संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|उड्डामरेश्वरतन्त्र| पञ्चमः पटलः उड्डामरेश्वरतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः ढशमः पटलः एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः उड्डामरेश्वरतन्त्र - पञ्चमः पटलः ‘उड्डामरेश्वरतन्त्र ’ हे तंत्रशास्त्रातील अत्यंत दुर्मिल आणि गुप्त तंत्र आहे, साधक याचा उपयोग अतिशय निर्वाणीच्या क्षणी करतात. Tags : shastratantraउड्डामरेश्वरतन्त्रशास्त्रसंस्कृत पञ्चमः पटलः Translation - भाषांतर शृणु पुत्र प्रवक्ष्यामि यथा त्रैलोक्यमोहनं ।परपुरुषा वशं यान्ति यथावत्कथयामि ते ॥एला कुष्ठं च लोध्रं च वचा च रक्तचन्दनं ।श्मशानभस्मसंयुक्तं प्रयोगं मारणान्तकं ॥मारणं संकोचकरणं ।कुलत्थं बिल्वपत्त्रं च रोचना च मनःशिला ।एतानि समभागानि स्थापयेत्ताम्रभाजने ॥सप्तरात्रे स्थिते पात्रे तैलं एभिः पचेद्बुधः ।तैलेन भगं आलिप्य भर्तारं उपगच्छति ॥सम्प्राप्य मैथुनं भर्ता दासो भवति नान्यथा ।नागरैः मधुसंयुक्तैर्गुटिकां कारयेद्बुधः ॥अश्वमूत्रेण संयुज्य पुरुषाणां वशंकरं ।कुङ्कुमं शतपुष्पं च प्रियङ्गु रोचनं ततः ॥अजाक्षीरेण दातव्यं या भार्या दुर्भगा भवेत् ।ततः सा सुभगा नित्यं पतिदासत्वं आप्नुयात् ॥मातुलुङ्गस्य बीजानि पङ्कजस्य फलानि च ।समुद्रजं रक्तचूर्णं मधुना सह लेपयेत् ॥तैलयोजितमात्रेण पतिर्दासो भवेद्ध्रुवं ।अधुना सम्प्रवक्ष्यामि योगानां सारं उत्तमं ॥येन विज्ञातमात्रेण नरी भवति किंकरी ।उशीरं चन्दनं चैव मधुना सह संयुतं ॥गजहस्तप्रयोगोऽयं सर्वनरीप्रयोजकः ।केवलं शशिना युक्तं कुङ्कुमं लेपयेद्भगे ॥निजवज्जायते साङ्गं जायते योनिसंचयं ।लवंगं सैन्धवं क्षौद्रं पिप्पली मरिचानि च ॥नरस्य लेपयेद्गात्रं स भवेद्गजहस्तवत् ।वरटावेश्मसम्बानं शीततोयेन पेषयेत् ॥तेनैव लिप्तमात्रेण भगे रन्ध्रो न जायते ।तत्र प्रक्षालितेनाथ प्रसवत्वं भविष्यति ॥यः स्वरेतः समादाय रत्यन्ते सव्यपाणिना ।वामपादं स्त्रियो लिम्पेत्सा तस्य वशगा भवेत् ॥या भोगशेषे कान्तस्य लिङ्गं वामाङ्घ्रिणा स्पृशेत् ।यावदायुर्भवेद्दासः स तस्या नात्र संशयः ॥कपोतविष्ठा सिन्धूत्थमधुकैः समभागिकैः ।लिप्त्वा लिङ्गं भजेद्यां तु सा वश्या स्याद्वराङ्गना ॥घनसारं सतल्लव्यं मेढ्रं च मधुना सह ।पिष्ट्वा लिप्त्वा रजो यां च भजेत्सा वश्यगा भवेत् ॥रोचना कनकं शम्भुबीजं कर्पूरचन्दनं ।एभिर्विलिप्तलिङ्गो यां भजते सा वशा भवेत् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP