संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|ब्रह्मकाण्डः (मोक्षकाण्डः)| अध्यायः १७ ब्रह्मकाण्डः (मोक्षकाण्डः) अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ ब्रह्मकाण्डः - अध्यायः १७ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः १७ Translation - भाषांतर गरुड उवाच ।चतुर्जन्मसु वै कृष्ण शच्याद्यैः सह भारती ।एकदेह विशिष्टैव भुवि जातेति चोक्तवान् ॥१॥कारणं ब्रूहि मे ब्रह्मन् शिष्याय तव सुव्रत ।गरुडेनैवमुक्तस्तमुवाच मधुसूदनः ॥२॥श्रीकृष्ण उवाच ।विशिष्टदेहसं प्राप्तौ भारत्याः पक्षिसत्तम ।वक्ष्यामि कारणं वीन्द्र सावधानमनाः शृणु ॥३॥पुरा कृतयुगे वीन्द्र रुद्रभार्या च पार्वती ।इन्द्रभार्या शची देवी यम भार्याच शामला ॥४॥अश्विभार्या उषा देवी भर्तृभिः सहिता खग ।ब्रह्मलोकं ययुस्तत्र ब्रह्माणं ददृशुस्तदा ॥५॥हावं भावं विलासं च दर्शयामासुरञ्जसा ।दृष्ट्वा ता उद्धता ब्रह्मा शशाप खगसत्तम ॥६॥उद्धताश्च यतो यूयं मानुषीं योनिमाप्स्यथ ।तत्र स्वभर्तृसंयोगमवाप्स्यथ खगेश्वर ॥७॥एवं शप्तास्तु ताः सर्वा आजग्मुर्मेरुपर्वतम् ।तत्रोपविष्टं ब्रह्माणं वञ्चयामासुरञ्जसा ॥८॥तूष्णीमेव स्थिते वीन्द्र वञ्चयन्त्यः स्थिताः पुनः ।ततस्तूष्णीं स्थितं वीन्द्र वञ्चयामासुरञ्जसा ॥९॥त्रिवारानन्तरं ब्रह्मा शप्तवांस्ता महाप्रभुः ।त्रिवारं वञ्चनं यस्मादेकवारं च दर्शनम् ॥१०॥किं चाश्रुत्वातः पश्चाच्चतुर्जन्मसु भूतले ।एकदेहान्मानुषत्वं भविष्यति न संशयः ॥११॥द्वितीये जन्मनि तथा अन्यगात्वमवाप्स्यथ ।तृतीये जन्मनि तथा भर्तृसंयोग माप्स्यथ ॥१२॥जन्मन्याद्ये चतुर्थे च नान्यगात्वमवाप्स्यथ ।तथा स्वभर्तृसंयोगं नावाप्स्यथ च सर्वशः ॥१३॥एवं शप्तास्तु ताः सर्वा ब्रह्मणा पक्षिसत्तम ।तदा विचारयामासुर्मिलित्वा मेरुमूर्धनि ॥१४॥ब्रह्मशापस्त्वनिर्वाय उपायैः शतशोपि च ।नीचैः समागमो निन्द्यस्तथैव च विपत्तिदः ॥१५॥उत्तमेन च संगेन दैवेनाप्यर्थदो भवेत् ।देवानामुत्तमो वायुस्तदर्थं संगमाचरेत् ॥१६॥विचार्यैवमुमाद्या भारत्याः सेवां तु चक्रिरे ।सहस्रवत्सरान्ते सा भारती तोषिताब्रवीत् ॥१७॥मत्सेवां च किमर्थं वै ह्याचरिष्यन्ति सुव्रताः ।तस्यां रक्ताश्च ता देव्यस्त्वब्रुवन्स्वचिकीर्षितम् ॥१८॥पुरा वयं तु शप्ताः स्म ब्रह्मणा क्रोधरूपिणा ।एकदेहान्मानुषत्वमवाप्स्यथ वराङ्गनाः ॥१९॥चतुर्थजन्मन्यप्येवं द्वितीये जन्मनि प्रभो ।समाप्स्यथान्यगात्वं चेत्येवं शप्ता ह भामिनि ॥२०॥अस्माकं वायुना देवेनान्यगात्वं न दोषभाक् ।अतस्त्वयैकदेहत्वमिच्छामो देवि जन्मसु ॥२१॥हत्युक्ता ताभिरथ च तथैत्युक्त्वा द्विजोत्तम ।सा पार्वत्यादिभिर्युक्ता भारतीत्यभवद्भुवि ॥२२॥शिवनाम्नो द्विजस्यैव गृहे सा तु कुमारिका ।कर्मैक्यार्थं तपश्चक्रेः विष्णोश्च शिवसंज्ञिनः ॥२३॥तपसा तोषिता विष्णुः शिव संज्ञो महाप्रभुः ।वरं प्रादात्तृतीयेस्मिन्कृष्णजन्मनि भो स्त्रियः ॥२४॥सम्यक्त्वभर्तृसंयोगो भविष्यति विना भवम् ।यतोनया च पार्वत्या प्रेरिता एव सर्वशः ॥२५॥विलासं दर्शयामास ब्रह्मणः परमेष्ठिनः ।अतः सा पार्वाती श्रेष्ठा ब्रह्मदेहे न संशयः ॥२६॥कृष्णदेहेपि तस्यास्तु न भविष्यति संगमः ।अन्यगात्वं द्वितीयेस्मिन्भविष्यति न संशयः ॥२७॥रुद्रान्तः स्थो हरिश्चैव वहं दत्त्वा स्त्रियां प्रभुः ।अन्तर्धानं ययौ श्रीमान्स्वलोकं गतवानभूत् ॥२८॥विसृज्य ताश्च तं देहं बभूवुर्नलकन्यकाः ।इन्द्रसेनेति संज्ञां च लब्ध्वा ताश्च तपोवनम् ॥२९॥ययुस्तत्र चरन्त्यस्ता ददृशुर्मुद्गलं त्वृषिम् ।तस्य दर्शनमात्रेण बभूवुः काममोहिताः ॥३०॥मुद्गलस्याभिमानं हि नाशयित्वा च मारुतः ।रमयामास तत्रस्था भारत्यादिवराङ्गनाः ॥३१॥तद्देहेन विसृष्टा सा बभूव द्रौपदीति च ।यस्मात्सा द्रुपदाज्जाता तस्मात्सा द्रौपदी स्मृता ॥३२॥वेदिमध्यात्समुद्भूता तस्मात्सायोनिजा स्मृता ।कृष्णवर्णा यतस्तस्मात्सा कृष्णा भूतले स्मृता ॥३३॥कृष्णादेहपि भारत्या अभिमानः सदा स्मृतः ।शच्यादेरभिमानस्तु तस्मिन्देहे कदाचन ॥३४॥यस्याः स्वभर्तृसंयोगकाले च खगसत्तम ।अभिमानस्तदैव स्यात्तस्या एव न चान्यथा ॥३५॥एतासां रमणे काले उमायाः पक्षिसत्तम ।अभिमानश्च नास्त्येव स्वाप एव रताः सदा ॥३६॥पार्थस्य रमणे काले द्रौपद्याश्च कलेवरे ।भारत्याश्च तथा शच्या अभिमानद्वयं स्मृतम् ॥३७॥उमादेः श्याम लादेश्च अभिमानक्षतिस्तदा ।सर्वासां स्वाप एव स्यान्नात्र कार्या विचारणा ॥३८॥अर्जुनं वीररूपेण प्रविष्टो वायुरेव च ।भारतीं रमते नित्यं शामलां च युधिष्ठिरः ॥३९॥सुंदरेण च रूपेण प्रविष्टो नकुले मरुत् ।रमते भारतीं नित्यं नकुलश्चाप्युषां खग ॥४०॥नीतिरूपेण चाविष्टो सहदेवे च मारुतः ।द्रौपदीं रमते नित्यं सहदेवोत्पयुषां खग ॥४१॥शच्याद्या द्रौपदीदेहे नापुः संगं च मारुतः ।तासामतोन्यगामित्वं कृष्णादेहे न चिन्तयेत् ॥४२॥धर्मादिदेहसंगं च भारत्या नैव चिन्तयेत् ।मनुजस्य च देहस्य तासां संगं चिन्तयेत् ॥४३॥अपरोक्षवतीनां तु तासां लेपो न सर्वथा ।अथवा मुद्गलस्येव रतिकाले खगेश्वर ॥४४॥रमणं चक्रुरेवं ता अतो दोषो न विद्यते ।एकस्मिन्दिवसे वीन्द्र धर्मो वायुश्च तावुभौ ॥४५॥रमणं चक्रतुः सम्यक्कृष्णादेहेऽपि मानद ।तथाप्यनन्यागामित्वं चिन्तनीयं न संशयः ॥४६॥सुराणां सुरभोग्याश्च भोगं जानन्ति देवताः ।न जानन्त्येव मर्त्यांस्तु तेषु देहेषु ते पुनः ॥४७॥नीरक्षीरविविकं च हंसो वेत्ति न चापरः ।अतः स्वभर्तृसंयोगं कृष्णादेहेन चिन्तयेत्कृष्णादेहेन्यगामित्वं नैव चिन्त्यं खगेश्वर ॥४८॥इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे भारत्या विशिष्टदेह संप्राप्त्यै कारणनिरूपणं नाम सप्तदशोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP