संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|उच्चावचप्रवाहवीचयः| सुभाषित २३०१ - २३२० उच्चावचप्रवाहवीचयः उच्चावचप्रवाहवीचयः सुभाषित २००१ - २०२० सुभाषित २०२१ - २०४० सुभाषित २०४१ - २०६० सुभाषित २०६१ - २०८० सुभाषित २०८१ - २१०० सुभाषित २१०१ - २१२० सुभाषित २१२१ - २१४० सुभाषित २१४१ - २१६० सुभाषित २१६१ - २१८० सुभाषित २१८१ - २२०० सुभाषित २२०१ - २२२० सुभाषित २२२१ - २२४० सुभाषित २२४१ - २२६० सुभाषित २२६१ - २२८० सुभाषित २२८१ - २३०० सुभाषित २३०१ - २३२० सुभाषित २३२१ - २३४० सुभाषित २३४१ - २३६० सुभाषित २३६१ - २३८० उच्चावचप्रवाहवीचयः - सुभाषित २३०१ - २३२० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित २३०१ - २३२० Translation - भाषांतर ६१. कृतार्थशान्तःकान्तायाः करजैः कपोलफलके पत्रावली कल्पिताकेलिद्यूतपणीकृतो विहरता पीतः स बिम्बाधरः ।स्वेदार्द्रीकृतचन्दनस्तनतटी सानन्दमालिङ्गितानिर्विष्टा विषयाः शिवात्ममहसि न्यस्तं मनः संप्रति ॥२३०१॥ मुञ्जस्य ।यल्लीलाकमलाहतौ प्रमुदितं यन्मन्मथस्यास्पदंयत्कान्ताप्रणयापराधकलहे पर्याप्तकौतूहलम् ।यत्प्रेमार्दवधूविलासतुलितभ्रूलास्यबद्धस्पृहंतच्चेतः स्मरवैरिभग्नसदनप्रान्ते स्थितीर्वाञ्छति ॥२३०२॥तस्यैव ।जितेयं दोर्दर्पाज्जलधिपरिवेशा वसुमतीशिरः क्षौणीन्द्राणां निजचरणपीठे विलुठितम् ।कृतं दत्तं भुक्तं कृतमपि कुले यत्समुचितंकृतार्थं तीर्थेषु भ्रमणमधुना वाञ्छति मनः ॥२३०३॥उमापतिधरस्य ।अभ्यस्ताः स्फुटमेव शास्त्रगतयः सम्यक्कवित्वोदधेः पारं चाधिगतं सतां परिषदि प्राप्तः प्रतिष्ठोदयः ।निर्विण्णस्य ममाधुना ननु परः पन्था न दैन्यं विना नेतुं वाञ्छति वासना सुरधुनीतीरेऽनुरूपं वयः ॥२३०४॥ वासुदेवस्य ।कीर्तिर्लब्धा सदसि विदुषां शीलिताः क्षोणिपालावाक्सन्दर्भाः कतिचिदमृतस्यन्दिनो निर्मिताश्च ।तीरे सम्प्रत्यमरसरितः क्वापि शैलोपकण्ठेब्रह्माभ्यासप्रवणमनसा नेतुमीहे दिनानि ॥२३०५॥धोयीकस्य । (पवनदूत १०४)६२. शान्तः सूक्तिं कर्णसुधां व्यनक्तु सुजनस्तस्मै न मोदामहेब्रूतां वाचमसूयको विषमुचं तस्मै न खिद्यामहे ।या यस्य प्रकृतिः स तां वितनुतां किं नस्तया चिन्तया कुर्मस्तत्खलु कर्म जन्मनिगडच्छेदाय यज्जायते ॥२३०६॥भर्तृहरेः । (Sस्१.२२)यदासौ दुर्वारः प्रसरति मदश्चित्तकरिणस्तदा तस्योद्दामप्रसररसरूढैर्व्यवसितैः ।क्व तद्धैर्यालानं क्व च निजकुलाचारनिगडःक्व सा लज्जारज्जुः क्व विनयकठोराङ्कुशमपि ॥२३०७॥भर्तृहरेः । (Sस्१.२२)सज्जन्मापि हि निष्फलं श्रुतमपि व्यर्थं गुणाः किं कृतेहा धिक्कष्टमनर्थकं गतमिदं निःशेषमस्मद्वयः ।मार्गः कोऽपि निरत्ययं न वहति व्याघातबद्धग्रहोधर्मार्थादिचतुष्पथे निवसति क्रूरो विधिर्गौल्मिकः ॥२३०८॥महाव्रतस्य ।महाशय्या भूमिर्मसृणमुपधानं भुजलतावितानं चाकाशं व्यजनमनुकूलोऽयमनिलः ।स्फुरद्दीपश्चन्द्रः सुरभिवनितासङ्गमुदितःसुखं शान्तः शेते ननु च भवभीतो नृप इव ॥२३०९॥भवभीतस्य । (Sस्४.८)अवश्यं यातारश्चिरतरमुषित्वापि विषया वियोगे को भेदस्त्यजति न जनो यत्स्वममून।व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥२३१०॥ हरेः । (Sस्३.३, स्व३३८६, सु.र. १६१७, VऐS १५७)६३. निष्क्रमःपूर्वं तावत्कुवलयदृशां लोललोलैरपाङ्गैर्आकर्षद्भिः किमपि हृदयं पूजिता यौवनश्रीः ।संप्रत्यन्तर्निहितसदसद्भावलब्धप्रबोधप्रत्याहारापहृतहृदयो वर्तते कोऽपि भावः ॥२३११॥कस्यचित। (Sस्४.१६)इयं बाला मां प्रत्यनवरतमिन्दीवरदलप्रभाचौरं चक्षुः क्षिपति किमभिप्रेतमनया ।गतो मोहोऽस्माकं स्मरसमरबाणव्यतिकरज्वरज्वाला शान्ता तदपि न वराकी विरमति ॥२३१२॥ ज्ञानशिवस्य । (सु.र. १६२०)यदासीदज्ञानं स्मरतिमिरसंस्कारजनितंतदा दृष्टं नारीमयमिदमशेषं जगदपि ।इदानीमस्माकं पटुतरविवेकाञ्जनजुषांसमीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥२३१३॥कस्यचित। (Sस्४.१४, स.क.आ. ५.११५; सु.र. १६११)किमस्मान्वामाक्षि स्मरविजययात्राभ्युदयिकैर्वृथा शान्तान्लाज्जैरिव हसितलेशैः स्नपयसि ।इदानीं गोलोम्ना शुचिनि तनुकालावुजठरेपतद्भैक्ष्याहारे वलति हि परं लाञ्छिनि मनः ॥२३१४॥जलोकस्य ।गतः कालो यत्र प्रणयिनि मयि प्रेमकुटिलःकटाक्षः कालिन्दीलघुलहरिवृत्तिः प्रभवति ।इदानीमस्माकं जरठकमठीपृष्ठकठिनामोनोवृत्तिस्तत्किं व्यसनिनि मुधैव क्षपयसि ॥२३१५॥वल्लणस्य । (Sस्४.१३, सूक्तिमुक्तावलि १३१.३३, सु.र. १५९९)६४. निःस्पृहःवासो वल्कलमास्तरः किसलयान्योकस्तरूणां तलंमूलानि क्षतये क्षुधां गिरिनदीतोयं तृषाशान्तये ।क्रीडा मुग्धमृगैर्वयांसि सुहृदो नक्तं प्रदीपः शशीस्वाधीनेऽपि धने तथापि कृपणा याचन्त इत्यद्भुतम् ॥२३१६॥कस्यचित। (सु.र. १५९८, Sस्२.२०)नीताः पुण्याग्निगेहे शिशिररजनयः स्तोमसत्रे निदाघंशीर्णे कुग्रामदेवीपरिसरसदने वासराः प्रावृषेण्याः ।दृष्टं व्याभुग्नभीमभ्रुकुटि च वदनं सम्पदा गर्वितानांतत्त्वं तृष्णे कृतार्थीभव कुरु विरतिं मुञ्च नः साधु यामः ॥२३१७॥योगेश्वरस्य ।निजं कर्म क्षीणं स खलु विपरीतो हतविधिःसुकृत्ये वा तत्त्वे भृशमुपगता यत्ननिचयाः ।इदानीमस्माकं स्फुरदुरुजराजर्जरमिदंवपुर्जातं तृष्णे विरम विरमेत्यञ्जलिशतम् ॥२३१८॥गोसोकस्य ।वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्यासम इह परितोषो निर्विशेषो विशेषः ।स तु भवतु दरिद्रो यस्य तृष्णा विशालामनसि च परितुष्टे कोऽर्थवान्को दरिद्रः ॥२३१९॥कृष्णमिश्रस्य । (स्व३४७५, शा.प. ३०८, द.रू.. उन्देर्४.२, VऐS १७७)मातर्लक्ष्मि भजस्व कंचिदपरं मत्काङ्क्षिणां मा स्म भूर्भोगेभ्यः स्पृहयालवस्तव वशाः का निःस्पृहाणामसि ।सद्यःस्यूतपलाशपत्रपुटिकापात्रे पवित्रीकृतैर्भिक्षासक्तुभिरेव सम्प्रति वयं काश्यां समीहामहे ॥२३२०॥लक्ष्मीधरस्य । (Sस्४.११, सु.र. १६१२) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP