संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|ब्रह्मकाण्डः (मोक्षकाण्डः)| अध्यायः २७ ब्रह्मकाण्डः (मोक्षकाण्डः) अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ ब्रह्मकाण्डः - अध्यायः २७ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः २७ Translation - भाषांतर श्रीकृष्ण उवाच ।सा गता स्नातुकामाथ नन्दां पापनिवारिणीम् ।पप्रच्छ तं गुरुं विप्रं विनयावनता सुधीः ॥१॥किन्नामेयं नदी विप्र किं कार्यं चात्र मे वद ।जैगीषव्यस्त्वेवमुक्तो वाक्यमेतदुवाच ह ॥२॥जैगीषव्य उवाच ।शृणु भद्रे प्रवक्ष्यामि माहात्म्यं पापनाशनम् ।इयं नदी महाभागे सदा पापविनाशिनी ॥३॥ब्रह्महत्यादिपापौघो यत्र स्नानेन नश्यति ।प्रत्यक्षं दृश्यते ह्यत्र स्नानं कर्तुं समुद्यतैः ॥४॥जलं चाशुभ्ररूपेण पापैश्च परिदृश्यते ।यावच्छुभ्रोदकं देवि तावत्सनानं च कारयेत् ॥५॥यावच्छुभ्रोदकं नैव तावत्पापं न नश्यति ।शुद्धोदके समायाते पापं नष्टमिति ध्रुवम् ॥६॥कलावित्थं विशालाक्षि महिमा दृश्यते भुवि ।अत्र स्नानं प्रकर्तव्यं दातव्यं दान मुत्तमम् ।ततश्च ज्ञानमासाद्य विविष्णुलोकं स गच्छति ॥७॥गुरुस्त्रीगमनाच्चन्द्र अहल्यायां गतो हरिः ।सुरापानाच्च शुक्रस्तु सुवर्णहरणाद्बलिः ॥८॥ब्रह्महत्यायाश्च रुद्रो नागो दत्तापहारकः ।सूतस्य हननाद्रामो निर्मुक्तो ह्यत्र भामिनि ॥९॥नानेन सदृशं तीर्थं न भूतं न भविष्यति ।स्नानं कुरु महाभागे तेन सिद्धिं ह्यवाप्स्यसि ॥१०॥जैगीषव्येण मुनिना पित्रा सह च कन्यका ।स्नानं चकार विधिवदुदतिष्ठच्च भामिनि ॥११॥यावच्च पौरुषं सूक्तं तावत्कालं हि तिष्ठति ।पश्चाज्जप्त्वा महामन्त्रं वेङ्कटेशाभिधं परम् ॥१२॥द्विजातीन्प्रीणयित्वा सा वस्त्रद्रव्यादिभूषणैः ।तस्माच्च प्रययौ देवी कमारीतीर्थमुत्तमम् ॥१३॥कुमारीमहिमानं च श्रुत्वा स्नानं चकार सा ।पुनरावृत्य सा देवी ह्यन्तरा विरजानदीम् ॥१४॥दृष्ट्वा पप्रच्छ सा देवी जैगीषव्यं गुरुं प्रभुम् ।किं संज्ञिकेयं विप्रेन्द्र किं कार्यं ह्यत्र मे वद ॥१५॥जैगीषव्यः पृष्ट एव मुवाच करुणानिधिः ।इयं भागीरथी कन्ये आयाति ह्यन्तरेण तु ॥१६॥अतः सा प्रोच्यते ह्यन्तर्गङ्गेति परमर्षिभिः ।कन्ये त्वस्यास्तु सलिलं श्रीनिनिवासप्रियं सदा ॥१७॥अत्र स्नानं यः करोति स याति परमां गतिम् ।स्नानं चकार सा कन्या जले परमपावने ॥१८॥दानादिकं तथा ज्ञात्वा जजाप परमं मनुम् ।श्रीनिवाससमीपं तु पुनरागत्य भामिनी ॥१९॥अङ्गप्रदक्षिणं चक्रे भक्त्या वेङ्कटनायकम् ।ब्राह्मणादीन्प्रीणयित्वा वस्त्रगन्धादिभूषणैः ॥२०॥पुनः परदिने प्रातः स्वामिपुष्करिणीजले ।स्नानं कृत्वा महाभागा ययौ तुंबुरुसंज्ञिकाम् ॥२१॥पप्रच्छ तं गुरुं देवी नाथं किन्नामिका त्वयम् ।जैगीषव्य उवाच ।इयं तुंबरुकाभिज्ञा नारी वै वरवर्णिनी ॥२२॥पुरा तुं बुरुणा साकं नारदस्तपसि स्थितः ।अत्र प्रादुरभूद्विष्णुर्नारदस्य हिताय च ॥२३॥स्नानं यः कुरुते ह्यत्र स याति परमां गतिम् ।अत्र स्नानं मनुष्याणां सर्वेषां दुर्लभं कलौ ॥२४॥अत्र स्नानं मनुष्याणां नाल्पस्य तपसः फलम् ।तत्र स्नात्वा च पीत्वा च दत्त्वा दानान्यकेशः ॥२५॥पुनरागत्य सा देवी श्रीनिवासं ननाम ह ।तस्मिमन्दिने ब्राह्मणांश्च तर्पयामास भमिनि ॥२६॥स्वामिपुष्करिणीं प्राप्य दीपान्प्राज्वालयत्सती ।सोपानेषु महाभागा दीपावलिभिरञ्जसा ।प्रीणयामास देवेशं श्रीनिवासं जगद्गुरुम् ॥२७॥पुनः परदिने प्राप्ते शक्रतीर्थमनुत्तमम् ।कपिलाख्योर्ध्वदेशे तु तत्तीर्थं पावनं स्मृतम् ॥२८॥तत्र स्नात्वा महाभागा तदूर्ध्वं स्नापयेत्स्वयम् ।विष्वसेनसरस्तत्र सर्वपापविनाशनम् ॥२९॥तत ऊर्ध्वं महाभागा ययौ तत्र ददर्श सा ।पञ्चायुधानां तीर्थानि तेषु स्नानं चकार सा ॥३०॥तदूर्ध्वं चाग्निकुण्डं स्याद्दुरारोहं ततोग्रतः ।तस्योपरि ब्रह्मतीर्थं ब्रह्महत्याविमोचनम् ॥३१॥सप्तर्षीणां तदूर्ध्वं तु पुण्यतीर्थं च सत्फलम् ।दशाधिकफलं तेषा तीर्थानामुत्तरोत्तरम् ॥३२॥एतेषां चैव माहात्म्यं को वा वक्तुमिहार्हति ।ऋषितीर्थेषु सा कन्या चचार तप उत्तमम् ॥३३॥ममावतारपर्यन्तं चरित्वा तप उत्तमम् ।योगधारण या देहं त्यक्त्वा जांबवतो गृहे ॥३४॥जाता जांबवती नाम ववृधे तस्य वेश्मनि ।तस्याः पिता जांबवान्स समादात्कन्यकां तदा ।रुक्म्या अनं तरा सैषा मम भार्या खगेश्वर ॥३५॥इदं हि परमाख्यानं वेङ्कटाद्रेर्महागिरेः ।को वा वर्णयितुं शक्तो मदन्यः पुरुषो भुवि ॥३६॥वेङ्कटेशस्य नैवेद्यं सदा लक्ष्मीः करोति वै ।ब्रह्मा पूजयते नित्यमेवं शास्त्रस्य निर्णयः ॥३७॥नैवेद्यभक्षिणां पुंसामुपहासं न कारयेत् ।स्वस्य प्राशस्त्यभावे तु नैवेद्यादि गुडादिकम् ।ग्राह्यमेव न संदेहो अन्यथा नारकी भवेत् ॥३८॥श्रीनिवासात्परो देवो न भूतो न भविष्यति ।स्वयं च पाचयित्वात्वं घृतपक्वादिकं तथा ।श्रीनिवासस्य नैवेद्यं दत्त्वा भोजनमाचरेत् ॥३९॥इदं तु परमं गोप्यं तवोक्तं च खगेश्वर ।न कस्यापि च वक्तव्यं गोप्यत्वात्खगसत्तम ।इतः परं प्रवक्ष्यामि तारतम्यं शृणु प्रभो ॥४०॥इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे व्यङ्कटगिरिमाहात्म्ये कन्याकृतनानातीर्थयात्रादिनिरूपणं नाम सप्तविंशोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP