॐअयोर्वारेऽश्लेषानक्षत्रे आर्द्रानक्षत्रे वा समभागानि कृत्वा कूपतडागनदीपयसा पेषयित्वा गुटिकां कृत्वा संग्रामे चोपविशेत् ।रणपांशुना तिलकं कुर्यात् ।अथानन्तरं येऽन्ये पुरुषा दर्शनं कुर्वन्ति ते कम्पयन्ति मूर्छयन्ति उत्पतन्ति पलायन्ते ।ये पिष्ट्वा लेपं कुर्वन्ति तेषां शुचि कापि पतति न मुञ्चति ।एष योगो मया प्रोक्तो देवानां अपि दुर्लभः ।निवेदनीयः कस्यापि न कदाचिदिति ब्रुवे ॥अथातः सम्प्रवक्ष्यामि शरीरज्ञानं उत्तमं ।येन विज्ञानमात्रेण जायते च शुभाशुभं ॥जीवितं मरणं चैव लाभालाभं जयाजयं ।सुखदुःखं भवाभावौ गमनागमनं तथा ॥हिमालयसुता वै हि पृष्टवती वृषध्वजं ।अथ पृथिव्यप्तेजोवाय्वाकाशानि तत्त्वानि तत्र गुरोर्बृहत्प्रसादेन शास्त्राणि च येन योगेनातीतेन त्रैलोक्यं सचराचरं जातं एव ।येषां समयोगानि स्थूलसूक्ष्माणि कथ्यन्ते ।स च सम्प्रेत्य चेष्टायां लक्ष्यते तस्याः किं नाम तस्य च का जिज्ञासा यथापदुच्यते चाहुस्ततः पञ्चतत्त्वानि पठ्यन्ते ।सम्प्रति दूतो यदागत्य वदति तस्य वागुदेति पञ्चतत्त्वाक्षराणि ज्ञात्वा यस्य तत्त्वाक्षरस्य वक्त्रे तत्त्वाक्षराणि भवन्ति प्रश्नचिन्तायां स तत्त्वं जपति ।यदि प्रश्नचिन्तायां पृथिवीतत्त्वाक्षराणि भवन्ति तदा पृथ्वीतत्त्वं भवति ।यद्येषां अधिका भवन्ति तदा पानीयतत्त्वानि भवन्ति तत्त्वाक्षराणीत्यर्थः ।ऽइईउऊऋॠळ्í एतानि पृथ्वीतत्त्वाक्षराणि ।एऐओऔअंअः एतानि जलतत्त्वाक्षराणि ।कखगघङचछजझञ एतानि तेजस्तत्त्वाक्षराणि ।टठडढणतथदधनपफबभम एतानि वायुतत्त्वाक्षराणि ।यरलवशषसह तान्याकाशतत्त्वाक्षराणि ।एतानि वर्धितवाक्येनाधिकाक्षराणि भवन्ति ।विविधप्रकारचिन्ताः समविषमाक्षराणि पृथ्वीतत्त्वानि ज्ञातव्यानीति ।जीवितमरणलाभालाभजयपराजयसुखदुःखगमनागमनानि च यानि समानि विषमाणि अप्तत्त्वानि निर्वाचितव्यानि ।यदा चित्तं भवति कृतस्य वाक्यविषये पृथिवीविषये तदा सलिलतत्त्वाक्षराणि भवन्ति तदा स जप्तं जपति ।अप्चिन्तायां यदा पृथिवीतत्त्वाक्षराणि भवन्ति तदा पृथ्वीतत्त्वं भवति ।एवं अन्येष्वपि बोद्धव्यं ।अक्षराणि येन कथयति ।लाभचिन्तायां तेजाकाशाक्षराणि अधिकानि भवन्ति तदा तेऽशुभोऽधिकतरो भविता ।यदा देशात्तत्त्वाद्वा गमनादिकं तेजसः ग्रामचलिते संग्रामगमने अहेतु अके डके तैजसाक्षराण्यधिकानि भवन्ति ।पृथिव्यप्तेजोवाय्वाकाशा एतेषां अक्षराणि विवाहकाले एतेषु तेजोऽक्षराणि शुभहारकाणि भवन्ति ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP