संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|ब्रह्मकाण्डः (मोक्षकाण्डः)| अध्यायः १९ ब्रह्मकाण्डः (मोक्षकाण्डः) अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ ब्रह्मकाण्डः - अध्यायः १९ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः १९ Translation - भाषांतर गरुड उवाच ।त्वयोक्तं कृष्ण गोविन्द रुद्राच्छतगुणादपि ।ब्रह्माणी भारती चोभे अधिके देवसत्तम ॥१॥मया श्रुतं विरिञ्चेन उमापर्यन्तमेव च ।अनन्तांशैर्विहीनत्वं विरिञ्चोक्तं सुराधिप ॥२॥सहस्रांशैर्विहीनत्वं त्वयोक्तं कृष्ण माधव ।सर्वेषां चैव पूर्वेषामवेक्ष्यैव हरे विभो ॥३॥ज्ञानानन्दबलादीनां वायुपर्यन्तमेव च ।सहस्रांशैर्विहीनत्वं ज्ञानादीनां महेश्वर ॥४॥निर्णयं ब्रृहि गोविन्द सर्वज्ञोसि न संशयः ।गरुडेनैवमुक्तस्तु वासुदेवोब्रवीद्ध्रुवम् ॥५॥श्रीकृष्ण उवाच ।आनन्दांशैर्विहीनत्वमपेक्ष्यैव खगाधिप ।उत्तरेषामुत्तरेषां योगादेवमिति स्फुटम् ॥६॥परिमाणे शतगुणे आनन्दे स्फुटतावशात् ।अनन्तगुणवत्त्वं च ब्रह्मणा समुदीरितम् ॥७॥सहस्रगुणितत्वं च वायुना समुदीरितम् ।यथानन्दे तथा ज्ञाने विष्णौ भक्तौ बलाधिके ॥८॥सर्वे गुणैः शतगुणाः क्रमेणोक्ता नु तेऽखिलाः ।भारत्याश्च शतं ज्ञानं सुखं भक्तिबलाधिके ॥९॥एवं ज्ञानं सुविज्ञेयं मारुतेस्तु बलादिकम् ।एवं ज्ञानं शतं ज्ञेयं मारुते नात्र संशयः ॥१०॥भारत्याश्च शतं ज्ञानं बलं च समुदाहृतम् ।एवमेव च वायोश्च ज्ञानं चैवमिति स्फुटम् ॥११॥यथा दीपाच्छतगुणा अग्निज्वाला न दीपवत् ।स्फुटीभवेद्यथैवाग्निर्बहुलोपि न सूर्यवत् ॥१२॥यथैव सूर्याद्द्विगुणश्चन्द्रो नैव स्फुटीभवेत् ।आनन्दतारतम्यं च यथोक्तं तु मया तव ॥१३॥तथैव जानीहि खग नान्यथा तु कथञ्चन ।अहं विजानामि मयि स्थितान् गुणान्सर्वैर्विशेषैश्च खगेन्द्र संयुतान् ॥१४॥सुसूक्ष्मरूपांश्च सदा खगेन्द्र मयाप्यदृष्टो नास्ति नास्त्येव कश्चित् ॥१५॥सर्वावतारेष्वपि विद्यमानं हरिं विजानाति रमापि देवी ॥१६॥हरेर्गुणान्सर्वविशेषसंयुतानखण्डरूपान्सा विजानाति देवी ।सुसूक्ष्मरूपान्सा विजानाति देवी ब्रह्मादिभ्यो मत्प्रसादाधिकं च ॥१७॥स्वात्मस्वरूपं प्रविजानाति देवी सुसूक्ष्मरूपं सुविशेषैश्च युक्तम् ।स्वान्यं प्रपञ्चं प्रविजानाति लक्ष्मीस्तथाप्यशेषैः सुविशेषैश्च युक्तम् ॥१८॥ब्रह्मापि पश्येत्सर्वगं वासुदेवं वाय्वादिभ्यो ह्यधिकान्सद्गुणांश्च ।श्रोत्रं न जानाति हरेर्गुणांश्च सुसूक्ष्मरूपांश्च विशेषसंयुतान् ॥१९॥स्पष्टस्वरूपेण यथा विदुः सुरा मुक्त्वा ब्रह्माणं न तथा तेप्यमुक्ताः ।स्वात्मानमन्यच्च सदा विशेषर्युक्तं विजानाति विधिश्च मारुतः ॥२०॥वाणी विजानाति हरेर्गुणांश्च स्वयंभुवो नैव तावद्विशेषान् ।त्रैगुण्यरूपात्परतः सदैव पश्येद्विष्णुं कृष्णरूपं खगेन्द्र ॥२१॥शेषो रुद्रो वीन्द्र एतैश्च सर्वे तमो मात्रे प्रविजानन्ति संस्थम् ।वाणीदृष्टान्सविशेषान् गुणांस्ते जानन्ति नो सत्यमेवोक्तमङ्ग ॥२२॥उमा सुपर्णा वारुणी चेति तिस्रः सहैव तः प्रविजानन्ति सुस्थम् ।हरेर्विशेषानरुद्र दृष्टान्खगेन्द्र जानन्ति नैताः क्वापि देशे च काले ॥२३॥इन्द्रादयः प्रविजानन्ति वीन्द्र अहङ्कारे व्याप्तरूपं हरिं च ।दक्षाद्या वै बुद्धितत्त्वे स्थितं तं जानन्ति ते सोमसूर्यादयश्च ॥२४॥विष्णुं हरिं भूततत्त्वे स्थितं च ये चान्ये च प्रविजानन्ति नित्यम् ।अन्ये च पश्यन्ति यथा स्वयोग्यमण्डान्तरस्थं हरिरूपं खगेन्द्र ॥२५॥केचित्प्रपश्यन्ति हरेश्च रूपं त्वदीयहृत्स्थं हृदि केचित्सदैव ।एवंप्रकारं प्रविजानीहि वीन्द्र ह्यथो शृणु त्वंमम भार्याः षडेताः ॥२६॥रुक्मिण्याद्याः षण्महिष्यो ममश्रीर्नीला च या मम भार्या खगेन्द्र ।सर्गे पूर्वस्मिन्हव्यवाहस्य पुत्री तास्ता भजे सद्य एवा विशेषात् ॥२७॥कन्यैव सा कृष्णपत्नी च कामांस्तांस्तान् भजेन्मनसा चिन्तितांश्च ।अतीव यत्नं कव्यवाहं खगेन्द्र पितृष्वेकः सर्वदा वै चकार ॥२८॥तथैव सा नैव भर्तारमाप यतस्तु सा कृष्णनिष्ठैकचित्ता ॥२९॥तदाब्रवीत्कव्यवाहश्च पुत्ररिं पतिं किमर्थं नेच्छसि मूढबुद्धे ।तदाब्रवीत्कव्यवाहं च पुत्त्री हरिं विना सर्वगुणोपपन्ने ।जन्मन्यस्मिन् भर्तृता नास्ति देव यतो भर्ता हरिरवैक एव ॥३०॥यतो लोके सुस्त्रियः सर्व एव संदा ज्ञेया विधवास्ते हि नित्यम् ।अनादि नित्यं भुवनैकसारं सुसुंदरं मोक्षदं कामदं च ॥३१॥एतादृशं न विजानन्ति यास्तु सर्वास्ता वै विधवाः सर्वदैव ।निमित्तभूतं भर्तृरूपं च जीवं दैवोपेतं हरिभक्त्या विहीनम् ॥३२॥सुकश्मलं नवरन्ध्रैः स्त्रवन्तं दुर्गन्धयुक्तं सर्वदा कुत्सितं च ।एताः दृशे भर्तृजीवे नु तात प्रयोजनं नास्ति कृष्णं विहाय ॥३३॥देवस्त्रियो निजभर्तॄन्विहायु तत्र स्थितं प्रीणयन्त्येव नित्यम् ।अतश्च ताः सधवाः सर्वदैव लोकैर्वन्द्या नात्र विचार्यमस्ति ॥३४॥भर्तास्ते हरिभक्ता यदि स्युरासां स्त्रीणां जन्मसाफल्यमेव ।अनेकजन्मार्जितपुण्यसंचयैस्तद्भर्तारो हरिभक्ता भवेयुः ॥३५॥यद्भर्तारो हरिभक्ता न संति ताभिस्त्याज्यं स्वीयगात्रं भृशं हि ।स्वभर्तृतं कृष्णरूपं हरिं च स्मृत्वा सम्यग्यदि गात्रं त्यजेयुः ॥३६॥तदा नैव ह्यात्महत्यादिदोषाः स्त्रीणामेवं निर्णयोयं हि शास्त्रे ।यद्भर्तारो न विजानन्ति विष्णुं तासां संगो नैव कार्यः कदापि ॥३७॥अनेक जन्मार्जितपुण्यसंचयात्तद्भर्तारो विष्णुभक्ता भवेयुः ।कलौ युगे दुर्लभा विष्णुभक्ता हरेभक्तिर्दुर्लभा सर्वदैव ॥३८॥हरेः कथा दुर्लभा मर्त्यलोके हरेर्दीक्षा दुर्लभा दुर्लभा च ।हरेस्तत्त्वे निर्णयो दुर्लभो हि हरेर्दासैः संगमो दुर्लभश्च ॥३९॥प्रदक्षिणं दुर्लभं वै मुरारेर्नमस्कारो दुर्लभो वै कलौ च ।तद्भक्तानां पालनं दुर्लभं च सद्वैष्णवानां दुर्लभं ह्यन्नदानम् ॥४०॥तन्त्रोक्तपूजा दुर्लभा वै मुरारेर्नामग्रहो दुर्लभश्चव विष्णोः ।सुवैष्णवानां पुजनं दुर्लभं हि सद्वैष्णवानां भाषणं दुर्लभं च ॥४१॥शालग्रामस्पर्शनं दुर्लभं च सद्वैष्णवानां दर्शनं दुर्लभं हि ।गोस्पर्शनं दुर्लभं मर्त्यलोके सद्गायनं दुर्लभं सद्गुरुञ्च ॥४२॥सद्भार्याः सत्पुत्रका दुर्लभा हि शेषाचलस्थस्य हरेश्च दर्शनम् ।सुदुर्लभं रङ्गनाथस्य तीरे कावेर्या वै दर्शनं विष्णुपद्याः ॥४३॥काञ्चीक्षेत्रे वरदराजस्य सेवा सुदुर्लभा दर्शनं चैव लोके ।सुदुर्लभं दर्शनं रामसेतोः सुदुर्लभा मध्वशास्त्रे च शक्तिः ॥४४॥भीमातीरे संस्थितस्यापि विष्णोः सुदुर्लभं दर्शनं चाहुरार्याः ।रेवातीरे संस्थितस्यापि विष्णोर्गयाक्षेत्रे विष्णुपादस्य चैव ॥४५॥तथा बद्रौ संस्थित स्यापि विष्णोः सुदुर्लभं मर्त्यलोके स्थितानाम् ।शेषाचले श्रीनिवासाश्रमे च तपस्विनो दुर्लभा मर्त्यलोके ॥४६॥प्रयागाख्ये माधवस्यापि नित्यं सुदर्शनं दुर्लभं वै नृणां हि ॥४७॥अतो नेच्छामि भर्तारं कृष्णादन्यं कदाचन ।एवमुक्त्वा सा पितरं ययौ शेषाचलं प्रति ॥४८॥कपिलाख्यमहातीर्थे आरुरोह महागिरिम् ।तत्रस्थं श्रीनिवासं च दृष्ट्वा नत्वा महासती ॥४९॥त्रिदिनं समुपोष्याथ गत्वा पापविनाशनम् ।तत्रस्नात्वा विवाहार्थमेकान्तं प्रययावथ ॥५०॥तस्या उत्तरदिग्भागे क्रोशयुग्मे महातले ।गर्तभूते च एकान्ते चचार तप उत्तमम् ॥५१॥ध्यात्वा नारायणं देवं तत्रासीच्च कुमारिका ।दिव्यवर्षसहस्रान्ते स्तोतुं समुपचक्रमे ॥५२॥कुमार्युवाच ।त्वमेव माता च पिता त्वमेव भर्ता च सखात्वमेव ।त्वमेव पुत्रश्च गुरुर्गरीयान्मित्रं स्वसा त्वं मम वल्लभश्च ॥५३॥अनाद्यनन्तेष्वपि जन्मसु प्रभो विचार्यमाणा न विजानेप्यहं च ।एतै हि सर्वे च निमित्तमात्रतः पित्रादयस्त्वं ह्यनिमित्तमात्रतः ॥५४॥अतो मुरारेश्च तवैव भार्या भूयासमित्येव तदा व्रतं मे ।दुः संगमात्रादिसमागमं न संसिद्धिरित्येव वदान्यमूर्ते ॥५५॥त्वद्दूषकाणां तव दासवर्य विदूषकाणां दर्शनं छिन्धि देव ।गुरुद्रुहां दर्शनं छिन्धि विष्णो भक्तद्रुहां मित्रतां छिन्धि कृष्ण ॥५६॥तव ध्रुग्भिर्भाषणं छिन्धि देव त्वं संगमं देहि पदारविन्दे ।श्रीशैलवासाय नमोनमस्ते नमोनमः श्रीनिवासाय तुभ्यम् ॥५७॥स्वामिन् परावर रमेश निदानमूर्ते कालो महानपि गतश्च निदर्शनन्ते ।अनन्तजन्मार्जितसाधनैश्च त्वद्दर्शनं स्याच्च चतुर्भुजस्य ॥५८॥कथं मम स्यात्तव दर्शनं प्रभो सर्वैश्च दोषैश्च सुसंगतायाः ।दास्यास्पदायास्तव दासदास्याः प्रसीद देवेश जगन्निवास ॥५९॥एवं स्तुतस्तथा विष्णुः श्रीनिवासो दयानिधिः ।प्रादुरासीद्वरदराट्भक्त्या तस्या जनार्दनः ॥६०॥वरं वरय भद्रं ते वरदोहमिहागतः ।हरिणोदीरितं वाक्यं श्रुत्वा प्राह स्मितानना ॥६१॥उवाच परया भक्त्या श्रीनिवासं जगत्प्रभुम् ।अहं हि भार्या भूयासं तव माधव सुंदर ॥६२॥इति तस्या वचः श्रुत्वा श्रीनिवासोऽब्रवीद्वचः ।श्रीभगवानुवाच ।अहं कुमारि सुभगे कृष्णजन्मनि भूतले ॥६३॥भवामि तव भर्ताहं नात्र कार्या विचारणा ।एवमुक्ता सुता कन्या पुरण्यराशिं हरिं परम् ॥६४॥उवाच परमप्रीता हर्षगद्गदया गिरा ।कन्योवाच ।कृष्णजन्मन्यहं पत्नी भूयासं प्रथमेहनि ॥६५॥संस्कारात्प्रथमं चाहमं गनाभ्यः समावृणे ।ओमित्युक्तः पुनर्वाक्यमुवाच मधुसूदनः ॥६६॥श्रीभगवानुवाच ।कुमार्या विधृतत्वाच्च मत्प्रदानाच्च भामिनि ।तेषां मनोभीष्टसिद्धिर्भविष्यति न संशयः ॥६७॥इति तस्यै वरं दत्त्वा तत्रैवान्तरधीयत ।देहं तत्रैव संत्यज्य कुमारी चैव पुत्रिका ॥६८॥कुम्भ कस्य गृहे जाता नीला नाम्ना तु सा स्मृता ।कुंभकस्तु महाभाग नन्दशोभस्य शालकः ॥६९॥कल्पवाहः स विज्ञेयः पितॄणां प्रथमः स्मृतः ।तस्य गत्वा गृहमहं वृषभाचलवासिनः ।शिवस्य वरतश्चैव त्वजेयः खगसत्तम ॥७०॥दितिजान्विनिहत्यैव नीला प्राप्ता खगेश्वर ।ततो नाग्निजितो राज्ञो गृहे जाता कुमारिका ॥७१॥नाग्निजित्कव्यवाहोभूत्कन्या नीलाह्वयाभवत् ।तस्याः स्वयंवरे चाहं गोवृषान्सप्तसंख्यकान् ॥७२॥शिवस्य वरतश्चैवाप्यवध्यान्देवमानुषैः ।बद्ध्वा वृषान्नृपाञ्जित्वा प्राप्ता नीला महाखग ॥७३॥कुंभकस्य सुता नीला देहस्थाः प्राविशन् भृशम् ।एकावयवतो यस्मात्तस्मात्तत्रैव साविशत् ॥७४॥भूमौ द्विधा संप्रजाता कुमार्येव न संशयः ।भद्राजन्म प्रवक्ष्यामि शृणु पक्षीन्द्रसत्तम ॥७५॥इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे नीलाविवाहनिर्णयो नामैकोनविंशोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP