उच्चावचप्रवाहवीचयः - उच्चावचप्रवाहवीचयः

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


मनुजस्तुरङ्गगावौ पशवः पारावतो बलाका च ।
नानाखगाश्च गिरयो वनस्रवत्यौ विशेषनदी ॥१॥
पद्माकरः प्रशस्तः सरसी चक्रश्च चक्रवाकी च ।
दिग्देशौ वीरधनुर्भङ्गौ हनूमत्प्रभृतिशौर्यम् ॥२॥
रावण एतस्य शिरश्छेदो दूतोऽनुवादसंवादः ।
कवयो नानाकवयः प्रत्येककविर्मनस्विकवयश्च ॥३॥
कविदानं गुणिगर्वो वाणी काव्यं च काव्यमात्सर्यम् ।
काव्यमलिम्लुचसज्जनदुर्वृत्ताः सुजनदुर्जनौ मिलितौ ॥४॥
धन्य उदात्तो मानी कृपणः सेवकमनस्विभजमानौ ।
दुरधीशसेवकश्च क्षुद्रोदयदुःखितोऽथ दारिद्र्यम् ॥५॥
तत्सचटु दरिद्रगृही तद्गृहिणी तद्गृहं जरावृद्धः ।
अनुशयनिर्वेदावथ विचारविचिकित्सिते च शमविघ्नः ॥६॥
अर्धशमः कारुणिकः शान्त्याशंसा कृतार्थशान्तश्च ।
शान्तिगतो निष्क्रमनिःस्पृहवनगमनोत्सुकास्तपोविपिनम् ॥७॥
तापसबहुविषयशमौ ज्ञानी भवितव्यता च दैवं च ।
कालपितृवनसमस्योच्चावचप्रतिराजसंस्तुतयः ॥८॥
इति षट्काधिकसप्ततिवीचिभिरिह सरसकोमलैरेभिः ।
उच्चावचप्रवाहं श्रीधरदासः कृती कृतवान॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP