संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|ब्रह्मकाण्डः (मोक्षकाण्डः)| अध्यायः ३ ब्रह्मकाण्डः (मोक्षकाण्डः) अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ ब्रह्मकाण्डः - अध्यायः ३ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः ३ Translation - भाषांतर श्रीकृष्ण उवाच ।बभूवेच्छा मम देवस्य विष्णोः स्रष्टुं सृज्यान्मोक्षयोग्यांश्च मोक्तुम् ।इच्छाशक्तिः सर्वदैवास्ति विष्णोस्तथापि तद्व्याहरणं च लौकिकम् ॥१॥तदा हरिर्जगृहे लौकिकं च तमः पानं तेन रूपेण चक्रे ।तद्रूपमाहुः प्राकृतं वै तदज्ञा ह्यन्धं तमः प्रविशन्त्येव सर्वे ॥२॥अवतारा महाविष्णोः सर्वे पूर्णाः प्रकीर्तिताः ।पूर्णं च तत्परं रूपं पूर्णात्पूर्णाः समुद्गताः ॥३॥परावरत्वं तेषां तु व्यक्तिमात्रविशेषतः ।न देशकालसामर्थ्यात्पारावर्यं कथञ्चन ॥४॥पूर्वरूपं च पूर्णं च पूर्णं पदवितारगम्? ।रूपं तदात्मन्यादाय पूर्णमेवावशिष्यते ॥५॥लौकिकव्यवहारोयं भूभारक्षपणादिकः ।तस्य दृर्ष्टि विना नान्यो लयः कृष्णादिना क्वचित् ॥६॥तत्त्वे पीडा न कर्तव्या तया दुः खानि विन्दति ।अत्यन्तपीडनात्तस्य रोगस्तस्य न संशयः ॥७॥ज्ञातव्यांशे तु पीडा तु कर्तव्या गुरुणा सह ।तमन्तेवासिनं चाहुः स एव चु गुरुः स्मृतः ॥८॥ये कुर्वन्ति हरेस्तत्त्वविचारं तु परस्परम् ।तावेव गुरुशिष्यौ तु विनतानन्दसंयुत ॥९॥गुरुणापि समं हास्यं कर्तव्यं कुटिलं विना ।हर्षामर्षयुतः शिष्यो गुरुः कौटिल्यसंयुतः ॥१०॥उभौ तौ निरयं यातो यावदाचन्द्रतारकम् ।साक्षाद्धरिः पुरुषः पिङ्गलाक्षः स्वमायायां गुणमय्यां महात्मा ।स्वपौरुषेणैव सुमङ्गलेन अधात्तु वीर्यं भगवान्वीर्यवांश्च ॥११॥गरुड उवाच ।वीर्यस्वरूपं ब्रूहि मे वासुदेव वीर्ये त्वदीये संशयो मे विभाति ।किं वीर्यमीशस्य स्वरूपभूतं किं वा विभिन्नं वद साधु वेत्सि ॥१२॥श्रीकृष्ण उवाच ।यद्वीर्यमाधत्त हरिः स्वयं प्रभुर्मायाभिधायां विनतातनूज ।तद्वीर्यमाहुर्नृहरेः स्वरूपं विपश्चितो निश्चिततत्त्वदर्शिनः ॥१३॥भिन्नं तदाहुः प्राकृतमेव चाहुः स्वनाभिपद्मादिकवच्च बोध्यम् ।नैतावता ज्ञानरूपस्य विष्णोर्न वीर्यहानिरिति चिन्तनीयम् ॥१४॥वीर्यस्वरूपी भगवान्वा सुदेवः सर्वत्र देशेपि च सर्वकाले ।सर्वार्थवान्यदि न स्यात्खगेन्द्र तर्हीश्वरः पुरुषो नैव स स्यात् ॥१५॥अचिन्त्यवीर्यैश्चिन्त्यवीर्यैर्द्विरूपः स्त्रीरूपमेकं पुरुषं तथा परम् ।उभे रूपे वीर्यवती खगेन्द्र तयोरभेदश्चिन्तनीयो हि सम्यकू ॥१६॥स्त्रीरूपवान्यदि न स्यात्खर्गेद्रस्त्रीणां कथं प्रतिबिंबत्वमेव ॥१७॥स्त्रीरूपमस्माद्ब्रह्मजं (द्वास्तवं) चिन्तनीयं स्वरूपमेतन्नान्यथा चिन्तनीयम् ।स्त्रीरूपवन्नैव विचिन्तनीयं नपुंसकं त्बस्य जन्यं हि विद्धि ॥१८॥नपुंसकं नवैव स्वरूपभूतमतो हरौ नास्ति विचिन्तनीयम् ।स्त्रीबिंबभूते हरिरूपे खगेन्द्र श्रीरूपमस्तीति विचिन्तनीयम् ॥१९॥गरुड उवाच ।स्त्रिया स्त्रियश्च संयोगं व्यर्थमहुर्मनीषिणः ।स्त्रीरूपभूते विंबे तु स्त्रीरूपाः सन्ति सर्वदा ॥२०॥स्थितौ तत्र निमित्तं च ब्रूहि कृष्ण मम प्रभो ॥२१॥श्रीकृष्ण उवाच ।स्त्रीबिंबभूतस्त्रीरूपे लक्ष्मीर्न स्यात्खगेश्वर ।नित्यावियोगिनी देवी कथं स्यात्परमात्मनः ॥२२॥हरेरनन्तरूपाणां स्त्रीरूपाणां खगेश्वर ।अनन्तानन्तरूपेण नित्यं शुश्रूषणे रता ॥२३॥अतो लक्ष्म्या वियोगस्तु शङ्कनीयः कथञ्चन ।नारायणो नाम हरिः स्वतन्त्रः श्रिया विना नास्ति कदापि तार्क्ष्य ।हरेर्मुकुन्दस्य पदारविन्दे शुश्रूषमाणा परमादरेण ॥२४॥हरिं विना श्रीरपि देशकाले नास्तीति मोक्षेच्छुभिरेव वेद्यम् ।यस्यामधाद्वीर्यमनुक्षणं च सा मामिका चेन्द्रजाला त्मिकेति ॥२५॥वदन्ति ये असुरा मूढरूपा अधंमतः प्रविशन्त्येव सर्वे ।माया नाम प्रकृतिस्त्वेमाहुः सुसूक्ष्मरूपा न तु चेन्द्रजालिका ॥२६॥तस्याभिमानः श्रीरिति वेदितव्यो वीर्याधानं तत्र तेषां च मेलः ।कार्योन्मुखं मेलनं चाहुरार्या इतो रूपं नाहुराय्याश्च विष्णोः ॥२७॥सानादि नित्या सत्यरूपा च विष्णोर्मिथ्या रूपा सा कथं स्यात्खगेन्द्र ।सत्या तनुः प्रकृतेस्तन्निगूढा सत्यत्वमाहुर्व्यवहारार्थरूपम् ॥२८॥व्यवहाररूपा सत्यता चेत्प्रकृत्यास्तदा कथं स्याद्यदनादिभूता ।अनादिनित्या यदि न स्यात्खगेन्द्र सुशूक्ष्मरूपेण न कारणं स्यात् ॥२९॥सूक्ष्मेण रूपेण च कारणं स्यात्तर्हि प्रपञ्चस्य च कारणं वद ।अविद्याया वशतो विष्णुरेव नानारूपैर्दृश्यते विष्णुरेव ॥३०॥शास्त्रज्ञानान्नाशमेति ह्यविद्या न संशयो हरिणा चैक्यमेति ।एवं ब्रूषे यदि वादत्खगेन्द्र वक्ष्येहं ते तत्र युक्तिं शृणु त्वम् ॥३१॥सर्वज्ञरूपस्य हि मे मुरारेः कथं हरेर्घटते ह्यज्ञता च ।सूर्ये यथा तमो नास्ति तथा नारायणे हरौ ।अज्ञानं नास्ति पक्षीद्र कथं तत्वं ब्रवीष्यहो ॥३२॥अतो नाहं ब्राह्मणस्त्वादिकालादुपाधिसंबन्धवशादज्ञताचेत् ।सर्वज्ञोसौ कुत्र पक्षीन्द्र विष्णुरल्पज्ञजीवो ज्ञानशून्यश्च कुत्र ॥३३॥विरुद्धयोश्चानयोः सर्वदैव कथं चैक्यं संवादिष्यन्ति वेदाः ।देशे काले सर्वदा द्दुः खहीनो जगत्कर्ता पूर्णशक्तिः सदैव ॥३४॥जीवः सदा स्वल्पकर्तास्ति पूर्णः संसाररूपे दुः खरूपे च नित्यम् ।विरुद्धयोश्चानयोरैक्यमाहुरीशस्य मायावशतो मायिनश्च ॥३५॥ये वैष्णवा वैष्णवदासवश्यास्तेषां द्रोहं सर्वदा संचरेद्यः ।हरिप्रीतिस्तेन भवेन्न नित्यमानन्दवृद्धिस्तेन भवेन्न मुक्तौ ॥३६॥मायी सदा मायिभृत्यस्तथापि भेदज्ञानान्निन्द्यते कार्यते च ।तेनापि तेषां दुः खवृद्धिर्भवेच्च ह्यधं तमः पुनरावृत्तिहीनम् ॥३७॥खगेन्द्रातः प्रकृतिः सूक्ष्मरूपा सा नित्या सा सत्यभूता सदैव ।एवं स्वयं कालवाय्वादिकानां परा (रमा)णवः सत्यरूपाश्च सन्ति ॥३८॥परा (माणू)नां लक्षणं वेदितव्यं ज्ञानेच्छुभिर्नान्यथा वेदितव्यम् ।पदार्थानां पार्थिवानां खगेन्द्र विशेषाणां चरमाख्यो विशेषः ॥३९॥स एवः स्यात्परमाणुर्द्विजेन्द्र योन्त्योवि (व) शेषोवयवश्च स स्मृतः ॥४०॥गरुड उवाच ।हे कृष्ण हे माधव सात्त्वतां पते पदार्थानां चरमांशः पराणु ॥४१॥इति प्रोक्तं तत्र मे संशयोस्ति योन्त्यो विशेषः स तु नांशयुक्तः ।यो ह्यंशयुक्तो न तु सोंत्यो विशेष एवं ममाभाति वचस्तु तथ्यम् ॥४२॥श्रीकृष्ण उवाच ।य एव लोके संस्थिता मानुषास्तु विशेषाणां दर्शने शक्तियुक्ताः ।तथापि ते यस्य चांशित्वमेव विशेषं वै नैव द्रष्टुं समर्थाः ॥४३॥तमेवाहुश्चरमांशं विशेषं ये चैवमाहुर्मुनयस्तेन चान्ये ।ये काणादा गौतमाद्याः खगेन्द्र निरंशकं परमाणुं वदन्ति ॥४४॥अनन्तांशैः संयुतत्वेपि तांश्च निरंशिनो भ्रान्तिदृष्ट्या वदन्ति ।तस्मात्परा (रमा) णोः परमाणुत्वमस्ति तदंशानां विनतागर्भजात ॥४५॥परा (रमा) णूनामेकदेशे खगेन्द्र तन्नो संति प्राणिनां राशयश्च ।प्रत्येकश संति रूपा हरेश्च ह्यतश्च तत्परमाणोरणीयः ॥४६॥यो वा त्वणीयान्परमस्य विष्णोः स एव रूपो महतो महीयान् ।तेषामन्योन्यं न विशेषोस्ति कश्चिदचिन्त्यरूपे च विचिन्तनीयः ॥४७॥कालकोटिविहीनत्वं कालानन्त्यं विदुर्बुधाः ।देशकोटिविहीनत्वं देशानन्त्यं विदुर्बुधाः ॥४८॥गुणानामप्रमेयत्वे गुणानन्त्यं विदुर्बुधाः ।आनन्त्यं त्रिविधं नित्यं हरेर्नान्यस्य कस्यचित् ॥४९॥तस्य सर्वस्वरूपेषु चानन्त्यं तु त्रिलक्षणम् ।तथापि देशतस्तस्य परिच्छेदोपि युज्यते ॥५०॥परिच्छेदस्तथा व्याप्तेरेकरूपेपि युज्यते ।तस्याचिन्त्याद्भुतैश्वर्यं व्यवहारार्थमेव च ॥५१॥गुणतः कालतश्चैव परिच्छेदो न कुत्रचित् ।व्याप्तत्वं देशतो ह्यस्ति सर्वभूतेषु यद्यापि ॥५२॥न च भेदः क्वचित्तस्य ह्यणुमात्रेपि युज्यते ।तथापि विद्यतेणुत्वं तस्मादैश्वर्ययोगतः ॥५३॥तस्माद्विद्ध्यवतारार्थं व्याप्तत्वं चापि भण्यते ।यत्तस्य व्यापकं रूपं परं नारायणं विदुः ॥५४॥अतश्च परमाणूनां पार्थिवाऽनन्त्यवादिनाम् ।भेदः परस्परं ज्ञेयस्तथेशस्य महात्मनः ॥५५॥जडेशयोर्जडानां च जीवानां च परस्परम् ।तथैव जडजीवानां नित्यं भेदो जडेशयोः ॥५६॥पञ्च भेदा इमे नित्यं सर्वावस्थासु सर्वशः ।एतादृश्यां तु मायायां वीर्यमाधत्त वीर्यवान् ॥५७॥पुरुषाख्यो हरिस्तस्मात्त्रिगुणानसृजत्प्रभुः ॥५८॥इति श्रीगारुडे महापुराणे तृतीयांशे ब्रह्मकाण्डे भगवद्वीर्यस्वरूपतदाधानद्वारकगुणत्रय सृष्टिजडेशभेदादिनिरूपणं नाम तृतीयोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP