संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|उच्चावचप्रवाहवीचयः| सुभाषित २०८१ - २१०० उच्चावचप्रवाहवीचयः उच्चावचप्रवाहवीचयः सुभाषित २००१ - २०२० सुभाषित २०२१ - २०४० सुभाषित २०४१ - २०६० सुभाषित २०६१ - २०८० सुभाषित २०८१ - २१०० सुभाषित २१०१ - २१२० सुभाषित २१२१ - २१४० सुभाषित २१४१ - २१६० सुभाषित २१६१ - २१८० सुभाषित २१८१ - २२०० सुभाषित २२०१ - २२२० सुभाषित २२२१ - २२४० सुभाषित २२४१ - २२६० सुभाषित २२६१ - २२८० सुभाषित २२८१ - २३०० सुभाषित २३०१ - २३२० सुभाषित २३२१ - २३४० सुभाषित २३४१ - २३६० सुभाषित २३६१ - २३८० उच्चावचप्रवाहवीचयः - सुभाषित २०८१ - २१०० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित २०८१ - २१०० Translation - भाषांतर १७. देशःपर्णं नागरखण्डमार्द्रसुभगं पूगीफलं फालयःकर्पूरस्य च यत्र कोऽपि चतुरस्ताम्बूलयोगक्रमः ।देशः केरल एष केलिसदनं देवस्य शृङ्गारिणस्तं दृष्ट्वा कुरु कोमलाङ्गि सफले द्राघीयसी लोचने ॥२०८१॥राजशेखरस्य । (बा.रा. १०.६७)वाक्सत्त्वाङ्गसमुद्भवैरभिनयैर्नित्यं रसोल्लासतोवामाङ्ग्यः प्रणयन्ति यत्र मदनक्रीडामहानाटकम् ।अत्रान्ध्रास्तव दक्षिणेन त इमे गोदावरीस्रोतसांसप्तानामपि वार्निधिप्रणयिनां द्वीपान्तराणि श्रिताः ॥२०८२॥तस्यैव । (बा.रा. १०.७०)यत्क्षेमं त्रिदिवाय वर्त्म निगमस्याङ्गं च यत्सप्तमंस्वादिष्ठं च यदैक्षवादपि रसाच्चक्षुश्च यद्वाङ्मयम् ।तद्यस्मिन्मधुरं प्रसादि रसवत्कान्तं च काव्यामृतंसोऽयं सुभ्रु पुरोविदर्भविषयः सारस्वतीजन्मभूः ॥२०८३॥तस्यैव । (बा.रा. १०.७४)एतन्मालवमण्डलं विजयते सौजन्यरत्नाङ्कुरैःसंपद्विभ्रमधामभिः किमपरं शृङ्गारसारैर्जनैः ।यत्रारुह्य विचित्रचित्रवलभीर्लीलाशिलासद्मनांनीयन्ते जलदोदयेषु दिवसाः कान्तासखैः कामिभिः ॥२०८४॥ तस्यैव । (बा.रा. १०.८४)क्रीडत्किन्नरकामिनीविहसितज्योत्स्नावलक्षीकृताःकस्तूरीमददुर्दिनार्द्रसुरभीः प्राग्ज्योतिषीया भुवः ।नीहारस्थलसंचरिष्णुचमरीलाङ्गूलसंमार्जनीहेलोन्मृष्टमेरुपुष्परजसो द्रष्टुं समीहामहे ॥२०८५॥वसुकल्पस्य ।१८. वीरःयाते कार्मुकविद्यया परिभवं सार्धं गणानां गणैः षड्वक्त्रे समयं विलङ्घ्य जयिनीमुद्दिश्य शक्तिं स्थिते ।हस्तोदस्तपरश्वधः स्वशपथैर्यः स्तम्भितः शम्भुनाविश्वे पश्यत कौतुकं भृगुपतेस्तस्यैव रामोऽङ्कुशः ॥२०८६॥शिह्लणस्य ।धात्रीमेकातपत्रां समिति कृतवता चण्डदोर्दण्डदर्पाद्आस्थाने पादनम्रप्रतिभटमुकुटादर्शबिम्बोदरेषु ।उत्क्षिप्तच्छत्रचिह्नं प्रतिफलितमपि स्वं वपुर्वीक्ष्य किंचित्सासूयं येन दृष्टाः क्षितितलविलसन्मौलयो भूमिपालाः ॥२०८७॥जयदेवस्य ।साधु म्लेच्छनरेन्द्र साधु भवतो मातैव वीरप्रसूर्नीचेनापि भवद्विधेन वसुधा सुक्षत्रिया वर्तते ।देवे कुप्यति यस्य वैरिपरिषन्माराङ्कमल्ले पुरःशस्त्रं शास्त्रमिति स्फुरन्ति रसनापत्रान्तराले गिरः ॥२०८८॥उमापतिधरस्य ।आ लङ्कानाथनारीस्तनतरलपयोवीचिमुद्रात्समुद्राद्आ स्वर्गङ्गातरङ्गावलिविरलशिलादुस्तरादुत्तराद्रेः ।आ प्राक्शैलासुरस्त्रीसुरतगतिविदो मग्नभास्वन्मृगाङ्काद्आ च प्राचेतसाब्धेर्भवतु मम पुरः कोऽपि यद्यस्ति वीरः ॥२०८९॥ तस्यैव ।इह विजयिनि वंशे कीर्तिधाराकलापस्नपितसकललोकः श्रीयशोविग्रहोऽभूत।जलघट इव युद्धोत्तालभूपालदर्पज्वलनशमनलीलाकोविदः कोऽपि वीरः ॥२०९०॥ विश्वेश्वरस्य ।१९. धनुर्भङ्गः रामे रुद्रशरासनं तुलयति स्मित्वा स्थितं पार्थिवैःशिञ्जासञ्जनतत्परे च हसितं दत्त्वा मिथस्तालिकाः ।आरोप्य प्रचलाङ्गुलीकिसलये म्लानं गुणास्फालने स्फाराकर्षणभग्नपर्वणि पुनः सिंहासने मूर्च्छितम् ॥२०९१॥राजशेखरस्य । (सु.र. १५५०)रुन्धन्नष्टविधेः श्रुतीर्मुखरयन्नष्टौ क्रीडयन्मूर्तीरष्ट महेश्वरस्य दलयन्नष्टौ कुलक्ष्माभृतः ।तान्यक्ष्णा वधिराणि पन्नगकुलान्यष्टौ च सम्पादयन्न्उन्मीलत्ययमार्यदोर्बलचलत्कोदण्डकोलाहलः ॥२०९२॥मुरारेः । (आर्३.५४)दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यतष्टङ्कारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः ।द्राक्पर्यस्तकपालसंपुटमिलद्ब्रह्माण्डभाण्डोदरभ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ॥२०९३॥भवभूतेः । (ंच्१.५४, द.रू.. ४.७९, सा.द.. ३.२२७, सूक्तिमुक्तावलि ९५.३)यद्वज्रान्तःकठोरं त्रिपुरविघटनाख्यातवीर्यंच्छिन्दद्दर्पं भुजानां दशमुखजयिनः कार्तवीर्यार्जुनस्य ।जीवाकृष्टेरिवातैर्मृडमृडनिनदैरिष्टदेवं स्मरत्तद्रामेणोदारधाम्ना धनुरमितबलं भग्नमर्धेन्दुमौलेः ॥२०९४॥सरसीरुहस्य ।उत्क्षिप्तं सह कौशिकस्य पुलकैः साकं मुखैर्नामितंभूपानां जनकस्य संशयधिया सार्धं समास्फालितम् ।वैदेहीमनसा समं च सहसा कृष्टं ततो भार्गवप्रौढाहंकृतिकन्दलेन च समं भग्नं तदैशं धनुः ॥२०९५॥ गदाधरनाथस्य ।२०. हनूमदादिशौर्यं वक्तीति वानरबलानि हसन्हनूमान्मद्रोमवल्लिषु दृढं कुरु तवावलम्बम् ।येनैव सागरमहं लघु लङ्घयामिकिं सेतुना समरकर्मणि वो नयामि ॥२०९६॥राजशेखरस्य । (बा.रा. ७.२७)नीलेन सैन्यपतिना प्रभुताडनान्तेमुक्तस्तथा किलकिलाध्वनिरेष रौद्रः ।स्रष्टापि वाञ्छति सरोजभवः श्रवांसिशङ्के यथा करयुगेन मुधा पिधातुम् ॥२०९७॥तस्यैव । (बा.रा. ७.२१)कियानेष क्षाराम्बुधिरयममुष्याम्बुनिवहोन कुम्भेनाप्यस्यात्मजकरपुटेनैव तुलितः ।भवद्भिः सप्तैते ननु कपिचमूचक्रपतयः सहेलं पीयन्तां चुलुकचुलुकैरम्बुनिधयः ॥२०९८॥गोसोकस्य ।भुजस्तम्भैरेभिः परिघगुरुभिर्लुण्ठनहठाद्यशांसि स्वच्छन्दं रणविपणिपण्यानि कपयः ।असाध्यं स्यादेतद्यदि च तदमीषामकृपणाः क्रये सन्त्येवामी लिखितपठितामूल्यमसवः ॥२०९९॥तस्यैव ।मूर्ध्ना जाम्बवतोऽभिवाद्य चरणावापृच्छ्य सेनापतीन्आश्वास्याश्रुमुखान्मुहुः प्रियसखान्प्रेष्यान्समादिश्य च ।आरम्भं जगृहे महेन्द्रशिखरादम्भोनिधेर्लङ्घनेरंहस्वी रघुनाथपादरजसामुच्चैः स्मरन्मारुतिः ॥२१००॥अभिनन्दस्य । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP