ब्रह्मकाण्डः - अध्यायः ९

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


श्रीगरुड उवाच ।
अजानजस्वरूपं च ब्रूहि कृष्ण महामते ।
तदन्यांश्च क्रमेणेव वक्तुं कृष्ण त्वमर्हसि ॥१॥

श्रीकृष्ण उवाच ।
अजानाख्या देवतास्तु तत्तद्देवकुले भवाः ।
अजानदेवतास्ता हि तेभ्योग्याः कर्मदेवताः ॥२॥

विराधश्चारुदेष्णश्च तथा चित्ररथस्तथा ।
धृतराष्ट्रः किशोरश्च हूहूर्हाहास्तथैव च ॥३॥

विद्याधरश्चोग्रसेनो विश्वावसुपरावसू ।
चित्रसेनश्च गोपालो बलः पञ्चदश स्मृताः ॥४॥

एवमाद्यश्च गन्धर्वाः शतसंख्याः खगेश्वर ।
अजानजसमा ज्ञेया मुक्तौ संसार एव च ॥५॥

अज्ञानजास्तु मे देवाः कर्मजेभ्यः शतावराः ।
घृताची मेनका रंभा उर्वशी च तिलोत्तमा ॥६॥

सुकेतुः शबरी चैव मञ्जुघोषा च पिङ्गला ।
इत्यादिकं यक्षरत्नं सह संपरिकीर्तितम् ॥७॥

अजानजसमा ह्येते कर्मजेभ्यः शतावराः ।
विश्वामित्रो वसिष्ठश्च नारदश्च्यवनस्तथा ॥८॥

उतथ्यश्च मुनिश्चैतान्द्राजपित्वा खगेश्वर ।
ऋषयश्च महात्मानो ह्यजानजसमाः स्मृताः ॥९॥

शतर्चिः कश्यपो ज्ञेयो मध्यमश्च पराशरः ।
पावमान्यः प्रगाथश्च क्षुद्रसूक्तश्च देवलः ॥१०॥

गृत्समदो ह्यासुरिश्च भरद्वाजोथ मुद्गलः ।
उद्दालको ह्यृ शृङ्गः शङ्खः सत्यव्रतस्तथा ॥११॥

सुयज्ञश्चैव बाभ्रव्यो माण्डूकश्चैव बाष्कलः ।
धर्माचार्यस्तथागस्त्यो दाल्भ्यो दार्ढ्यच्युतस्तथा ॥१२॥

कवषो हरितः कण्वो विरूपो मुसलस्तथा ।
विष्णुवृद्धश्च आत्रेयः श्रीवत्सो वत्सलेत्यपि ॥१३॥

भार्गवश्चाप्नवानश्च माण्डूकेयस्तथैव ।
मण्ड्कश्चैव जाबचलिः वीतिहव्यस्तथैव च ॥१४॥

गृत्समदः शौनकश्च इत्याद्या ऋषयः स्मृताः ।
एतेषां श्रवणादेव हरिः प्रीणाति सर्वदा ॥१५॥

ब्रुवे द्व्यष्टसहस्रं च शृणु तार्क्ष्य मम स्त्रियः ।
अग्निपुत्रास्तु यद्द्व्यष्टसहस्रञ्च मम स्त्रियः ।
अजानजसमा ह्येता (ते) नात्र कार्या विचारणा ॥१६॥

त्वष्टुः पुत्री कशेरूश्च तासां मध्ये गुणाधिका ।
तदनन्तरजान्वक्ष्ये शृणु सम्यक्खगेश्वर ॥१७॥

आजानेभ्यस्तु पितरः सप्तभ्योन्ये शतावराः ।
तथाधिका हि पितर इति वेदविदां मतम् ॥१८॥

तदनन्तराजान्वक्ष्ये शृणु त्वं द्विजसत्तम ।
अष्टाभ्यो देवगन्धर्वा अष्टोत्तरशतं विना ॥१९॥

तेभ्यः शतगुणानन्दा देवप्रेष्यास्तु मुख्यतः ।
स्वमुकेनेव देवैश्च आज्ञाप्याः सर्वदा गणाः ॥२०॥

आख्याता देवगन्धर्वास्तेभ्यस्ते च शतावराः ।
तेभ्यस्तु क्षितिपा ज्ञेया अवराश्च शतैर्गुणैः ॥२१॥

तेभ्यः शतगुणाज्ञेया मानुषेषूत्तमा गणाः ।
एवं प्रासंगिकानुक्त्वा प्रकृतं ह्यनुसराम्यहम् ।
एवं ब्रह्मादयो देवा लक्ष्म्याद्या अपि सर्वशः ॥२२॥

स्तुत्वा तूष्णीं स्थिताः सर्वे प्राञ्जलीकृत्य भो द्विज ॥२३॥

इति स्तुतश्च देवेशो भगवान् हरिरव्ययः ।
तेषामायतनं दातुं मनसा समचिन्तयत् ॥२४॥

इदं पवित्रमारोग्यं पुण्यं पापप्रणाशनम् ।
हरिप्रसादजनकं स्वरूपसुखसाधनम् ॥२५॥

इदं तु स्तवनं विप्रा न पठन्तीह मानवाः ।
न शृण्वन्ति च ये नित्यं ते सर्वे चैव मायिनः ॥२६॥

नस्मरन्तोन्तरं नित्यं ये भुञ्जन्ति नराधमाः ।
तैर्भुक्ता सततं विष्ठा सदा क्रिमिशतैर्युता ॥२७॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे कृष्णगरुडसंवादे देवादिस्तुतितत्तत्तारतम्यनिरूपणं नाम नवमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP