संस्कृत सूची|संस्कृत स्तोत्र साहित्य|वेदः|ऋग्वेदः|मण्डल ५| सूक्तं ३० मण्डल ५ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ मण्डल ५ - सूक्तं ३० ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ३० Translation - भाषांतर क्व स्य वीरः को अपश्यदिन्द्रं सुखरथमीयमानं हरिभ्याम् ।यो राया वज्री सुतसोममिच्छन्तदोको गन्ता पुरुहूत ऊती ॥१॥अवाचचक्षं पदमस्य सस्वरुग्रं निधातुरन्वायमिच्छन् ।अपृच्छमन्याँ उत ते म आहुरिन्द्रं नरो बुबुधाना अशेम ॥२॥प्र नु वयं सुते या ते कृतानीन्द्र ब्रवाम यानि नो जुजोषः ।वेददविद्वाञ्छृणवच्च विद्वान्वहतेऽयं मघवा सर्वसेनः ॥३॥स्थिरं मनश्चकृषे जात इन्द्र वेषीदेको युधये भूयसश्चित् ।अश्मानं चिच्छवसा दिद्युतो वि विदो गवामूर्वमुस्रियाणाम् ॥४॥परो यत्त्वं परम आजनिष्ठाः परावति श्रुत्यं नाम बिभ्रत् ।अतश्चिदिन्द्रादभयन्त देवा विश्वा अपो अजयद्दासपत्नीः ॥५॥तुभ्येदेते मरुतः सुशेवा अर्चन्त्यर्कं सुन्वन्त्यन्धः ।अहिमोहानमप आशयानं प्र मायाभिर्मायिनं सक्षदिन्द्रः ॥६॥वि षू मृधो जनुषा दानमिन्वन्नहन्गवा मघवन्संचकानः ।अत्रा दासस्य नमुचेः शिरो यदवर्तयो मनवे गातुमिच्छन् ॥७॥युजं हि मामकृथा आदिदिन्द्र शिरो दासस्य नमुचेर्मथायन् ।अश्मानं चित्स्वर्यं वर्तमानं प्र चक्रियेव रोदसी मरुद्भ्यः ॥८॥स्त्रियो हि दास आयुधानि चक्रे किं मा करन्नबला अस्य सेनाः ।अन्तर्ह्यख्यदुभे अस्य धेने अथोप प्रैद्युधये दस्युमिन्द्रः ॥९॥समत्र गावोऽभितोऽनवन्तेहेह वत्सैर्वियुता यदासन् ।सं ता इन्द्रो असृजदस्य शाकैर्यदीं सोमासः सुषुता अमन्दन् ॥१०॥यदीं सोमा बभ्रुधूता अमन्दन्नरोरवीद्वृषभः सादनेषु ।पुरंदरः पपिवाँ इन्द्रो अस्य पुनर्गवामददादुस्रियाणाम् ॥११॥भद्रमिदं रुशमा अग्ने अक्रन्गवां चत्वारि ददतः सहस्रा ।ऋणंचयस्य प्रयता मघानि प्रत्यग्रभीष्म नृतमस्य नृणाम् ॥१२॥सुपेशसं माव सृजन्त्यस्तं गवां सहस्रै रुशमासो अग्ने ।तीव्रा इन्द्रमममन्दुः सुतासोऽक्तोर्व्युष्टौ परितक्म्यायाः ॥१३॥औच्छत्सा रात्री परितक्म्या याँ ऋणंचये राजनि रुशमानाम् ।अत्यो न वाजी रघुरज्यमानो बभ्रुश्चत्वार्यसनत्सहस्रा ॥१४॥चतुःसहस्रं गव्यस्य पश्वः प्रत्यग्रभीष्म रुशमेष्वग्ने ।घर्मश्चित्तप्तः प्रवृजे य आसीदयस्मयस्तम्वादाम विप्राः ॥१५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP