संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|ब्रह्मकाण्डः (मोक्षकाण्डः)| अध्यायः ६ ब्रह्मकाण्डः (मोक्षकाण्डः) अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ ब्रह्मकाण्डः - अध्यायः ६ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः ६ Translation - भाषांतर श्रीकृष्ण उवाच ।तत्रतत्र स्थितास्तत्त्वे तत्तत्तत्त्वाभिमानिनः ।स्वेस्वे ह्यायतने स्वाङ्गे तदर्थं च खगेश्वर ॥१॥हरिं नारायणं सम्यक्स्तोतुं समुपचक्रिरे ।चिन्त्याचिन्त्यगुणे विष्णौ विरुद्धाः संति सद्गुणाः ॥२॥एकैकशोह्यनन्तास्ते तद्गुणानां स्तुतौ मम ।क्व शक्तिरिति बुद्ध्या सा व्रीडयावनताब्रवीत् ॥३॥श्रीरुवाच ।नतास्मि ते नाथ पदारविन्दं न वेद चान्यच्चरणादृते तव ।त्वयीश्वरे संति गुणाः श्रुतास्तु तथाश्रुताः संति च देवदेव ॥४॥सम्यक्सृष्टं स्वायतनं च दत्वा गोविन्द दामोदर मां च पाहि ।स्तुत्या मदीयश्च सुखकपूर्णः प्रियो जनो नास्ति तथा त्वदन्यः ॥५॥ब्रह्मोवाच ।लक्ष्मीपते सर्वजगन्निवास त्वं ज्ञानसिंधुः क्व च विश्वमूर्ते ।अहं क्व चाज्ञस्तव वै शक्तिरस्ति ह्यज्ञोहं वै ह्यल्पशक्तिर्ममास्ति ॥६॥लक्ष्म्याश्चैव ज्ञानवैराग्यभक्ति ह्यत्यल्पमद्धा मयि सर्वदैव ।तव प्रसादादस्ति जगन्निवास तत्र स्वामित्वं नास्ति विष्णो सदैव ॥७॥न देहि त्वं सर्वदा मे मुरारे अहंममत्वं प्राप्यमेतावदेव ।गम्यज्ञानं योग्यगुणे रमेश प्रमादो वा नास्तिनास्त्यद्य नित्य ॥८॥तन्मे हृषीकाणि पतन्त्यसत्पथे पदारविन्दे तु पतन्तु सर्वदा ।लक्ष्म्या ह्यहं कोटिगुणेन हीनः स्तोतुं सामर्थ्यं नास्ति मे सुप्रसीद ॥९॥इति स्तवं विष्णुगुणान्विधाता तार्क्ष्यस्थितः प्राञ्जलिस्तस्य चाग्रे ।तदा वायुर्देवदेवो महात्मा दृष्ट्वा विष्णु भक्तिसंवर्धितात्मा ॥१०॥स्नहोत्थरावः स्खलिताक्षरस्तं मुञ्चन्कणान्प्राञ्जलिराबभाषे ।वायुरुवाच ।एते हि देवास्तव भृत्यभूताः पदारविन्दं परमं सुदुर्लभम् ॥११॥चतुर्विधान्पुरुषार्थान्रमेश संप्रार्थये तच्च सदापि देव ।दृष्ट्वा हरेः सैव मायैव तावत्सुकारणं किञ्चिदन्यन्न चास्ति ॥१२॥अतो नाहं प्रदयोपि भूमन् भवत्पदांभोजनिषवणोत्सुकः ।लोकस्य कृष्णाद्विमुखस्य कर्मणा अपुण्यशीलस्य सुदुः खितस्य ॥१३॥अनुग्रहार्थं च तवावतारो नान्यश्च किञ्चित्पुरुषार्थस्तवेश ।गोभूसुराणां च महीरुहाणां तथा सुराणां प्रवरावतारैः ॥१४॥क्षेमोपकाराणि च वासुदेव क्रीडन्विधत्ते न च किञ्चिदन्यत् ।मनो न तृप्यत्यपि शंसतां नः सुकर्ममौलेश्चरितामृतानि ॥१५॥अच्छिन्नभक्तस्य हि मे मुकुन्द सदा भक्तिं देहि पादारविन्दे ।सदा तदेवास्तु न किञ्चिदन्यद्यत्र त्वमासीः पुरुषे देवदेव ॥१६॥अहं च तत्रास्मि तव प्रसादाद्यत्रास्म्यहं तत्र भवान्महाप्रभो ।व्यंसिर्ममेयं च शरीरमध्ये चतुर्मुखश्चैव न चैततदन्यैः ॥१७॥मदीयनिद्रा तव वन्दनं प्रभो मदीययामाचरणं प्रदक्षिणम् ।मदीयव्याख्याहरणं स्तुतिः स्यादेवं विदित्वा च समर्पयामि ॥१८॥मद्ब्रृद्धियोग्यं च पदार्थजातं दृष्ट्वा हरेः प्रतिमा एव तच्च ।इत्थं मत्वाहं सर्वदा देवदेव तत्रस्थितान्हरिरूपान् भजिष्ये ॥१९॥यच्चन्दनं यत्तु पुष्पं च धूपं वस्त्रं च यद्भक्ष्यभोज्यादिकं च ।एतत्सर्वं विष्णुप्रीत्यर्थमेवेत्येतद्व्रतं सर्वदा वै करिष्ये ॥२०॥अवैष्णवान्दूषयिष्ये सदाहं सद्वैष्णवान्पा (ल्लां) लयिष्ये मुरारे ।विष्णुद्रुहां छेदयिष्ये च जिह्वां तच्छृण्वतां पूरयिष्ये त्रपूल्काः ॥२१॥एतादृशी शक्तिर्ममास्ति देव तव प्रसादाद्ब्र लिनोपि विष्णो ।अथापि नाहं स्तवने समर्थः लक्ष्म्या ह्यहं कोटिगुणैर्विहीनः ॥२२॥एतत्स्तोत्रं ह्यर्थयेच्चैव या नः तत्र प्रीतिर्ह्यक्षया मे सदा स्यात् ।स्तोत्रं ह्येतत्पाठयन्तीह लोके ते वैष्णवास्ते च हरिप्रियाश्च ॥२३॥कुर्वन्ति ये पठनं नित्यमेव समर्पयिष्यति सदा हरौ च ।तेषां हरिः प्रीयते केशवोलं हरौ प्रसन्ने किमलभ्यमस्ति ॥२४॥एवं स्तुत्वा वलदेवो महात्मा तूष्णीं स्थितः प्राञ्जलिरग्रतो हरेः ।सरस्वत्युवाच ।को वा रसज्ञो भगवन्मुरारे हरे गुणस्तवनात्कीर्तनाद्वा ॥२५॥अलंबुद्धिं प्राप्नुयाद्देवदेव ब्रह्मादिभिः सर्वदा स्तूयमान ।यः कर्णनाडीं पुरुषस्य यातो भवप्रदां देहरतिं छिनत्ति ॥२६॥न केवलं देहरतिं छिनत्त्यसद्गृहक्षेत्रभार्यासुतेषु नित्यम् ।पश्वादिरूपेषु धनादिकेषु अनर्घ्यरत्नेषु प्रियं छिनात्ति ॥२७॥अनं तवेदप्रतिपादितोपि लक्ष्मीर्न वै वेद तव स्वरूपम् ।चतुर्मुखो नैव वेद न वायुरसौ न वेत्तीति किमत्र चित्रम् ॥२८॥एतादृशस्य स्तवने क्वास्ति शक्तिर्मम प्रभो ब्रह्मवाय्वोः सकाशात् ।शतैर्गुणैः सर्वदा न्यूनतास्ति अतो हरे दयया मां च पाहि ॥२९॥एवं स्तुत्वा हरिं सा तु तूष्णीमास खगश्वर ।भारती तु तदा स्तोतुं हरिं समुपचक्रमे ॥३०॥भारत्युवाच ।ब्रह्मेश लक्ष्मीश हरे मुरारे गुणांस्तव श्रद्दधानस्य नित्यम् ।तथा स्तुवन्तोस्य विवर्धमानां मतिं च नित्यं विषयेष्वसत्सु ॥३१॥कुर्वन्ति वैराग्यममुत्र लोके ततः परं भक्तिदृढां तथैव ।ततः परं चैव हरेः प्रसन्नतां कुर्वन्ति नित्यं तव देवदेव ॥३२॥तेनापरोक्षं च भवेच्च तस्य अतो गुणानां स्तवने च मे रतिः ।सा तु प्रजाता पुरुषस्य नित्यं संसारदुः खं तु तदाच्छिनत्ति ॥३३॥विच्छिन्नदुः खस्य तदाधिकारिण आनन्दरूपाख्यफलं ददाति ।हरेर्गुणानस्तुवतां च पापं तेषां हि पुण्यं च तथा क्षिणोति ॥३४॥एवं विदित्वा परमो गुरुर्मम वायुर्दयालुर्मम वल्लभश्च ।हरेर्गुणान्सर्वगुणप्रसारान्ममैव योग्यान्सुखमुख्यभूतान् ॥३५॥उद्धृत्य पुण्येभ्य इवार्तबन्धुः शिवश्च नो द्रुह्यति पुण्यकीर्तिम् ।तव प्रसादाच्च श्रियः प्रसादाद्वायोः प्रसादाच्च ममास्ति नित्यम् ॥३६॥यद्यत्करोत्येव सदैव वायुस्तत्तत्करोत्येव सदैव नित्यम् ।वायोर्विरोधं न करोति देवः स तद्विरोधं च करोति नित्यम् ॥३७॥हरेर्विरोधं न करोति वायुर्वायोर्विरोधं न करोति विष्णुः ।वायोः प्रसादान्ममनास्ति किञ्चिदतानभावश्च तव प्रसादात् ॥३८॥यथैव मूलं च तथावतारे दुः खादिकं नास्ति समीरणस्य ।वायुस्तथान्ये च उभौ मुकुन्दस्तथावतारेषु न दुः खरूपौ ॥३९॥अशक्तवद्दृश्यते वायुदेवः युगानुसारांल्लोकधर्मांस्तु रक्षन् ।नरावतारे तत्र देवे मुरारे ह्यशक्तता नेति विचं तनीयम् ॥४०॥अवताररूपे यमदुः खादिकं च न चिन्तनीयं ज्ञानिभिर्देवदेव ।अहं कदाचित्सुखनाशप्रदेशे दैत्यांस्तथा मारयितुं गतोस्मि ॥४१॥नैतावता मम वायोश्च नित्यं दुः खातनं नैव संचितनीयम् ।एतादृशोहं स्तवनेनु कास्ति शक्तिर्गुणानां मधुसूदन प्रभो ।वायोः सकाशाच्च गुणेन हीना संसाररूपे मुक्तरूपे च देव ॥४२॥एवं स्तुत्वा भारती तु तूष्णीमास खगेश्वर ।तदनन्तरजः शेषः प्राञ्जलिः प्राह केशवम् ॥४३॥शेष उवाच ।नाहं च जाने तव पादमूलं रुद्रो न वेत्ति गरुडो न वेद ।अहं वाण्याः शतगुणांशहीनो दत्त्वा ह्यायतनं पाहि मां वासुदेव ॥४४॥एवं स्तुत्वा सशेषस्तु तूष्णीमास खगेश्वर ।तदनन्तरजो वीशः स्तोतुं समुपचक्रमे ॥४५॥गरुड उवाच ।तव पदोः स्तुतिं किं करोम्यहं मम पदांबुजे ह्यर्पितं मनः ।कथमहं मुखे पक्षियोनिजः कथमेवङ्गुणा नीडितुं क्षमः ॥४६॥एवं स्तुत्वा तु गरुडस्तूष्णीमास नयान्वितः ।तदनन्तरजो रुद्रस्तोतुं समुपचक्रमे ॥४७॥रुद्र उवाच ।या वै तवेश भगवन्न विदाम भूमन् भक्तिर्ममास्तु शिवपादसरोजमूले ।छन्नापि सा ननु सदा न ममास्ति देव तेनाद्रुहं तव विरुद्धमतः करोमि ॥४८॥सर्वान्न बुद्धिसहितस्य हरे मुरारे का शक्तिरस्ति वचने मम मूढबुद्धेः ।वाण्या सदा शतगुणेन विहीनमेनं मां पाहि चेश मम चायतनं च दत्त्वा ॥४९॥एवं स्तुत्वा स रुद्रस्तु तूष्णीमास द्विजोत्तमः ।शेषानन्तरजा देवी वारुणी वाक्यमब्रवीत् ॥५०॥वारुण्युवाच ।लक्ष्मीपते ब्रह्मपते मनोः पतेगिरः पते रुद्रपते नृणां पते ।गुणांस्तव स्तोतुमहं समर्था न पार्वती नापि सुपर्णपत्नी ॥५१॥शेषादहं दशगुणैर्विहीना मां पाहि नित्यं जगतामधीश ॥५२॥एवं स्तुत्वा वारुणी तु तूष्णीमास खगेश्वर ।तदनन्तरजा ब्राह्मी सौपर्णी ह्युपचक्रमे ॥५३॥सौपर्ण्युवाच ।स्तोतुं गुणांस्तव हरे जगदी शवाचा श्रोतुं हरे तव कथां श्रवणे न शक्तिः ।यस्तत्त्वनुं स्मरति देव तव स्वरूपं को वै नु वेद भुवि तं भगवत्पदार्थम् ॥५४॥अतो गुणस्तवने नास्ति शक्तिर्वीन्द्राहदं दशगुणैरवरा च नित्यम् ॥५५॥एवं स्तुत्वा तु सौपर्णी तूष्णीमास खगेश्वर ।रुद्रानन्तरजा स्तोतुं गिरिजा तूपचक्रमे ॥५६॥पार्वत्युवाच गोविन्द नारायण वासुदेव त्वया हि मे किञ्चिदपि प्रयोजनम् ।नास्त्येव स्वामिन्न च नाम वाचा सौभाग्यरूपः सर्वदा एक एव ॥५७॥नारायणेति तव नाम च एकमेव वैराग्यभक्तिविभवे परमं समर्थाम् ।असंख्यब्रह्मादिकहत्यनाशाने गुर्वङ्गनाकोटिविनाशने च ॥५८॥नामाधिकारिणी चाहं गुणानां च महाप्रभो ।स्तवने नास्ति मे शक्ती रुद्राद्दशगुणैरहम् ॥५९॥अवरा च सदास्म्येव नात्र कार्या विचारणा ।एवं स्तुत्वा सा गिरिजा स्तूष्णीमास खगेश्वर ॥६०॥इति श्रीगारुडे महापुराणे श्रीकृष्णगरुडसंवादे उत्तर तृतीयांशे ब्रह्मकाण्डे तत्त्वाभिमानितत्तद्देवताकृतविष्णुस्तुतितत्तद्देवतातारतम्यनिरूपणं नाम षष्ठोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP