संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|उड्डामरेश्वरतन्त्र| द्वितीयः पटलः उड्डामरेश्वरतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः ढशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः उड्डामरेश्वरतन्त्र - द्वितीयः पटलः ‘उड्डामरेश्वरतन्त्र ’ हे तंत्रशास्त्रातील अत्यंत दुर्मिल आणि गुप्त तंत्र आहे, साधक याचा उपयोग अतिशय निर्वाणीच्या क्षणी करतात. Tags : shastratantraउड्डामरेश्वरतन्त्रशास्त्रसंस्कृत द्वितीयः पटलः Translation - भाषांतर अथान्यत्सम्प्रवक्ष्यामि जलस्तम्भनं उत्तमं ।कुम्भीरवेल्वदंष्ट्रानि रुधिरं मांसं एव च ॥हृदयं कच्छपस्यैव शिशुमारं पुनः पुनः ।विभीतकस्य तैलेन सर्वानेकत्र कारयेत् ॥न्यासकर्म ततः कृत्वा जले तिष्ठेद्यथासुखं ।मद्रकस्य रसं ग्राह्यं लक्षणस्य मकरस्य च ॥डुण्डुभस्य शिरो ग्राह्यं सर्वानेकत्र कारयेत् ।विभीतकस्य तैले तु पच्यमाने च दापयेत् ॥न्यासकर्म प्रकुर्वीत सप्ताहं तिष्ठते जले ।तत्तैलं पाचयेत्लौहे कृष्णाष्टम्यां समाहितः ॥चतुर्मासोषितो भूत्वा देवं अभ्यर्च्य शंकरं ।अभिमन्त्र्य च मन्त्रेण मृत्तिकास्नानदक्षिणं ॥अष्टाधिकसहस्रं तु जपित्वा होमं आचरेत् ।अनेन मन्त्रयित्वा तु ततः सिध्यति नान्यथा ॥उओं नमो भगवते उड्डामरेश्वराय जलं स्तम्भय स्तम्भय हुं फट्स्वाहा ।वक्ष्येऽथ लूताकरणं तं शृणुष्व समासतः ।भल्लातकरसं गुञ्जा विषं चित्रकं एव च ॥कपिकच्छपरोमाणि चूर्णां कृत्वा प्रदापयेत् ।एतत्सर्वसमायुक्तो लूताकरणं उत्तमं ॥तस्य रूपं प्रवक्ष्यामि जायते यस्तु लक्षणैः ।अङ्गानि धूमं आयान्ति मूर्छयन्ति मुहुर्मुहुः ॥एतद्रूपं भवेत्तस्य लूताविकृतलक्षणं ।चिकित्सां तस्य वक्ष्यामि येन सम्पद्यते सुखं ॥उशीरं चन्दनं चैव प्रियङ्गुतगरं तथा ।रक्तचन्दनकुष्ठं च लेपो लूताविनाशनः ॥उओं नमो भगवते उड्डामरेश्वराय कुहलीकुर्वनी स्वाहा ।मन्त्राभिमन्त्रितं कृत्वा ततः स्वस्थो भविष्यति ।कृष्णसर्पशिरो ग्राह्यं मुखे निःक्षिप्य सर्षपान् ॥भल्लातकेन संयुक्तं कृष्णसूत्रेण वेष्टयेत् ।वल्मीकस्य मृदः कोशे अन्तर्धूमेन पाचयेत् ॥कपिकच्छपरोमाणि संयुक्तं षोडशांशकैः ।विषस्य चूर्णं कृत्वा तु शत्रूणां मूर्ध्नि निःक्षिपेत् ॥शरद्ग्रीष्मवसन्तेषु लूताकरणं उत्तमं ।प्रस्विन्ने च ततो गात्रे लग्नास्तस्मिंस्तु सर्षपाः ॥लूतां च सविषां कुर्यान्नात्र कार्या विचारणा ।वेदनाजातमात्रेण मन्त्रजापं तु पूर्ववत् ॥पूर्वो विधानेन स्वस्थो भवति पूर्ववत् ।अथ शस्यविनाशं च कथयामि समासतः ॥येनैव कृतमात्रेण वज्रं कृत्वा विचक्षणः ।क्षेत्रे सम्पातयेद्यस्मिंस्तस्मिञ्शस्यविनाशनं ॥माहेन्द्रेण क्षिपेत्तत्र प्रयोगेण तु मन्त्रवित् ।अथ मन्त्रं पुनर्वक्ष्ये प्रयोगेषु प्रयोजकं ॥अष्टोत्तरशतेनैव मन्त्रेणानेन मन्त्रयेत् ।उओं नमो भगवते उड्डामरेश्वराय वज्रं विनाशय वज्रं सुरपतिराज्ञापय हुं फट्स्वाहा ।इमं योगं प्रयुञ्जानो विधिपूर्वेण कर्मणा ।पर्णानां चैव योगेन क्षिपेत्पर्णं विनश्यति ॥पुनरुच्चाटनं वक्ष्ये शृणु पुत्र यथातथा ।येनैव कृतमात्रेण ग्रामस्योच्चाटनं भवेत् ॥ग्रामे चतुर्णां च पथां मृदं आदाय बुद्धिमान् ।गोमयेनाकृतिं कृत्वा ग्रामस्य च चतुर्दिशः ॥चिताकाष्ठानलं कृत्वा कोकिलाकाकपक्षकैः ।हुत्वा चाहुतिसाहस्रं ततो भस्म समाहरेत् ॥अभेदेन समुत्सार्य कृत्वा मुष्टिं सभस्मकं ।शतवाराभिजप्तेन अनेनैव तु मन्त्रितः ॥उओं नमो भगवते महाकालरुद्राय त्रिपुरविनाशनकारणाय दह दह धम धम पच पच मथ मथ मोहय मोहय उन्मादय उन्मादय उच्छेदय उच्छेदय श्रीमहारुद्र आज्ञापयति शब्दकरी मोहिनी भगवती खें खें हुं फट्स्वाहा ।ग्रामे वा नगरे वापि भस्मप्रक्षेपणेन च ।उच्छेदनं भवत्येव रिपूणां नात्र संशयः ॥दूरीकृतं पुनर्भस्म नगरे वसते पुनः ।कुल्वीकारं प्रवक्ष्यामि शृणु योगं समासतः ॥येन योजितमात्रेण पुनः कुल्वो भविष्यति ।पादपांशुसमायुक्तैरन्तरा घृतगोमयैः ॥वृषभस्य पुनः शत्रोः कृत्वा चैवाकृतिं बुधः ।एकविंशतिवारं हि मन्त्रेणानेन मन्त्रितां ॥छेदयेत्तीव्रशस्त्रेण ततः कुल्वो भविष्यति ।उओं नमो भगवते उड्डामरेश्वराय कामप्रभञ्जनाय अमुकं च्छः च्छः स्वाहा ।प्रस्थितानां च करणे मन्त्रेणानेन मन्त्रवित् ॥कृत्वा मधु घृताक्तं च स्थाने ह्यत्र प्रयोजयेत् ।स्नात्वा च गव्यदुग्धेन ततः स्वस्थो भविष्यति ॥अथ उन्मत्तीकरणं ।मूलं कनकबीजस्य घृतचूर्णं समन्ततः ।गृहचटकस्य विष्टा च तथा करञ्जबीजकं ॥एतदुन्मत्तकरं चूर्णं भक्षणात्तत्करं व्रजेत् ।एकविंशतिवारं च मन्त्रेणानेन मन्त्रितं ॥खाने पाने प्रदातव्यं उन्मत्तः स्यान्न संशयः ।उओं नमो भगवते उड्डामरेश्वराय अमुकं उन्मादय उन्मादय च्छः च्छः स्वाहा ।अजक्षीरेण शोणितेन पिबेत्तु शतपुष्पिकां ॥घृतेन सह वा पीत्वा ततः सम्पद्यते सुखं ।इत्युन्मत्तीकरणं ।एकविंशतिवारं हि मन्त्रितं लवणं खरं ॥करवीरककाष्ठाग्नौ मन्त्रैर्धूमेन पाचयेत् ।लवणं तन्तु संगृह्य चूर्णं कृत्वा विचक्षणः ॥खाने पाने प्रदातव्यं मन्त्रेणानेन मन्त्रितं ।मन्त्रितं शतवारं च शत्रोर्वा यस्य कस्यचित् ॥भक्षणाच्च भवेदन्धो नात्र कार्या विचारणा ।उओं नम उड्डामरेश्वराय शरीरं अन्धं कुरु ठः ठः स्वाहा ।अथान्यत्सम्प्रवक्ष्यामि कुष्ठीकरणं उत्तमं ॥येन सम्पीतमात्रेण कुष्ठी भवति मानवः ।भल्लातकरसं गुञ्जा तथा मण्डलकारिका ॥गृहगोधासमायुक्ता भक्षे पाने प्रदापयेत् ।सप्ताहाज्जायते कुष्ठं तत्पीतं च समेधितं ॥एतस्य शमनं कुर्याद्यथा रुद्रेण भाषितं ।धत्रीखदिरनिम्बानि शर्करासहितानि च ॥विचूर्ण्य मधुसर्पिर्भ्यां जीर्णानि दापयेद्भिषक् ।शालिभक्तं पटोलं च घृतयुक्तं तु पायसं ॥सोष्णं वा मुद्गचूर्णं तु शालियुक्तं अथापि वा ।एतेन दत्तमात्रेण नरः सम्पद्यते सुखं ॥जलजीवं तु संगृह्य शोषयेदातपे नरः ।तस्य संदापयेद्धीमान्यस्य इच्छेत्तु जीवितं ॥अङ्गदाहेन तीव्रेण धमेत्तं नष्टचेतसं ।यदीच्छेज्जीवितं तस्य अङ्गं प्रक्षालयेद्ध्रुवं ॥पदमूलस्य चूर्णं तु क्षालयेत्काञ्जिकेन तु ।तैलेनोद्वर्तयेल्लिङ्गं क्षालयेत्शीतवारिणा ॥अनेन क्रियमाणेन नरः सम्पद्यते सुखं ।अथान्यत्सम्प्रवक्ष्यामि वश्यादिकरणं परं ॥येन विज्ञानमात्रेण लोको भवति किंकरः ।पुराणिकस्य हृदयं तथा कुष्ठेन भावितं ॥शिवनिर्माल्यं संचूर्णं यस्य मूर्ध्नि विनिक्षिपेत् ।नियतं किंकरो भूत्वा यावज्जीवं स तिष्ठति ॥सप्तवारं मन्त्रयित्वा मन्त्रेणानेन मन्त्रवित् ।उओं नमो भगवते उड्डामरेश्वराय स्वाधिकारं साधय साधय स्वाहा ।चन्दनं तगरं कुष्ठं प्रियङ्गुनागकेसरं ॥कृष्णधत्तूरपञ्चाङ्गं समभागं तु कारयेत् ।छायायां वटिका कार्या प्रदेया खानपानतः ॥पुरुषं चाथ वा नरीं यावज्जीवं वशं नयेत् ।सप्ताहं मन्त्रितं कृत्वा मन्त्रेणानेन मन्त्रवित् ॥उओं नमो भगवते मोहमालिने ठः ठः स्वाहा ।शङ्खपुष्पी ह्यधःपुष्पी तथा संकोचपुष्पिका ।श्वेता च गिरिकर्णी च समं सप्ताहभाविताः ॥स्वशुक्रेण समायुक्ता खाने पाने प्रदापयेत् ।तं वशीकरणं प्रोक्तं यावज्जीवं न संशयः ॥वज्रं वाथाभया लोध्रं मञ्जिष्ठा हिङ्गुपत्त्रिका ।दिव्यं वचा विशालाक्षा कम्बुग्रीवा सुशोभना ॥कुमारीत्वचाङ्गलेपेन सप्तहस्तप्रमाणतः ।ददाति दशमीना च मन्त्रः कश्चित्प्रगृह्यते ॥विषसुप्तपतित्वेन नात्र कार्या विचारणा ।जलमध्ये सहा चौरं कुरुते वर्तिको मम ॥दधि मधु नवनीतं पिप्पली शृङ्गवेरं मरिचं अपि तु दद्यात्सप्तमं सैन्धवेन ।यदि भवति सरोषं तक्षकेणापि दष्टं गदं इह खलु पीत्वा निर्विषं तत्क्षणं स्यात् ॥कुष्ठामृता चातिविषा हरिद्राया विलेपनं ।गरुडोक्तं विषहरं औषधं प्राणिजीवनं ॥उलूकस्य जम्बुकस्य गृध्रस्य महिषस्य च ।बिडालस्य वराहस्य काकभेकस्य च त्वचः ॥मूषकस्य तु नेत्रं च सूक्ष्मचूर्णानि कारयेत् ।अनेनाञ्जितनेत्रो हि रात्रौ पश्येद्यथा दिवा ॥एतेषां योगमन्त्रोऽयं मनुहीनो न सिध्यति ।उओं नमो भगवते रुद्राय शिवाय ज्योतिषां पतये देहि ज्योतींषि मतिवीर्यकरणाय स्वाहा ।एकरात्रोषितो भूत्वा कृष्णाष्टम्यां समाहितः ॥लिङ्गसम्पूजनं कृत्वा जलं चैवाभिमन्त्रयेत् ।दक्षिणस्यां दिशि स्थित्वा शतं अष्टोत्तरं जपेत् ॥ततः सिध्यन्ति मन्त्राणि चाञ्जनानि समन्ततः ।उओं नमो भगवते उड्डामरेश्वराय अञ्जनमन्त्रसिद्धिं देहि मे स्वाहा इत्यञ्जनाधिकारः ।अथ पिशाचीकरणं ।कनकस्य च बीजानि प्रियङ्गु गुग्गुलस्तथा ॥आत्मानं धूपयित्वा तु योजयेद्राजसंसदि ।योगं इमं समाघ्राति स वश्यो जायते भृशं ॥कनकस्य तु बीजानि श्वेतार्कचन्द्रकेसरं ।कुष्ठं च देवदारुं च सर्वं एकीकृतं तथा ॥पिष्ट्वा तेन लिप्तगात्रो योगशक्त्या बलिष्ठया ।यत्र यत्र प्रविष्टस्तु तत्र तत्र जयी भवेत् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP