संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ९| सूक्तं १०७ मण्डल ९ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ सूक्तं १०४ सूक्तं १०५ सूक्तं १०६ सूक्तं १०७ सूक्तं १०८ सूक्तं १०९ सूक्तं ११० सूक्तं १११ सूक्तं ११२ सूक्तं ११३ सूक्तं ११४ मण्डल ९ - सूक्तं १०७ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं १०७ Translation - भाषांतर परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।दधन्वाँ यो नर्यो अप्स्वन्तरा सुषाव सोममद्रिभिः ॥१॥नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः ।सुते चित्त्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरम् ॥२॥परि सुवानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः ॥३॥पुनानः सोम धारयापो वसानो अर्षसि ।आ रत्नधा योनिमृतस्य सीदस्युत्सो देव हिरण्ययः ॥४॥दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् ।आपृच्छ्यं धरुणं वाज्यर्षति नृभिर्धूतो विचक्षणः ॥५॥पुनानः सोम जागृविरव्यो वारे परि प्रियः ।त्वं विप्रो अभवोऽङ्गिरस्तमो मध्वा यज्ञं मिमिक्ष नः ॥६॥सोमो मीढ्वान्पवते गातुवित्तम ऋषिर्विप्रो विचक्षणः ।त्वं कविरभवो देववीतम आ सूर्यं रोहयो दिवि ॥७॥सोम उ षुवाणः सोतृभिरधि ष्णुभिरवीनाम् ।अश्वयेव हरिता याति धारया मन्द्रया याति धारया ॥८॥अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः ।समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते ॥९॥आ सोम सुवानो अद्रिभिस्तिरो वाराण्यव्यया ।जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दधिषे ॥१०॥स मामृजे तिरो अण्वानि मेष्यो मीळ्हे सप्तिर्न वाजयुः ।अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः ॥११॥प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा ।अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम् ॥१२॥आ हर्यतो अर्जुने अत्के अव्यत प्रियः सूनुर्न मर्ज्यः ।तमीं हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः ॥१३॥अभि सोमास आयवः पवन्ते मद्यं मदम् ।समुद्रस्याधि विष्टपि मनीषिणो मत्सरासः स्वर्विदः ॥१४॥तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् ।अर्षन्मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् ॥१५॥नृभिर्येमानो हर्यतो विचक्षणो राजा देवः समुद्रियः ॥१६॥इन्द्राय पवते मदः सोमो मरुत्वते सुतः ।सहस्रधारो अत्यव्यमर्षति तमी मृजन्त्यायवः ॥१७॥पुनानश्चमू जनयन्मतिं कविः सोमो देवेषु रण्यति ।अपो वसानः परि गोभिरुत्तरः सीदन्वनेष्वव्यत ॥१८॥तवाहं सोम रारण सख्य इन्दो दिवेदिवे ।पुरूणि बभ्रो नि चरन्ति मामव परिधीँरति ताँ इहि ॥१९॥उताहं नक्तमुत सोम ते दिवा सख्याय बभ्र ऊधनि ।घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम ॥२०॥मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि ।रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ॥२१॥मृजानो वारे पवमानो अव्यये वृषाव चक्रदो वने ।देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि ॥२२॥पवस्व वाजसातयेऽभि विश्वानि काव्या ।त्वं समुद्रं प्रथमो वि धारयो देवेभ्यः सोम मत्सरः ॥२३॥स तू पवस्व परि पार्थिवं रजो दिव्या च सोम धर्मभिः ।त्वां विप्रासो मतिभिर्विचक्षण शुभ्रं हिन्वन्ति धीतिभिः ॥२४॥पवमाना असृक्षत पवित्रमति धारया ।मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि प्रयांसि च ॥२५॥अपो वसानः परि कोशमर्षतीन्दुर्हियानः सोतृभिः ।जनयञ्ज्योतिर्मन्दना अवीवशद्गाः कृण्वानो न निर्णिजम् ॥२६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP