संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|उच्चावचप्रवाहवीचयः| सुभाषित २१२१ - २१४० उच्चावचप्रवाहवीचयः उच्चावचप्रवाहवीचयः सुभाषित २००१ - २०२० सुभाषित २०२१ - २०४० सुभाषित २०४१ - २०६० सुभाषित २०६१ - २०८० सुभाषित २०८१ - २१०० सुभाषित २१०१ - २१२० सुभाषित २१२१ - २१४० सुभाषित २१४१ - २१६० सुभाषित २१६१ - २१८० सुभाषित २१८१ - २२०० सुभाषित २२०१ - २२२० सुभाषित २२२१ - २२४० सुभाषित २२४१ - २२६० सुभाषित २२६१ - २२८० सुभाषित २२८१ - २३०० सुभाषित २३०१ - २३२० सुभाषित २३२१ - २३४० सुभाषित २३४१ - २३६० सुभाषित २३६१ - २३८० उच्चावचप्रवाहवीचयः - सुभाषित २१२१ - २१४० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित २१२१ - २१४० Translation - भाषांतर २५. कविःत्रैलोक्यमुदरे विष्णोस्तादृगेव व्यवस्थितम् ।तादृगन्यादृगप्यस्ति हृदये तु महाकवेः ॥२१२१॥वसुकल्पस्य ।यन्नेत्रैस्त्रिभिरीक्षते न गिरिशो नाष्टाभिरप्यब्जभूःसक्न्दो द्वादशभिस्तथा न मघवा चक्षुःसहस्रेण यत।संभूयापि जगत्त्रयस्य नयनैर्द्रष्टुं न यत्पार्यते प्रत्याहृत्य दृशौ समाहितधियः पश्यन्ति तत्पण्डिताः ॥२१२२॥शालिकनाथस्य । (सु.र. १२४९)उदन्वच्छिन्ना भूः स च निधिरपां योजनशतंसदा पान्थः पूषा गगनपरिमाणं कलयति ।इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताःसतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥२१२३॥ राजशेखरस्य । (बा.रा. १.८, स्व३२२, सा.द. उन्देर्७.४, सु.र. १२२३)निधानं विद्यानां कुलगृहमपारस्य यशसःकला सम्पद्रत्नव्रततिविटपानां सुरतरुः ।शुचि क्षौणीन्द्राणां सुचरितकथादर्पणतलंप्रकृत्या गम्भीरः कविरिति हि शब्दो विजयते ॥२१२४॥कस्यचित।॥२१२५॥ नास्त्यत्र श्लोकः ।२६. नानाकवयः बाणः सृष्टिमपूर्ववस्तुविषयामेकोऽत्र निर्व्यूढवान्निष्णातः कविकुञ्जरेन्द्रचरिते मार्गे गिरां वा गुरुः ।वेधा विन्ध्यपुलिन्दपामरवधूभूगोलझञ्झानिलप्रायेऽर्थे वचनानि पल्लवयितुं जानाति योगेश्वरः ॥२१२६॥भवानन्दस्य । (सु.र. १६९९)अस्तंगतभारविरवि कालवशात्कालिदासविधुविधुरम् ।निर्वाणबाणदीपं जगदिदमद्योति रत्नेन ॥२१२७॥ भोजदेवस्य । (सु.र. १७०६)बाणः प्राणिति केशटः स्फुटमसौ जागर्ति योगेश्वरः प्रत्युज्जीवति राजशेखरगिरां सौरभ्यमुन्मीलति ।येनायं कलिकालपुष्पधनुषो देवस्य शिक्षावशाद्आकल्पं वसुकल्प एव वचसि प्रागल्भ्यमभ्यस्यति ॥२१२८॥वसुकल्पस्य ।उन्नीतो भवभूतिना प्रतिदिनं बाणे गते यः पुरायश्चीर्णः कमलायुधेन सुचिरं येनागमत्केशटः ।यः श्रीवाक्पतिराजपादरजसां संपर्कपूतश्चिरंदिष्ट्या श्लाघ्यगुणस्य कस्यचिदसौ मार्गः समुन्मीलति ॥२१२९॥ अभिनन्दस्य । (सु.र. १७३३)सुबन्धौ भक्तिर्नः क इह रघुकारे न रमतेधृतिर्दाक्षीपुत्रे हरति हरिचन्द्रोऽपि हृदयम् ।विशुद्धोक्तिः शूरः प्रकृतिमधुरा भावविगिरस्तथाप्यन्तर्मोदं कमपि भवभूतिर्वितनुते ॥२१३०॥कस्यचित। (सु.र. १६९८)२७. प्रत्येककविः विकचकुमुदक्रीडक्रीडन्मधुव्रतझाङ्कृतीर्मदकलकुहूकण्ठोत्कण्ठाविपञ्चितपञ्चमाम् ।अभिनववधूप्रेमालापादपि श्रुतिसंमदंविदधति कवेर्दङ्कस्यैताः सुधामधुरा गिरः ॥२१३१॥दङ्कस्य ।प्रयोगव्युत्पत्तौ प्रतिपदविशेषार्थकथनेप्रसत्तौ गाम्भीर्ये रसवति च काव्यार्थरचने ।अगम्यायामन्यैर्दिशि परिणतैरर्थवचसोर्मतं चेदस्माकं कविरमरसिंहो विजयते ॥२१३२॥शालिकनाथस्य । (सु.र. १७२४)पातु कर्णरसायनं रचयितुं वाचः सतां संमताव्युत्पत्तिं परमामवाप्तुमवधिं लब्धुं रसस्रोतसः ।भोक्तुं स्वादु फलं च जीविततरोर्यद्यस्ति ते कौतुकंतद्भ्रातः शृणु राजशेखरकवेः सूक्तीः सुधास्यन्दनीः ॥२१३३॥शङ्करवर्मणः । (बा.रा. १.१७, वि.शा.भ. १.१७, सु.र. १७००)धिग्धिक्तान्समयान्परिश्रमरुजो वक्तुं गिरो नीरसायत्रामूर्निपतन्ति वल्लणगुणोत्खातामृतप्रीतयः ।रोम्णां नृत्यभुवो विलोचनपयःपूराब्धिचन्द्रोदयाःसाहित्यप्रतिगण्डगर्वगलनं ग्लानिक्रियाहेतवः ॥२१३४॥वल्लणस्य । (सु.र. १७०३)देवीं वाचमुपासते हि बहवः सारं तु सारस्वतंजानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः ।आब्धर्लङ्घित एव वानरभटैः किं त्वस्य गम्भीर्ताम्आपातालनिमग्नपीवरतनुर्जानाति मन्थाचलः ॥२१३५॥मुरारेः । (Kउवल्, प्. ५८; सु.र. १७०१)२८. मनस्विकविःविन्यस्ता विकचप्रसूनघटनाचार्येण कण्ठोचितामालेयं भुजगभ्रमेण भवता जन्मान्ध किं धूयते ।एतस्याः क्षतिरस्तु नाम कियती संवीतहासोद्गमास्त्वामन्योन्यकरार्पणप्रणयिनः पश्यन्ति विश्वे जनाः ॥२१३६॥जलचन्द्रस्य ।अवधेहि क्षणमेहि भ्रातर्भावज्ञ भावय गिरं नः ।चरमे चकास्ति चेतसि मूकस्वप्नोपमो भावः ॥२१३७॥ गोसोकस्य ।स्तम्भावधेहि निमिषं पठामि सूक्तीः स्वचित्तनिर्वृत्तये ।मा बुध्यस्व न तावद्वागुल्काभिः कदर्थयसि ॥२१३८॥वल्लणस्य ।श्रीमद्भिर्द्रविणव्ययव्यतिकरक्लेशादवज्ञायसेद्वेषान्भःपरिपूर्णकर्णकुहरैर्नाकर्ण्यसे सूरिभिः ।इत्थं व्यर्थितवाञ्छितेषु हि मुधैवास्मासु किं खिद्यसेमातः काव्यसुधे कथं क्व भवतीमुन्मुद्रयामो वयम् ॥२१३९॥तस्यैव ।अर्वाचीनवचः प्रपञ्चसुखिनां दुःशिक्षितानां पुरो गम्भीरं कविपुङ्गवस्य किमहो सर्वस्वमुद्धाट्यते ।व्यर्थं कर्दमगन्धगौरवहृतग्रामीणगोष्ठीमुखे कोऽयं नाम सचेतनोऽस्ति य इह प्रस्तौति कस्तूरिकाम् ॥२१४०॥ तस्यैव । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP