संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ५| सूक्तं ५३ मण्डल ५ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ मण्डल ५ - सूक्तं ५३ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ५३ Translation - भाषांतर को वेद जानमेषां को वा पुरा सुम्नेष्वास मरुताम् ।यद्युयुज्रे किलास्यः ॥१॥ऐतान्रथेषु तस्थुषः कः शुश्राव कथा ययुः ।कस्मै सस्रुः सुदासे अन्वापय इळाभिर्वृष्टयः सह ॥२॥ते म आहुर्य आययुरुप द्युभिर्विभिर्मदे ।नरो मर्या अरेपस इमान्पश्यन्निति ष्टुहि ॥३॥ये अञ्जिषु ये वाशीषु स्वभानवः स्रक्षु रुक्मेषु खादिषु ।श्राया रथेषु धन्वसु ॥४॥युष्माकं स्मा रथाँ अनु मुदे दधे मरुतो जीरदानवः ।वृष्टी द्यावो यतीरिव ॥५॥आ यं नरः सुदानवो ददाशुषे दिवः कोशमचुच्यवुः ।वि पर्जन्यं सृजन्ति रोदसी अनु धन्वना यन्ति वृष्टयः ॥६॥ततृदानाः सिन्धवः क्षोदसा रजः प्र सस्रुर्धेनवो यथा ।स्यन्ना अश्वा इवाध्वनो विमोचने वि यद्वर्तन्त एन्यः ॥७॥आ यात मरुतो दिव आन्तरिक्षादमादुत ।माव स्थात परावतः ॥८॥मा वो रसानितभा कुभा क्रुमुर्मा वः सिन्धुर्नि रीरमत् ।मा वः परि ष्ठात्सरयुः पुरीषिण्यस्मे इत्सुम्नमस्तु वः ॥९॥तं वः शर्धं रथानां त्वेषं गणं मारुतं नव्यसीनाम् ।अनु प्र यन्ति वृष्टयः ॥१०॥शर्धंशर्धं व एषां व्रातंव्रातं गणंगणं सुशस्तिभिः ।अनु क्रामेम धीतिभिः ॥११॥कस्मा अद्य सुजाताय रातहव्याय प्र ययुः ।एना यामेन मरुतः ॥१२॥येन तोकाय तनयाय धान्यं बीजं वहध्वे अक्षितम् ।अस्मभ्यं तद्धत्तन यद्व ईमहे राधो विश्वायु सौभगम् ॥१३॥अतीयाम निदस्तिरः स्वस्तिभिर्हित्वावद्यमरातीः ।वृष्ट्वी शं योराप उस्रि भेषजं स्याम मरुतः सह ॥१४॥सुदेवः समहासति सुवीरो नरो मरुतः स मर्त्यः ।यं त्रायध्वे स्याम ते ॥१५॥स्तुहि भोजान्स्तुवतो अस्य यामनि रणन्गावो न यवसे ।यतः पूर्वाँ इव सखीँरनु ह्वय गिरा गृणीहि कामिनः ॥१६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP