संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|उच्चावचप्रवाहवीचयः| सुभाषित २१६१ - २१८० उच्चावचप्रवाहवीचयः उच्चावचप्रवाहवीचयः सुभाषित २००१ - २०२० सुभाषित २०२१ - २०४० सुभाषित २०४१ - २०६० सुभाषित २०६१ - २०८० सुभाषित २०८१ - २१०० सुभाषित २१०१ - २१२० सुभाषित २१२१ - २१४० सुभाषित २१४१ - २१६० सुभाषित २१६१ - २१८० सुभाषित २१८१ - २२०० सुभाषित २२०१ - २२२० सुभाषित २२२१ - २२४० सुभाषित २२४१ - २२६० सुभाषित २२६१ - २२८० सुभाषित २२८१ - २३०० सुभाषित २३०१ - २३२० सुभाषित २३२१ - २३४० सुभाषित २३४१ - २३६० सुभाषित २३६१ - २३८० उच्चावचप्रवाहवीचयः - सुभाषित २१६१ - २१८० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित २१६१ - २१८० Translation - भाषांतर ३३. काव्यमात्सर्यम्वायूद्गारगतिस्ततः परिणतिः सृष्टेरहो कौशलंवायुः श्लोक इहैव सन्ति सकलाः काव्यस्य ते ते गुणाः ।कस्यायं मम हुं तथैव शृणुमः सम्यक्पुनः पठ्यतांजानामि स्फुटतात्र नास्ति भणितं चान्यैः पुराणं पठ ॥२१६१॥कस्यचित।द्राक्षापाकविडम्बिनीमपि गिरं मात्सर्यदाहज्वरान्नाचामन्ति मनागरोचकपराधीनाः कियन्तो जनाः ।आकण्ठं परिपीय सत्कविगवीपीयूषमन्ये पुनर्नो माद्यन्ति यशःशरीरपिशितत्रासाय बद्धस्पृहाः ॥२१६२॥जलचन्द्रस्य ।भ्राम्यन्ति कुतुकावलम्बितमनाः सारखतानाश्रमान्अस्मै वाणि विधेहि दुर्जनमरुस्थानाय दूरे नमः ।न प्राणन्ति यदर्पणादिह गुणाः कामं यशोवल्लयःखिद्यन्ते सरसापि सत्कविरसस्रोतस्वती सीदति ॥२१६३॥तस्यैव ।क्व रसिक रसदा रसालवल्लीक्व च रसकण्टकसङ्कटोयमध्वा ।रचयसि रुचिराणि वाणि मोहाद्इह सुकुमारपदानि हा हतासि ॥२१६४॥रामदासस्य ।ईषन्नासानिकोचः स्वरमुखरसुखप्रेक्षणं हासलेशःस्वाबोधादप्रसादध्वननमसदवद्योक्तिहेलावहेला ।मौनव्यासङ्गवार्तान्तरपररुचिरश्लोकपाठादयस्तेसोढव्याः के कियन्तः शिव शिव कवि ते कुच्छला मत्सराणाम् ॥२१६५॥कविपण्डितश्रीहर्षस्य ॥३४. काव्यचौरःधन्यास्ते भुवनं पुनन्ति कवयो येषामजस्रं गवाम्उद्दामध्वनिपल्लवेन परितः पूता दिशां भित्तयः ।धिक्तान्निःस्वविलासिनः कविखलांल्लोकद्वयद्रोहिणोनित्याकम्पितचेतसः परगवीदोहेन जीवन्ति ये ॥२१६६॥जलचन्द्रस्य ।बद्धो लम्बितचूडमञ्जलिरयं वाणि क्षमस्वामृतंन ब्रूमस्त्वयि देवभावसुलभं न द्योतते तन्महः ।स्याच्चेदीषदपि प्रसह्य रसनाटङ्कैः कथं खण्डशश्छिन्दन्तो भवतीं कवीन्द्रघटितां जीवन्त्यमी दस्यवः ॥२१६७॥वैद्यगदाधरस्य ।निःशङ्कं हर काञ्चनान्यनिभृतं दारान्गुरोः शीलयस्वच्छन्दं पिब वारुणीं जहि निरातङ्कं द्विजानां कुलम् ।तैस्तैः पातकिभिः समं वस सुखं मा सत्कवीनां कृथाःस्तेयं सूक्तिनिधानसद्मनि दुरुच्छेदं हि तत्किल्बिषम् ॥२१६८॥तस्यैव ।इयं गौरेका नः क्वचिदपि न संयोजनविधावमुष्याः पश्यामो रसभरमुचः कांचिदपराम् ।गले बद्धा दध्मो यदि न धृइतिरुद्दामविधृतौभयं गोचोरेभ्यस्तदिह क उपायः प्रभवतु ॥२१६९॥सेल्हूकस्य ।हृत्कण्ठश्रुतिभूषणानि बहुशो भ्रातः सुवर्णान्यपि स्वान्यस्माभिरुपाहृतानि विपणिस्थानेषु दैन्यान्न किम् ।धिक्कर्माणि तुलैव नास्ति न कषग्रावा न मानक्रमोन क्रेता न परीक्षकः परमभूदुच्चैर्भयं दुर्जनान॥२१७०॥जितारेः ।३५. सज्जनःअञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम् ।अहो सुमनसां वृत्तिर्वामदक्षिणयोः समा ॥२१७१॥गोभटस्य । (सु.र. १२३२, शा.प. १९९)अयं निजः परो वेति गणना लघुचेतसाम् ।उदारचरितानां तु वसुधैव कुटुम्बकम् ॥२१७२॥केशटस्य । (सु.र. १२४१)सुजनो न याति वैरं परहितबुद्धिर्विनाशकालेऽपि ।छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥२१७३॥श्रीव्यासपादानाम् । (स्व२४१, शा.प. २३७, सूक्तिमुक्तावलि ६.१२)असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः प्रियावृत्तिर्न्याय्या चरितमसुभङ्गेऽप्यमलिनम् ।विपद्युच्चैः स्थेयं पदमनुविधेयं च महतांसतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥२१७४॥धर्मकीर्तेः । (सु.र. १२१३, स्व२८०)ये दीनेषु दयालवः स्पृशति यानल्पोऽपि न श्रीमदोव्यग्रा ये च परोपकारकरणे हृष्यन्ति ये याचिताः ।स्वस्थाः सत्यपि यौवनोदयमहाव्याधिप्रकोपेऽपि येते भूमण्डनैकतिलकाः सन्तः कियन्तो जनाः ॥२१७५॥शब्दार्णवस्य ॥ (सु.र. १२३८, शा.प. २२८, सूक्तिमुक्तावलि ६.३०)३६. दुर्जनःएते स्नेहमया इति मा मा क्षुद्रेषु यात विश्वासम् ।सिद्धार्थानामेषां स्नेहोऽप्यश्रूणि पातयति ॥२१७६॥गोभटस्य । (सु.र. १२९६)कोऽर्थान्प्राप्य न गर्वितो भुवि नरः कस्यापदोस्तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः ।कः कालस्य न गोचरान्तरगतः कोऽर्थो गतो गौरवंको वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान॥२१७७॥कस्यचित। (स्व३४७०, शा.प. १५३४)दूरादुच्छ्रितपाणिरार्द्रनयनः प्रोत्सारितार्धासनोगाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु दत्तोत्तरः ।अन्तर्गूढविषो बहिर्मधुमयश्चातीव मायापटुःको नामायमपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः ॥२१७८॥बिन्दुशर्मणः । (स्व३४२)गुणोत्कर्षद्वेषात्प्रकृतिमहतामप्यसदृशंखलः किंचिद्वाक्यं रचयति च विस्तारयति च ।न चेदेषां तादृक्कमलकलिकार्धप्रतिनिधौमुनेर्गण्डूषेऽब्धिः स्थित इति कुतोऽयं कलकलः ॥२१७९॥शशी दिवसधूसरो गलितयौवना कामिनीसरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।प्रभुर्धनपरायणः सततदुर्गतः सज्जनोनृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥२१८०॥शिल्हणस्य । (ण्स्१०, स्व३४५८, सा.द. १०.११०, शा.प. १५३०) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP