संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|उच्चावचप्रवाहवीचयः| सुभाषित २२२१ - २२४० उच्चावचप्रवाहवीचयः उच्चावचप्रवाहवीचयः सुभाषित २००१ - २०२० सुभाषित २०२१ - २०४० सुभाषित २०४१ - २०६० सुभाषित २०६१ - २०८० सुभाषित २०८१ - २१०० सुभाषित २१०१ - २१२० सुभाषित २१२१ - २१४० सुभाषित २१४१ - २१६० सुभाषित २१६१ - २१८० सुभाषित २१८१ - २२०० सुभाषित २२०१ - २२२० सुभाषित २२२१ - २२४० सुभाषित २२४१ - २२६० सुभाषित २२६१ - २२८० सुभाषित २२८१ - २३०० सुभाषित २३०१ - २३२० सुभाषित २३२१ - २३४० सुभाषित २३४१ - २३६० सुभाषित २३६१ - २३८० उच्चावचप्रवाहवीचयः - सुभाषित २२२१ - २२४० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित सुभाषित २२२१ - २२४० Translation - भाषांतर ४५. क्षुद्रोदयदुःखितःसुखं जीवन्ति जातान्धाः पर्वताः सरितोऽपि च ।क्षुद्राभ्युदयसाक्षिभ्यामक्षिभ्यां हा हता वयम् ॥२२२१॥कस्यचित।धन्याः खलु नीचानां तृष्णातापार्तिविधुरमनसापि ।भ्रुकुटितरङ्गकुटिलां न दृष्टिसरितं विगाहन्ते ॥२२२२॥शङ्करधरस्य ।अलङ्घ्यं सर्वेषामिह खलु फलं कर्मजनितं विपत्कर्म प्रैष्या व्यथयति न जातासि हृदयम् ।यदज्ञाः कुर्वन्ति प्रसभमुपहासं धनमदाद्इदं त्वन्तर्गाढं परमपरितापं जनयति ॥२२२३॥ धर्माकरस्य ।हे लोचनद्वय चलज्जलबुद्बुदाभकिं न प्रयासि कटकामणिवद्विलीय ।यद्दैवलब्धवसुमूर्खमुखावलेपमुद्रामुदीक्षितुमयं तव जन्मलाभः ॥२२२४॥वाक्कोकस्य ।विद्यावानपि जन्मवानपि तथा युक्तोऽपि तैस्तैर्गुणैर्यन्नाप्नोति मनः समीहितफलं दैवस्य सा वाच्यता ।एतावत्तु हृदि व्यथां वितनुते यत्प्राक्तनैः कर्मभिर्लक्ष्मीं प्राप्य जडोऽप्यसाधुरपि च स्वां योग्यतां मन्यते ॥२२२५॥कस्यचित। (सु.र. १४८२)४६. दारिद्र्यम्लग्नः शृङ्गयुगे गृही सतनयो वृद्धौ गुरू पार्श्वयोःपुच्छाग्रे गृहिणी खुरेषु शिशवो लग्ना वधूः कम्बले ।एकः शीर्णजरद्गवो विधिवशात्सर्वस्वभूतो गृहेसर्वेणैव कुटुम्बकेन रुदता सुप्तः समुत्थाप्यते ॥२२२६॥कस्यचित। (सु.र. १३१७) प्रायो दरिद्रशिशवः परमन्दिराणांद्वारेषु दत्तकरपल्लवलीनदेहाः ।लज्जानिगूढवचसो बहुभोक्तुकामाभोक्तारमर्धनयनेन विलोकयन्ति ॥२२२७॥कस्यचित। (सु.र. १३२०)हलमगु बलस्यैकोऽनड्वान्हरस्य न लाङ्गलंपदपरिमिता भूमिर्विष्णोर्न गौर्न च लाङ्गलम् ।प्रभवति कृषिर्नैवाद्यापि द्वितीयगवं विनाजगति सकले नेदृग्दृष्टं दरिद्रकुटुम्बकम् ॥२२२८॥कस्यचित।मद्गेहे मुषलीव मूषकवधूर्मूषीव मार्जारिकामार्जारीव शुनी शुनीव गृहिणी वाच्यः किमन्यो जनः ।किं च क्षुत्क्लमघूर्णमाननयनैरुन्निद्रमुर्वीं गतैःकर्तुं वाग्व्ययमक्षमैः स्वजननी बालैः समालोक्यते ॥२२२९॥दुर्गतस्य । (स्व३१९७, कस्यापि) जरदम्बरसंवरणग्रन्थविधौ ग्रन्थकार एकोऽहम् ।परिमितकदन्नबण्टनविद्यापारंगता गृहिणी ॥२२३०॥भानोः । (सु.र. १३१३, वीरस्य)४७. सचटुदारिद्र्यम्अम्बा तुष्यति न मया न स्नुषया सापि नाम्बया न मया ।अहमपि न तया न तया वद राजन्कस्य दोषोऽयम् ॥२२३१॥ कस्यचित। (स.क.आ. ४.१९४, स्व३१८५, शा.प. ४११)आ जन्मनः सहजतुल्यविवर्तमानदौर्गत्यतोऽस्ति परमो न सुहृन्ममान्यः ।येनात्मनोऽपरिगणय्य विनाशमाशु देव त्वदाश्रयणपुण्यधनः कृतोऽस्मि ॥२२३२॥ दङ्कस्य ।दुर्गतिरेका वनिता ममापि पितुरियं पितामहस्यापि ।तत्कुरु नाथ यथायं जनपरिवादः प्रशान्तिमभ्येति ॥२२३३॥कस्यचित।दारिद्र्यगृध्रपरिभुक्तसमस्तमांसंस्नायूपरुद्धसकलास्थिचयावशेषम् ।पीयूषवृष्टिमिव नाथ निधेहि दृष्टिंकङ्कालजालमिदमङ्कुरमातनोति ॥२२३४॥कस्यचित।दारिद्र्यं नृपतिः स नो निजपतिर्यस्य प्रसादादभूद्याच्ञा जीवितमंशुकं दश दिशः सद्मानि देवालयाः ।मद्विद्वेषिणि लब्धसंनिधिरिति त्वय्याश्रये कुप्यतामद्वृत्त्यैव पुरस्कृतास्त्वदरयस्तेनाधुना का गतिः ॥२२३५॥वित्तपालस्य ।४८. दरिद्रगृही शीलं शातयति श्रुतं शमयति प्रज्ञां निहन्त्यादराद्दैन्यं दीपयति क्षमां क्षपयति व्रीडामपि व्यस्यति ।चेतो जर्जरयत्यपास्यति धृतिं विसातरयत्यर्थितांपुंसः क्षीणधनस्य किं न कुरुते वैरी कुटुम्बग्रहः ॥२२३६॥दामोदरस्य ।उत्तिष्ठ क्षणमेकमुद्वह सखे दारिद्र्यभारं गुरुंश्रान्तस्तावदहं चिरान्मरणजं सेवे त्वदीयं सुखम् ।इत्युक्तो धनवर्जितेन विदुषा गत्वा श्मशानं शवोदारिद्र्यान्मरणं वरं सुखमिति ज्ञात्वा स तूष्णीं स्थितः ॥२२३७॥ वसुकल्पस्य । (स्व३१९५)क्षुत्क्षामाः शिशवः शवा इव तनुर्मन्दादरो बान्धवोलिप्ता जर्जरकर्करीजललवैर्नो मां तथा बाधते ।गेहिन्याः स्फुटितांशुकं घटयितुं कृत्वा सकाकुस्मितंकुप्यन्ती प्रतिवेशिनी प्रतिमुहुः सूचीं यथा याचिता ॥२२३८॥कस्यचित। (सु.र. १३०७)तस्मिन्नेव गृहोदरे रसवती तत्रैव सा कण्डनीतत्रोपस्करणानि तत्र शिशवस्तत्रैव वासः स्वयम् ।सर्वं सोढवतोऽपि दुःस्थगृहिणः किं ब्रूमहे तां दशां अद्य श्वो विजनिष्यमाणगृहिणी तत्रैव यत्कुन्थति ॥२२३९॥वैनतेयस्य । (सु.र. १३१०)आस्तां किं बहुभिः परोपकृतयः संसारसारं फलंसिद्धं तत्प्रतिकूलवर्तिनि विधौ न स्तोकमप्यत्र नः ।एते स्मः किल मानुषा वयमपि व्यर्थं व्यपेतायुषोयेषां स्वोदरपूर्तिरेव हि किमप्यष्टौ महासिद्धयः ॥२२४०॥ कस्यचित। N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP