संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|उच्चावचप्रवाहवीचयः| सुभाषित २१८१ - २२०० उच्चावचप्रवाहवीचयः उच्चावचप्रवाहवीचयः सुभाषित २००१ - २०२० सुभाषित २०२१ - २०४० सुभाषित २०४१ - २०६० सुभाषित २०६१ - २०८० सुभाषित २०८१ - २१०० सुभाषित २१०१ - २१२० सुभाषित २१२१ - २१४० सुभाषित २१४१ - २१६० सुभाषित २१६१ - २१८० सुभाषित २१८१ - २२०० सुभाषित २२०१ - २२२० सुभाषित २२२१ - २२४० सुभाषित २२४१ - २२६० सुभाषित २२६१ - २२८० सुभाषित २२८१ - २३०० सुभाषित २३०१ - २३२० सुभाषित २३२१ - २३४० सुभाषित २३४१ - २३६० सुभाषित २३६१ - २३८० उच्चावचप्रवाहवीचयः - सुभाषित २१८१ - २२०० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित २१८१ - २२०० Translation - भाषांतर ३७. सुजनदुर्जनौजीवन्तु साधुतरवः सुकृताम्बुसिक्तानश्यन्तु पङ्कपतिताः खलपांशवोऽपि ।ये धारयन्त्यनुगतोपकृतिव्रतानियैः सन्निधौ परगुणा मलिनीक्रियन्ते ॥२१८१॥सङ्केतस्य ।सत्सङ्गाद्भवति हि साधुता खलानांसाधूनां न तु खलसङ्गमात्खलत्वम् ।आमोदं कुसुमभवं मृदेव धत्तेमृद्गन्धं न तु कुसुमानि धारयन्ति ॥२१८२॥प्रभाकरमित्रस्य ।ये कारुण्यपरिग्रहादगणितस्वार्थाः परार्थं प्रतिप्राणैरप्यपकुर्वते व्यसनिनस्ते साधवो दूरतः ।विद्वेषानुगमादनूर्जितकृपो रूक्षो जनो वर्तते चक्षुः संहर बाष्पवेगमधुना कस्याग्रतो रुद्यते ॥२१८३॥श्रीहर्षस्य । (सु.र. १४९९)शिशुत्वव्यामोहात्कलयसि न चेत्तत्त्वमनयोस्तदा स्तोकं ब्रूमः परिचिनु वचस्त्वं सदसतोः ।सतां स्वान्तं यत्तन्मधुमधुरमन्तः कटु बहिर्बहिः स्वादु स्वच्छं विषविषममन्तस्तदसताम् ॥२१८४॥जियोकस्य ।आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात।दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलु सज्जनानाम् ॥२१८५॥३८. धन्यःभ्राम्यद्बालिशकीरपक्षहरितच्छायां बहिर्बिभ्रतीम्अन्तर्दन्तुरपारिभद्रकलिकागर्भप्रभातस्करीम् ।शुक्तिर्मारकतीव कुङ्कुमलसज्जम्बालपूर्णोदरावासालीसुकृतात्मनां प्रणयिनी चेलं मुखं चुम्बति ॥२१८६॥सेन्दूकस्य ।विषयपतिरलुब्धो धेनुभिर्धाम पूतंकतिचिदभिमतायां सीम्नि सीरा वहन्ति ।शिथिलयति च भार्या नातिथेयीं सपर्याम्इति सुकृतमनेन व्यञ्जितं नः फलेन ॥२१८७॥शुभाङ्कस्य ।धारानिपातरवबोधितपञ्जरस्थदात्यूहडम्बरकरम्बितकण्ठकूजाः ।अट्टेषु काण्डपटवारितशीकरेषुधन्याः पिबन्ति मुखतामरसं वधूनाम् ॥२१८८॥श्रीहनूमतः । (सु.र. २२४)शिलापट्टोद्घृष्टा मलयजरसालेपसुभगाःस्फुरद्धूमामोदा दरदलितकर्पूरसुहृदः ।इतः कम्बुच्छेदच्छविभिरहिवल्लीकिसलयैर्निषेवन्ते केऽपि क्रमुकफलफाणीः सुकृतिनः ॥२१८९॥राजशेखरस्य । शिशुत्वं तारुण्यं तदनु च दधानाः परिणतिंगताः पांशुक्रीडाविषयपरिपाटीरूपशतम् ।लुठन्तोऽङ्के मातुः कुवलयदृशां पुण्यसरितांपिबन्ति स्वच्छन्दं स्तनमधरमम्भः सुकृतिनः ॥२१९०॥श्रीहनूमतः । (सु.र. १६२१)३९. उदात्तः विमलमतिभिः कैरप्येतज्जगज्जनितं पुराविधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा ।इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते कतिपयपुरस्वान्ते पुंसां क एष मदज्वरः ॥२१९१॥भर्तृहरेः । (Sस्२.१४)केनेन्दुः कुमुदेषु केन तरणिः पद्मेषु केनाम्बुदःसारङ्गेष्वथ केन शाखिषु मधुर्दाक्षिण्यमध्यापितः ।तत्तुङ्गाननुभूतसौरभपरीवारोपकारं प्रतिश्मश्रूद्वेजितकर्णजाहमनुजः कः प्रेरयत्वीश्वरान॥२१९२॥शुङ्गोकस्य ।भवन्ति नम्रास्तरवः फलागमैर्नवाम्बुभिर्दूरविलम्बिनो घनाः ।अनुद्धताः सत्पुरुषाः समृद्धिभिःस्वभाव एवैष परोपकारिणाम् ॥२१९३॥कालिदासस्य । (Sःअक्५.१२; ण्स्६३)यदालोकं कुर्वन्भ्रमति रविरश्रान्ततुरगःसदालोआन्धत्ते यदगणितबाधा वसुमती ।न सम्बन्धः किं तु प्रकृतिरियमेवं हि महतांयदेते लोकानां परहितसुखैकान्तरसिकाः ॥२१९४॥मेघारुद्रस्य ।धात्रीं धातुं वहति फणिनामग्रणीः कस्य शिक्षांको वा ब्रूते तिमिरपटलप्लोषमह्नः प्रणेतुः ।अद्रिश्रेणीमवति जलधिः केन दत्ताभ्यनुज्ञःकर्म प्रायो भवति महतां स्वानुरूपं महिम्नः ॥२१९५॥४०. मनस्वीमा खेदं भज हे विधुन्तुद मुदं धेहि स्तुहि त्वं हरेस्तच्चक्रं विनिकृत्य दग्धमुदरं येनोत्तमाङ्गीकृतः ।पश्यास्मानुदरम्भरीनिह पराभूतान्निरस्तान्हतान्विध्वस्तानववारितानधरितानेतान्धनाहंयुभिः ॥२१९६॥बटेश्वरस्य ।यदेते साधूनामुपरि मुखरा एव धनिनोन सावज्ञैरेषामपि च निजवित्तव्ययभयम् ।न वा क्लेशोऽमुष्मिन्नपरमनुकम्पैव भवतिस्वमांसस्त्रस्तेभ्यः क इह हरिणेभ्यः परिभवः ॥२१९७॥भर्तृहरेः । (सु.र. १४६८, Sस्३.२३)शतं वा लक्षं वा नियुतमथवा कोटिमथवातृणायाहं मन्ये समयविपरीतं यदि भवेत।शतं तल्लक्षं तन्नियुतमपि तत्कोटिरपि तद्यदाप्तं सम्मानादपि तृणमनम्रण शिरसा ॥२१९८॥तस्यैव । मा गाः प्रत्युपकारकातरतया वैवर्ण्यमाकर्णयश्रीकर्णाटवसुन्धराधिप सुधासिक्तानि सूक्तानि नः ।वर्ण्यन्ते कति नाम नार्णवनदीभूगोलविन्ध्याटवीझञ्झामारुतचन्द्रमःप्रभृतयस्तेभ्यः किमाप्तं मया ॥२१९९॥सिल्हनस्य । राजा त्वं वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताःख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः ।इत्थं मानद नातिदूरमुभयोरप्यावयोरन्तरंयद्यस्मासु पराङ्मुखोऽसि वयमप्येकान्तितो निःस्पृहाः ॥२२००॥वल्लणस्य । (सु.र. १२२२) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP