संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|उच्चावचप्रवाहवीचयः| सुभाषित २२८१ - २३०० उच्चावचप्रवाहवीचयः उच्चावचप्रवाहवीचयः सुभाषित २००१ - २०२० सुभाषित २०२१ - २०४० सुभाषित २०४१ - २०६० सुभाषित २०६१ - २०८० सुभाषित २०८१ - २१०० सुभाषित २१०१ - २१२० सुभाषित २१२१ - २१४० सुभाषित २१४१ - २१६० सुभाषित २१६१ - २१८० सुभाषित २१८१ - २२०० सुभाषित २२०१ - २२२० सुभाषित २२२१ - २२४० सुभाषित २२४१ - २२६० सुभाषित २२६१ - २२८० सुभाषित २२८१ - २३०० सुभाषित २३०१ - २३२० सुभाषित २३२१ - २३४० सुभाषित २३४१ - २३६० सुभाषित २३६१ - २३८० उच्चावचप्रवाहवीचयः - सुभाषित २२८१ - २३०० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित २२८१ - २३०० Translation - भाषांतर ५७. शमविघ्नः प्रेम्णा पुरा प्रणिहितं मयि चक्षुरीषद्उल्लासितार्धकुचया मितमध्यया यत।सम्प्रत्यतिस्तिमितवक्त्रमिवाङ्गलग्नम्एतज्जिहासुरपि हातुमनीश्वरेण ॥२२८१॥कस्यचित। (सु.र. १६३१)भिक्षाशनं भवनमायतनैकदेशःशय्या मही परिजनो निजदेहभारः ।वासः सुजीर्णपटखण्डनिबद्धकन्थाहा हा तथापि विषयान्न जहाति चेतः ॥२२८२॥सिल्हणस्य । (सु.र. १६३३)मधुरमशनं सूक्ष्मं वासो विभूषणमुज्ज्वलंतरुणतरवः क्रीडारामाः सुधाशुचयो गृहाः ।तदिदमखिलं त्यक्तुं शक्यं भवत्यपि देहिनांप्रणयसरसा येऽमी दारास्त एव हि दुस्त्यजाः ॥२२८३॥कस्यचित।गङ्गाधौतशिलातले फलभरच्छिन्नार्धकूलद्रुमेसिद्धाध्यासितकन्दरे हिमवति स्थाने स्थिते श्रेयसि ।कः कुर्वीत शिरः प्रणाममलिनं मान्यं मनस्वी जनोयद्वित्रस्तकुरङ्गशावनयना न स्युः स्मरास्त्रं स्त्रियः ॥२२८४॥कस्यचित। (स्व. २२४४)संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवाकलङ्कव्यासङ्गव्यस्तधैर्यं कथममलधियो मानसं संविदध्युः ।यद्येताः प्रोद्यदिन्दुद्युतिनिचयभृतो न स्युरम्भोजनेत्राः प्रेङ्खत्काञ्चीकलापाः स्तनभरविनमन्मध्यभाजस्तरुण्यः ॥२२८५॥कस्यचित्(SःऋSः ३१ (९७); स्व. २२४५)५८. अर्धशमः एकं सागरतीरनीरनिकरस्फाराञ्जलिक्षालितैःपुष्पैरच्युतपूजनं निजकरव्यापारसंपादितैः ।नो चेन्मञ्जुलमालतीदललसत्खट्वार्चिते मन्दिरेकान्तातुङ्गनितम्बबिम्बसुरतक्रीडारसैः स्थीयते ॥२२८६॥कस्यचित।प्रशान्ते धीराणां मनसि परमब्रह्मरसिकेरजो वा राज्यं वा द्वयमिदमभेदं सुकृतिनाम् ।धिगस्माकं चित्ते विगलितविवेके पुनरिहप्रिया वा प्राणा वा सदृशमथवा पूर्वमधिकम् ॥२२८७॥पुरोकस्य ।धन्यानां गिरिकन्दरोदरभुवि ज्योतिः परं ध्यायताम्आनन्दाश्रुजलं पिबन्ति शकुना निःशङ्कमङ्कस्थिताः ।अस्माकं तु मनोरथोपरचितप्रासादवापीतटक्रीडाकाननकेलिमन्दिरजुषां चेतः परं सीदति ॥२२८८॥सत्यबोधस्य । (VऐS १९६, Sस्१.५, शा.प. ४१५५, सूक्तिमुक्तावलि १२६.९, सु.र. १४६१)सद्यः काश्मीरमृष्टस्तनकलसलुठत्तारहारावलीभिःकर्पूरोद्गारिणीभिः सममसमसुखाः केलयः केरलीभिः ।नो चेद्भिक्षाप्रसन्ने मनसि मनसिजक्लेशनाशे विलासोवाराणस्यां निवासः स्मरहरचरणोपासनावासनाभिः ॥२२८९॥वासुदेवस्य ।अग्रे गीतं सरसकवयः पार्श्वतो दाक्षिणात्याः पृष्ठे लीलावलयरणितं चामरग्राहिणीनाम् ।यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥२२९०॥ उत्पलराजस्य । (सु.र. १६०५, स्व३४६७, शा.प. ४१६७, VऐS १८३)५९. कारुणिकः निष्कंचनत्वाद्विधुरस्य साधोर्अभ्यर्थितस्यार्थिजनस्य किंचित।नास्तीति वर्णा मनसि भ्रमन्तोनिर्गन्तुमिच्छन्त्यसुभिः सहैव ॥२२९१॥मङ्गलस्य ।तां सम्पदो विपद एव न याः समग्रम्उत्तारयन्ति जगदाविलमार्तिपङ्कात।तल्लौहमेव हृदयं यदशक्तमार्तेस्वीयार्तिभावयति न स्फुटितेन शुद्धिम् ॥२२९२॥मालोकस्य ।एते वयं तनुधनाः कृपणेयमुर्वीदीनाः शतं मृदु च विस्तरयन्ति वाचः ।तद्भ्रातरः शकुनिफेरवसारमेयाढौकध्वमेतदहह स्फुटतु क्षणेन ॥२२९३॥ तस्यैव ।यत्र प्राणबलेन यत्र पिशितैर्यत्र त्वचा केवलंयात्रामर्थिजनोचितामुपगतः श्लाघ्यः स कालो गतः ।कुर्मः किं धनमन्यदस्ति न किमप्यस्माकमस्मात्परंवाधिर्यं कृतमत्र कर्णकुहरे दूरेऽस्तु वागर्थिनः ॥२२९४॥परशुरामस्य ।मुदा यत्र प्राणास्तृणमिव परार्थव्यसनिनस्त्यजन्तो लज्जन्ते कियदिति धिया तद्युगमगान।तृणं प्राणप्रायं त्यजति न जनो यत्र समयेवयं जातास्तत्रेत्यहह कृपणं जीवितमिदम् ॥२२९५॥देवबोधस्य ।६०. शान्त्याशंसा कदा भिक्षाभक्ष्यैः करगलितगङ्गाम्बुतरलैःशरीरं मे स्थास्यत्युपरतसमस्तेन्द्रियसुखम् ।कदा ब्रह्माभ्यासस्थिरतनुतयारण्यविहगाःपतिष्यन्ति स्थाणुभ्रमहतधियः स्कन्धशिरसि ॥२२९६॥ भर्तृहरेः । (Sस्४.१८)गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काःसंप्राप्स्यन्ते जरठहरिणा गात्रकण्डूविनोदम् ॥२२९७॥कृष्णस्य । (Sस्४.१७)रथ्यातश्चरतस्तथा धृतजरत्कन्थालवस्याध्वगैःसत्रासं च सकौतुकं च सकृपं दृष्टस्य तैर्नागरैः ।निर्व्याजीकृतचित्सुधारसमुदा निद्रायमाणस्य मेनिःशङ्कं करटः कदा करपुटीभिक्षां विलुण्ठिष्यति ॥२२९८॥वल्लणस्य । (Sस्४.१९, सा.द. उन्देर्३.२२८)कदा वाराणस्याममरतटिनीरोधसि वसन्वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् ।अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयनप्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान॥२२९९॥ विश्वेश्वरस्य । (Kउवल्. १८३)अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा मणौ वा लोष्टे वा कुसुमशयने वा दृषदि वा ।तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः क्वचित्पुण्येऽरण्ये शिव शिव शिवेति प्रलपतः ॥२३००॥ मुञ्जस्य । (स्व३४१३, शा.प. ४१०२) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP