उच्चावचप्रवाहवीचयः - सुभाषित २१४१ - २१६०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


२९. कविदानं

निष्पन्ने सति चन्द्रचूडचरिते तत्तन्नृपप्रक्रिया
जातैः सार्धमरातिराजकशिरोरत्नाञ्जलीनां त्रयम् ।
सप्तस्वर्णशतानि विंशतिशतीरूप्यस्य लक्षत्रयं
ग्रामाणां शतमन्तरङ्गकवये चाणक्यचन्द्रो ददौ ॥२१४१॥

उमापतिधरस्य ।

दन्तिव्यूहं कनककलितं चामरे हेमदण्डं
यो गौडेन्द्रादलभत कविक्ष्माभृतां चक्रवर्ती ।
ख्यातो यश्च श्रुतिधरतया विक्रमादित्यगोष्ठी
विद्याभर्तुः खलु वररुचेराससाद प्रतिष्ठाम् ॥२१४२॥

धोयीकस्य ।
कनककुन्डलमण्डितभाषिणे
शकरिपुर्विषयान्दश विद्विषः ।
मगधकेकयकेरलकोशलान्
करिशतं च मदालसलोचनम् ॥२१४३॥

अमरोः ।

अमुष्मै चौराय प्रतिनिहतमृत्युप्रतिभिये
प्रभुः प्रीतः प्रादादुपरितनपादद्वयकृते ।
सुवर्णानां कोटीर्दश दशनकोटिक्षतगिरीन्
गजेन्द्रानप्यष्टौ मदमुदितकूजन्मधुलिहः ॥२१४४॥

तस्यैव ।

श्लोकोऽयं हरिषाभिधानकविना देवस्य तस्याग्रतो
यावद्यावदुदीरितः शकवधूवैधव्यदीक्षागुरोः ।
तावत्तावदुपोढसान्द्रपुलकस्तस्मै स देवो ददौ
लक्षं लक्षमखण्डितं मधुकरव्यालोलगण्डं गजम् ॥२१४५॥

तस्यैव ।

३०. गुणिगर्वः

षट्तर्कानपि शब्दशासनमपि स्थानैः स्थितं पञ्चभिर्
मीमांसाद्वयमप्यनन्यसदृशीं साहित्यविद्यामपि ।
विद्मः किं च महाविकल्पबहलज्वालावलीतापितेष्व्
आस्माकेषु न जल्पवह्निषु पुनः कैः कैः पतङ्गायितम् ॥२१४६॥

तपस्विनः ।

तावत्तार्किकचक्रवर्तिपदवी तावत्कवीनां गिरस्
तावच्चाप्रतिमल्लतामदभरः साहित्यपाण्डित्ययोः ।
यावन्न प्रतिपर्वनिर्भरसुधानिर्वाजबीजं क्षणाद्
वाग्वल्ल्यो विलसन्ति कर्णकुहरे श्रीदेवबोधेरिताः ॥२१४७॥

देवबोधस्य ।

बिन्दुद्वन्द्वरङ्गिताग्रसरणिः कर्ता शिरोबिन्दुकं
कर्मेत्यन्वयकल्पनां विदधते ये केऽपि तेभ्यो नमः ।
ये तु ग्रन्थसहस्रशाणकषणत्रुट्यत्कलङ्गैर्गिराम्
उल्लासैः कवयन्ति वल्लणकविस्तेष्वेव संनह्यते ॥२१४८॥

वल्लणस्य ।

यथा यूनस्तद्वत्परमरमणीयापि रमणी
कुमाराणामन्तःकरणहरणं कैव कुरुते ।
मदुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियः
किमस्या नाम स्यादरसपुरुषानादरभरैः ॥२१४९॥

कविपण्डितश्रीहर्षस्य । (ण्च्२२.१५२)

सर्वस्वं गृहवर्तिकुन्तलपतिर्गृह्णातु तन्मे पुनर्
भाण्डागारमखण्डमेव हृदये जागर्ति सारस्वतम् ।
भोः क्षुद्रास्त्यजत प्रमोदमचिरादेष्यन्ति मन्मन्दिरं
हेलान्दोलितकर्णतालकरटिस्कन्धाधिरूढाः श्रियः ॥२१५०॥

सिल्हणस्य ।
३१. वाणी

सुवर्णालङ्कारा प्रकटितरसाश्लेषनिपुणा
स्फुरद्वैदर्भोक्तिर्ललितपदबन्धक्रमगतिः ।
लसद्भूयो भावा मृदुरपि विमर्दोचिततनुः
कवीन्द्र त्वद्वाणी हरति हरिणाक्षीव हृदयम् ॥२१५१॥

साकोकस्य । (सु.र. १७१६)

घनरसमयी गभीरा वक्रिमसुभगोपजीविता कविभिः ।
अवगाढा च पुनीते गङ्गा बङ्गालवाणी च ॥२१५२॥

बङ्गालस्य ।

वाणि व्रज सुरलोकं त्रिशरणपालोऽपि देवि तत्रैव ।
संप्रति काव्यपरिश्रमवधिरैरवधीरणां यासि ॥२१५३॥

त्रिपुरारिपालस्य ।

पिपासुः पीयूषं त्वमसि सरसस्वादुमधुरं
श्रुतिभ्यामश्रान्तः पिब मधुरमृद्वीः कविगिरः ।
अथैताः सन्तोषं विदधति न चेच्चेतसि ततः
सुधापि स्यान्मन्ये पृथुवमथुलाभाय भवतः ॥२१५४॥

धञ्जोकस्य ।

इयं गौरुद्दामा तव निबिडबन्धापि हि कथं
न वैदर्भादन्यत्स्पृशति सुलभत्वेऽपि हि कथम् ।
अवन्ध्या च ख्याता भुवि कथमगम्या कविवृषैः
कथं वा पीयूषं स्रवति बहु दुग्धापि बहुभिः ॥२१५५॥

शब्दार्णवस्य । (सु.र. १७२५)


३२. काव्यम्

यदेतद्वागर्थव्यतिकरमयं किञ्चिदमृतं
तदानन्दस्यन्दैः सहृदयमनांसि स्नपयति ।
इदं काव्यं तत्त्वं स्फुरति तु यदत्रानुपरमं
तदन्तर्बुद्धीनां स्फुटमथ च वाचामविषयः ॥२१५६॥

हृषीकेशस्य  (सु.र. १७१५, सूक्तिमुक्तावलि ४.३४)

कवलयति न चेतस्तस्य दारिद्र्यदुःखं
न च पिशुनजनोक्तिः कर्णकण्डूं करोति ।
वरकविकृतगोष्ठीबन्धगन्धोपभोगे
य इह मधु वमन्तीं काव्यचिन्तां करोति ॥२१५७॥

व्याडेः ।

एतत्कवीन्द्रमुखचन्द्रमसः कदाचित्
काव्याभिधानममृतं यदि नागालिष्यत।
संसारिणां विविधदुःखसहस्रभाजां
चेतोविनोदसदनं किमिहाभविष्यत॥२१५८॥

सुरभेः ।

ते वर्णाः सपदक्रमास्तदभिधावैदग्ध्यमव्याहृतं
गुम्फः कोऽपि सपक्त्रिमः सहृदयास्वाद्यो रसः कोऽप्यसौ ।
हे सभ्याः परिभाव्य मादृशकृतीर्ब्रूत क्वचिन्निष्कृतं
किं तत्रास्त्यपरं पुरातनकवेर्येनैष कोलाहलः ॥२१५९॥

गोसोकस्य ।

अनुद्घुष्टः शब्दैरथ च घटनात्प्रस्फुटरसः
पदानामर्थात्मा रमयति नतूत्तानितरसः ।
यथा किंचिद्दृश्यः पवनचलचीनांशुकतया
स्तनाभोगः स्त्रीणां हरति न तथोन्मुद्रितवपुः ॥२१६०॥

धर्माशोकस्य । (सु.र. १७०५)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP