संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|उड्डामरेश्वरतन्त्र| ढशमः पटलः उड्डामरेश्वरतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः ढशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः उड्डामरेश्वरतन्त्र - ढशमः पटलः ‘उड्डामरेश्वरतन्त्र ’ हे तंत्रशास्त्रातील अत्यंत दुर्मिल आणि गुप्त तंत्र आहे, साधक याचा उपयोग अतिशय निर्वाणीच्या क्षणी करतात. Tags : shastratantraउड्डामरेश्वरतन्त्रशास्त्रसंस्कृत ढशमः पटलः Translation - भाषांतर तत्र चेटकसाधनं ।अथ चेटका लिख्यन्ते ।कामातुरेण चित्तेन निशि मन्त्रं जपेत्सदा ।जप्तोऽवश्यं वश्यकरो मन्त्रोऽयं नात्र संशयः ॥ओं ऐं स्कीं क्लीं क्लीं सहवल्लरि क्लीं कामपिशाच क्लीं ह्रीं कामपिशाच अमुकीं कामिनीं कामयाम्यहं तां कामेन ग्राहय स्वप्ने मम रूपे नखैर्विदारय द्रावय अस्त्रेण बन्धय श्रीं फट्स्वाहा ।जपेन्मासत्रयं मन्त्रं कम्बलः सुप्रसन्नधीः ।मृतकोत्थापनं कुर्यात्प्रतिमां चालयेत्तथा ॥सदारक्तकम्बल महादेवदूत मृतकं उत्थापय प्रतिमां चालय पर्वतान्कम्पय लीलया विलसय ईं ईं फट्स्वाहा ।चतुर्लक्षं जपेन्मन्त्रं सागरस्य तटे शुचिः ।पत्त्रपुष्पफलादीनि करोत्याकर्षणं ध्रुवं ॥अभय घुद्घुताकर्ष कर्मकर्ता सृष्टिपुत्र अमुकं आकर्षय द्रीं ।सहस्राष्टं इमं मन्त्रं जपेत्सप्तदिनावधि ।प्रत्यहं मणिभद्राख्यः प्रयच्छत्येकरूप्यकं ॥ओं नमो मणिभद्राय नमः पूर्णभद्राय नमो महायक्षाय सेनाधिपतये मौद्धमौद्धधराय सुघटमुद्रावहे स्वाहा ।त्रिसंध्यं बलिदानं च निशायां प्रजपेन्मनुं ।सहस्रं हि जपेन्नित्यं यावत्स्वप्नं प्रजायते ॥प्राणिनां मृत्युसमयं वदत्येव न संशयः ।ओं नमो भगवते रुद्राय देहि मे वचनसिद्धिविधानं पार्वतीपते ह्रां ह्रीं हूं ह्रें ह्र्ॐ ह्रः ।रात्रौ रात्रौ जपेन्मन्त्रं सागरस्य तटे शुचिः ।लक्षजापे कृते सिद्धो दत्ते सागरचेटकः ॥रत्नत्रयं तदा मौन्यं यस्मिन्मन्त्री सुखी भवेत् ।सहस्रदशकं नित्यं रात्रौ मन्त्रं जपेत्सुधीः ॥तद्दशांशं मधुपयोमिश्रैः पद्मैश्च होमयेत् ।ओं नमो भगवते रुद्र देहि मे निजराशिं श्रीं नमोऽस्तु ते स्वाहा ।ओं ह्रीं अमुकं रञ्जय स्वाहा ।अनेन मन्त्रेण सर्वजनास्तस्मात्तु रञ्जका भवन्ति निशाचरं ध्यात्वा आत्मपाणिना जपनाददृश्यकारिणीं विद्यां आप्नोति ॥ओं नमो रसाचारिणे महेश्वराय मम पर्यटने सर्वलोकलोचनानि बन्धय देव्याज्ञापयति स्वाहा ।सकृदुच्चारमात्रेण नृसिंहचेटकाख्यो मन्त्रो डाकिन्यादिदोषं नाशयति ।ओं नमो भगवते हिरण्यकशिपुबलविदारणाय त्रिभुवनव्यापकाय भूतप्रेतपिशाचकूष्माण्डब्रह्मराक्षसयोगिनीडाकिनीकुलोन्मूलनाय स्तम्भोद्भवाय समस्तदोषान्नाशय विसर कम्पय मथ हूं हृं स्वाहा एह्येहि रुद्र आज्ञापयति स्वाहा ।प्रेरकः सहस्रपादः अनिद्रां आकर्षयति ।ओं प्रेरक अमुकीं तव मण्डलं समावर्तय द्रावय दाहय संतापय ह्ॐ ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP