संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|ब्रह्मकाण्डः (मोक्षकाण्डः)| अध्यायः १३ ब्रह्मकाण्डः (मोक्षकाण्डः) अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ ब्रह्मकाण्डः - अध्यायः १३ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः १३ Translation - भाषांतर श्रीकृष्ण उवाच ।इति स्तुतः स भगवान् स्वपूत्रेण दयानिधिः ।मेधगंभीरया वाचा प्रोवाच मधुसूदनः ॥१॥सृज ब्रह्मन्निमान्देवान्मत्प्रसादात्क्रमेण च ।यथा वै प्राक्क्षणेतद्वत्सृज सर्वं महाप्रभो ॥२॥नास्ति प्रयोजनं तेन तव मत्प्रीतये सृज ।एवमुक्तस्तु हारिणा ब्रह्मा स्तुत्वा हरिं परम् ॥३॥सृष्टिं कर्तुं मनो दध्रे प्रीणयन्नेव माधवम् ।महत्तत्वात्मको ब्रह्मा वायुं जीवभिमानिनम् ॥४॥आदौ ससर्ज गरुड पुरुषात्मा स एव च ।ततो दक्षिणहस्तात्तु ब्रह्माणीं भारन्ती तथा ॥६॥(१३.५)असृजत्ते महाभागे अव्यक्तस्य नियामिके ।वामहस्तात्सत्यपुत्रो महत्तत्वात्मकोऽनलः ॥६॥ब्रह्मणो दक्षिणाद्धस्तादहङ्कारात्मको हरः ।आदौ शेषस्ततो जज्ञे गरुडतदनन्तरम् ॥७॥तदनन्तरजो रुद्रः स एवं सृष्टवान्प्रभुः ।स्वोत्पत्त्यनन्तरं ब्रह्मा दशवर्षान्महाप्रभुः ॥८॥वायुमुत्त्पाद्रयामास वत्सरानन्तरे प्रभुः ।गायत्रीं जनयामास वायोरुत्पत्त्यनन्तरम् ॥९॥संवत्सरानन्तरे तु भारतीमसृजत्प्रभुः ।भारत्यनन्तरं शें दिव्यसाहस्रवत्सरात् ॥१०॥अनन्तरं संबभूव गरुडस्तु ततः परम् ।दिव्यसाहस्रवर्षात्तु तथा रुद्रञ्च सृष्टवान् ॥११॥शेषस्यानन्तरं देवीं वारुणीं च महाप्रभुः ।दशवर्षानन्तरं तु ह्यसृजत्कमलासनः ॥१२॥गरुडानन्तरं देवीं सौपर्णीमसृजत्प्रभुः ।दशवर्षानन्तरं च पार्वतीं च तथैव सः ॥१३॥पार्वत्यनन्तरं चन्द्रं मनस्तत्त्वनियामकम् ।दशवर्षानन्तरं तु वासवं ह्यसृजत्ततः ॥१४॥अभिमानी दक्षिणस्य बाहोश्च परमेष्ठिनः ।दशवर्षानन्तरं तु शची तामसृजत्प्रभुः ॥१५॥इन्द्रस्यानन्तरं कामं त्रिंशद्वर्षादनन्तरम् ।असृजद्वामबाहोश्चमनस्तत्वाभिमानिनम् ॥१६॥तदनन्तरजां देवीं दशवर्षादनन्तरम् ।रतिं स जनयामास कामभार्यां महाप्रभुः ॥१७॥कामस्याप्यभिमानी तु स एव परिकीर्तितः ।ब्रह्माहङ्कारिकं प्राणं कार्योत्पत्तेरनन्तरम् ॥१८॥दशवर्षानन्तरं तु निर्ममे नासिक ततः ।तस्य भार्यां नासिकस्यः पञ्चवर्षादनन्तरम् ॥१९॥निर्ममे नासिकां वामां ब्रह्मा लोकपितामहः ।अहङ्कारादनु ब्रह्मा सज्ञानं च बृहस्पतिम् ॥२०॥निर्ममे च वर्षयुग्मपञ्चवर्षादनन्तरम् ।पञ्चवर्षानन्तरं तु तारां भार्यां विनिर्ममे ॥२१॥गुरोरनन्तरं ब्रह्मा पञ्चविंशादनन्तरम् ।स्वायंभुवं मनुं चैव निर्ममे मनसा विभुः ॥२२॥पञ्चवर्षानन्तरं तु शतरूपां विनिर्ममे ।शतरूपानन्तरं तु विंशद्वर्षदिनान्तरम् ॥२३॥दक्षः शिष्यात्मको जज्ञे दक्षिणाङ्गुष्ठतः प्रभोः ।पञ्चवर्षानन्तरं तु वामाङ्गुष्ठाच्चतुर्मुखः ॥२४॥प्रसूतिमसृजद्ब्रह्मा सृष्ट्यर्थं परमादरात् ।दक्षस्यानन्तरं ब्रह्मा पञ्चविंशादनन्तरम् ॥२५॥निर्ममे ह्यनिरुद्धं च मध्यमाङ्गुलिपर्वतः ।पञ्चवर्षानन्तरं तु ससर्ज भगवानजः ॥२६॥विराजसंज्ञकां भार्यां मध्यमाङ्गुलिपर्वतः ।अनिरुद्धानन्तर तु शतवर्षादनन्तरम् ॥२७॥निर्ममे प्रवहं वायुं कनिष्ठाङ्गुलिपर्वतः ।दशवर्षानन्तरं तु प्रवाहीं निर्ममे प्रभुः ॥२८॥कनिष्ठाङ्गुलिपर्वाच्च वामदेवं न संशयः ।प्रवहानन्तरं तब्रह्मा शतवर्षादनन्तरम् ॥२९॥यमं विनिर्ममे पृष्ठादष्टवर्षादनन्तरम् ।तद्भार्यां शामलां देवीं तस्मादेव महाप्रभुः ॥३०॥यमस्यानन्तरं चन्द्रं त्रिंशद्वर्षादनन्तरम् ।असृजद्दक्षिणाच्छोत्राच्छोत्रतत्त्वनियामकम् ॥३१॥नववर्षानन्तरं तु रोहिणीसमृजत्प्रभुः ।वामश्रोत्राच्च गरुडं वामश्रोत्राभिमानिनम् ॥३२॥चन्द्रस्यानन्तरं सूर्यं विंशद्वर्षादनन्तरम् ।सम्यग्विनिर्ममे ब्रह्मा दक्षिणाक्ष्णश्च देवताम् ॥३३॥वामाक्ष्णो निर्ममे संज्ञां षड्वर्षानन्तरं प्रभुः ।सूर्यस्यानन्तरं ब्रह्मा शतवर्षादनन्तरम् ॥३४॥रसनेन्द्रियाच्च वरुणं निर्ममे तस्य मानिनम् ।विंशद्वर्षानन्तरं तु तस्मादेवेद्रियात्प्रभुः ॥३५॥गङ्गां विनिर्ममे ब्रह्मा रसनेन्द्रियदेवताम् ।वरुणस्यानन्तरं तु दशवर्षादनन्तरम् ॥३६॥उत्संगान्निर्ममे ब्रह्मा नारदं भगवत्प्रियम् ।नारदस्यानन्तरं तु षष्टिवर्षादनन्तरम् ॥३७॥अग्निं विनिर्ममे ब्रह्मात्वगिन्द्रियतः प्रभुः ।अतो वागभिमानी सं पञ्चवर्षादनन्तरम् ॥३८॥स्वाहां विनिर्ममे ब्रह्मा तामाहुर्मन्त्रदेवताम् ।अग्नेरनन्तरं वीन्द्र भृगुं ब्रह्मर्षिसत्तमम् ॥३९॥दशवर्षानन्तरं तु भ्रुवोर्मध्याद्विनिर्ममे ।संवत्सरानन्तरं तु भृगुभार्यां विनिर्ममे ॥४०॥भृगोरनन्तरं ब्रह्मा शतवर्षादनन्तरम् ।कश्यपञ्जनयामास मनसा च स्वयं प्रभुः ॥४१॥संवत्सरानन्तरं तु अदितिं निर्ममे प्रभुः ।कश्यपानन्तरं चात्रिं दशवर्षादनन्तरम् ॥४२॥अत्रेरनन्तरं ब्रह्मा दशवर्षादनन्तरम् ।अजीजनद्भरद्वाजं वसिष्ठ तदनतरम् ॥४३॥दशवर्षानन्तरं तु तेषां भार्याः क्रमेण तु ।संवत्सरानन्तरेण असृजत्कमलासनः ॥४४॥वसिष्ठस्यानन्तरं तु गौतमं ह्यसृजत्प्रभुः ।दशवर्षानन्तरेण जमदग्निं ततोऽसृजत् ॥४५॥दशवर्षानन्तरेण मनुर्वैवस्वतोऽभवत् ।मनोरनन्तरं जज्ञे शतवर्षादनन्तरम् ॥४६॥विष्वक्सेनो महाभागो वायुपुत्रो महाबलः ।तस्माच्चतुर्दशे वर्षे गणपो ह्यभवद्विभोः ॥४७॥तदनन्तरजो वीन्द्र अष्टवर्षादनन्तरम् ।धनपो ह्यभवत्तत्र तद्भार्या वत्सरे परे ॥४८॥विष्वक्सेनानन्तरं तु दशवर्षादनन्तरम् ।जयादीन्भ गवद्भक्तान्सृष्टवान् कमलासनः ॥४९॥जयाद्यानन्तरं ब्रह्मा वल्लाद्याः कर्मदेवताः ।शतवर्षानन्तरं तु सृष्टवाञ्छिववाहनम् ॥५०॥कर्मदेवानन्तरं तु त्रिंशद्वर्षादनन्तरम् ।पर्जन्यमसृज्ब्रह्मा मन्त्रयन्त्राभिमानिनम् ॥५१॥पर्जन्यानन्तरं ब्रह्मा दशवर्षादनन्तरम् ।पुष्करं जनयामास कर्मतत्त्वाभिमानिनम् ॥५२॥एवं विनिर्ममे ब्रह्मा मत्प्रसादात्खगेश्वर ।एवं ज्ञात्वा मोक्षमेति नान्यथा तु कथञ्चन ॥५३॥इति श्रीगारुडे महापुराणे श्रीकृष्णगरुडसंवादे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे देवोत्पत्तिनिरूपणं नाम त्रयोदशोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP