संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|उच्चावचप्रवाहवीचयः| सुभाषित २१०१ - २१२० उच्चावचप्रवाहवीचयः उच्चावचप्रवाहवीचयः सुभाषित २००१ - २०२० सुभाषित २०२१ - २०४० सुभाषित २०४१ - २०६० सुभाषित २०६१ - २०८० सुभाषित २०८१ - २१०० सुभाषित २१०१ - २१२० सुभाषित २१२१ - २१४० सुभाषित २१४१ - २१६० सुभाषित २१६१ - २१८० सुभाषित २१८१ - २२०० सुभाषित २२०१ - २२२० सुभाषित २२२१ - २२४० सुभाषित २२४१ - २२६० सुभाषित २२६१ - २२८० सुभाषित २२८१ - २३०० सुभाषित २३०१ - २३२० सुभाषित २३२१ - २३४० सुभाषित २३४१ - २३६० सुभाषित २३६१ - २३८० उच्चावचप्रवाहवीचयः - सुभाषित २१०१ - २१२० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित २१०१ - २१२० Translation - भाषांतर २१. रावणः दोर्दण्डास्त इमे त्रिलोचनगिरेरुत्तम्भसम्भावितास्तान्येतानि दशाननानि दशभिर्दिग्भिर्यदाज्ञा कृता ।यस्याद्यापि स एव वीर्यमहिमा तस्मिन्नरस्तापसः शोच्यः सोऽपि रिपुः स चैव कुपितस्तस्यापि दूतः कपिः ॥२१०१॥कस्यचित।धन्यः श्रीदशकन्धरः परमयं रक्षोगणग्रामणीर्एका सा निकषा परं तनयसूर्यस्याः सुतो रावणः ।द्वारे निर्जरशेखरार्चितपदद्वन्द्वश्चिरं वृत्रहायस्यास्थानविलम्बकारणकथाताम्यन्मनास्तिष्ठति ॥२१०२॥कस्यचित।रुद्रादेस्तुलनं स्वकण्ठविपिनच्छेदो हरेर्वासनंकारावेश्मनि पुष्करस्य चजयो यस्येदृशाः केलयः ।सोऽहं दुर्दमबाहुदण्डसचिवो लङ्केश्वरस्तस्य मेका श्लाघा घुणजर्जरेण धनुषा कृष्टेन भग्नेन वा ॥२१०३॥कस्यचित। (सु.र. १५४८, बा.रा. १.५१)भग्नं भग्नमुमापतेरजगवं बाली क्षतश्च क्षतस्तालाः सप्त हता हताश्च जलधिर्बद्धश्च बद्धश्च सः ।आः किं तेन सशैलसागरधराधारोरगेन्द्रास्पदंसाद्रिं रुद्रमुदस्यतो निजभुजाञ्जानात्ययं रावणः ॥२१०४॥कस्यचित।न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसःसोऽप्यत्रैव निहन्ति राक्षसभटान्जीवत्यहो रावणः ।धिक्धिक्शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वास्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥२१०५॥कस्यचित। (ध्वन्यालोकः ३.१६, सा.द. उन्देर्१.२, बा.रा.शेष ३.११)२२. रावणशिरश्छेदः कण्ठच्छेदविशीर्यमाणरुधिरप्राग्भारभग्नद्युतेर्येन स्मेरमुखेन होमशिखिनः संधुक्षणाकाङ्क्षिणा ।भ्रूभङ्गः शितिकण्ठकण्ठफणिने फूत्कारहेतोः कृतःशौटीर्यव्रततुष्टधूर्जटिरसौ किं वर्ण्यते रावणः ॥२१०६॥ कस्यचित।स्वसत्त्वस्योद्रेकादपि दश शिरांसि स्वयमयंसकृच्छित्त्वा छित्त्वा भुजपरिघमृष्ठासृगभितः ।मुखानां स्मेराक्ष्णां सरभसविकाशादुदयिनांकिमद्राक्षील्लक्ष्मीं पतितपतितानां निपतताम् ॥२१०७॥कस्य्चचित।निस्त्रिंशप्रतिबिम्बितेऽपि यदुरःकम्पो न वीरव्रतप्रौढिः सेति न चन्द्रहासमधुनोत्कण्टच्छिदा पर्वणि ।जूहुषुः स्वशिरांसि शङ्करपुरोहाकारवैरेण यः स्वाहाकारमुदाहरन्न स दशग्रीवो गिरां गोचरः ॥२१०८॥कस्यचित।श्रीकण्ठस्य पुरः परस्परबलाधिक्षेपकक्षावतांबाहूनां दशकद्वयं दशशिरश्छेदे विवादाकुलम् ।प्रत्येकं शमयत्यसावभिमतव्याक्षेपसापत्रपश्छिन्धि त्वं जुहुधि त्वमित्युपदिशन्नेकः परं रावणः ॥२१०९॥कस्यचित।लूने पञ्च ततश्चतुष्टयमिति स्रक्संनिवेशैः शिरःपद्मैरन्यतमावलोकनमितैरुच्छोणितैरर्चितः ।हस्तस्पर्शवशेन मूर्ध्नि दशमं मूर्धानमध्यासयन्शम्भोरुद्धतसाहसैकरसिकः कैर्न स्तुतो रावणः ॥२११०॥२३. दूतःएकस्मिन्नवपातितेऽपि शिरसि क्रोधोपशान्तिः कुतःकिंतु स्वानुनयाय मूर्धनिधनं दृष्टं न यत्रारिणा ।त्वत्तो मूर्धबहुत्वतः फलमिदं सम्यङ्मया लभ्यतेछिन्नं छिन्नमवेक्ष्य राक्षसपते स्वं दुर्नयं ज्ञास्यसि ॥२१११॥कस्यचित।अज्ञानाद्यदि वाधिपत्यरभसादस्मत्परोक्षं हृता सीतेयं प्रविमुच्यतां शठ मरुत्पुत्रस्य हस्तेऽधुना ।नो चेल्लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणितच्छत्रच्छन्नदिगन्तमन्तकपुरं पुत्रैर्वृतो यास्यसि ॥२११२॥ कस्यचित।रेवाम्भोगर्भमज्जद्विविधवरवधूहस्तयन्त्रोत्थिताभिःक्रीडन्स्वच्छन्दमद्भिः स्मरसि यदकरोदर्जुनः कार्तवीर्यः ।तद्दोष्णां यच्च रामो रणभुवि विदधे वेगवल्गत्कुठारःप्रायः पौलस्त्य सा ते श्रवणपरिगता किं न वार्तेति विद्मः ॥२११३॥कस्यचित। (बा.रा. २.३८, राजशेखरस्य)कुले पौलस्त्यानां न निजममलं जन्म कलितंबहोः कालान्नालोचितमतुलमुच्चैः स्वमयशः ।प्रसूनं पुष्पेषोः शरमसहता किं च भवतास पत्री सौमित्रेरशनिसहधर्मा न गणितः ॥२११४॥गोसोकस्य ।शिरोभिर्मा देवीः शिव इव न ते दास्यति पुनर्दृशं दद्याः सेतावधिजलधि कैलाससुभटः ।हितं तद्ब्रूमस्त्वां मम जनकदोर्दण्डविजयस्फुरत्कीर्तिस्तम्भ त्यज कमलबन्धोः कुलवधूम् ॥२११५॥गदाधरनाथस्य ।२४. संवादानुवादःद्यामालोकयतां कलाः कलयतां छायाः समाचिन्वतांक्लेशः केवलमङ्गुलीर्दलयतां मौहूर्तिकानामयम् ।धन्या सा रजनी तदेव सुदिनं धन्यः स एव क्षणोयत्राझातचरश्चिरान्नयनयोः सीमानमेति प्रियः ॥२११६॥वसुधरस्य । (सु.र. १६४९)तेषां त्वं निधिरागसामसहना मानोन्नता साप्यतोगन्तव्यं भवता न तद्गृहमिति त्वं वार्यसे यासि चेत।गाढं मेखलया बलान्नियमितः कर्णोत्पलेनाहतः क्षिप्तः पादतले तदेकशरणो मन्ये चिरं स्थास्यसि ॥२११७॥छित्तिपस्य । (शा.प. १६५०)जाने सासहना तथाहमसकृन्मय्यङ्गणस्थे पुनस्तस्याः संभविता स साध्वसरसः कोऽपि प्रकोपापहः ।येनोद्यत्पुलकप्रकम्पविकलैरङ्गैः क्व कर्णोत्पलंकुत्रात्मा क्व च मेखलेति गलितः प्रायः स मानग्रहः ॥२११८॥वसुन्धरस्य । (सु.र. १६५१)अन्या साधिगता त्वया क्व युवती यस्याः स मानग्रहो याते लोचनगोचरं प्रियतमे संप्रत्यपक्रामति ।अस्माकं पुनरुग्रपूरुषशताश्लेषप्रगल्भात्मनां एतादृश्यनभिज्ञपूरुषपरिष्वङ्गे कुतः साध्वसम् ॥२११९॥छित्तिपस्य ।अस्माभिः कलितं पुरा न भवती भुक्ता नृभिः कैरपि प्रौढा मानवशालिनीति चलितं चेतः सकामं त्वयि ।धिक्त्वां संप्रति सद्भुजङ्गजनतासंश्लेषमातन्वती गम्या सर्वजनस्य वारवनितेवोत्क्षेपणीयासि नः ॥२१२०॥ वसुन्धरस्य । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP