TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सुहृद्-भेदः - कथा ५

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


कथा ५
अस्ति काञ्चनपुर-नाम्नि नगरे वीरविक्रमो राजा । तस्य धर्माधिकारिणा कश्चिन् नापितो वध्य-भूमिं नीयमानः कंदर्पकेतु-नाम्ना परिव्राजकेन साधु-द्वितीयकेन नायं हंतव्यः इत्य् उक्त्वा वस्त्राञ्चलेन धृतः । राज-पुरुषा ऊचुः-किम् इति नायं वध्यः ।
स आह-श्रूयताम् । स्वर्ण-रेखाम् अहं स्पृष्ट्वा इत्य् आदि पठति ।
त आहुः--कथम् एतत् ?
परिव्राजकः कथयति-अहं सिंहल-द्वीपस्य भूपतेर् जीमूतकेतः पुत्रः दंदर्पकेतुर् नाम । मध्ये चतुर्दश्याम् आविर्भूत-कल्पतरु-तले रत्नावली-किरण-कबूतर-पर्यंक-स्थिता सर्वालंकार-भूषिता लक्ष्मीर् इव वीनां वादयंती कंया काचिद् दृश्यते इति । ततो हं पोत-व्णिजम् आदाय पोतम् आरुह्य तत्र गतः । अनंतरं तत्र गत्वा पर्यंकेधमग्रा तथैव सावलोकिता । ततस् तल्-लावण्य-गुणाकृष्टेन मयापि तत्-पश्चाज् झंपो दत्तः । तद्-अनंतरं कनकपत्तनं प्राप्य सुवर्ण-प्रासादे तथैव पर्यंके स्थिता विद्याधरीभिर् उपास्यमाना मयालोकिता । तथाप्य् अहं दूराद् एव दृष्ट्वा सखीं प्रस्थाप्य सादरं संभाषितः । तत्-सख्या च मया पृष्टया समाख्यातम्-एषा कंदर्पकेलि-नाम्नो विद्याधर-चक्रवर्तिनः पुत्री रत्नमञ्जरी नाम प्रतिज्ञापिता विद्यते । यः कनकवर्तनं स्व-चक्षुषागत्य पश्यति, स एव पितुर् अगोचरो पि मां परिणेष्यतीति मनसः संकल्पः । तद् एनां गांधर्व-विवाहेन परिणयतु भवान् । अथ तत्र वृत्ते गंधर्व-विवाहे तथा सह रममाणस् तत्राहं तिष्ठामि । तत एकदा रहसि तयोक्तम्-स्वामिन् ! स्वेच्छया सर्वम् इदम् उपभोक्तव्यम् । एषा चित्र-गता स्वर्ण-रेखा नाम विद्याधरी न कदाचित् स्प्रष्टव्या । पश्चाद् उपजात-कौतुकेन मया स्वर्णरेखा स्व-हस्तेन स्पृष्टा । तथा चित्रतयाप्य् अहं चरण-पद्मेन ताडित आगत्य स्व-राष्ट्रे पतितः ।
अथ दुःखितो हं परिव्रजितः पृथिवीं परिभ्राम्यंन् इमां न्गरीम् अनुप्राप्तः । अत्र चातिकांते दिवसे गोप-गृहे सुप्तः संन् अपश्यम् । प्रदोष-समये पशूनां पालनं कृत्वा स्व-गेहम् आगतो गोपः स्व-वधूं दूत्या सह किम् अपि मंत्रयंतीम् अपश्यत् । ततस् तां गोपीं ताडयित्वा स्तंभे बढ्वा सुप्तः । ततो र्ध-रात्रे एतस्य नापितस्य वधूर् दूती पुनस् तां गोपीम् उपेत्यावदत्-तव विरहानल-दग्धो सौ स्मर-शर-जर्जरितो मुमूर्षुर् इव वर्तते । तथा चोक्तम्-
रजनी-चर-नाथेन खंडिते तिमिरे निशि । यूनां मनांसि विव्याध दृष्ट्वा दृष्ट्वा मनोभवः ॥१११॥
तस्य तादृशीम् अवस्थाम् अवलोक्य परिक्लिष्ट-मनास् त्वाम् अनुवर्तितुम् आगता । तद् अहम् अत्रात्मानं बढ्वा तिष्ठामि । त्वं तत्र गत्वा तं संतोष्य सत्वरम् आगमिष्यसि । तथानुष्ठिते सति स गोपः प्रबुढो वदत्-इदानीं त्वां पापिष्ठां जारांतिकं नयामि । ततो यदासौ न किंचिद् अपि ब्रूते तदा क्रुढो गोपः-दर्पान् मम वचसि प्रत्युत्तरम् अपि न ददासि इत्य् उक्त्वा कोपेन तेन कर्तरिकामादायास्या नासिका छिन्ना । तथा कृत्वा पुनः सुप्तो गोपो निद्राम् उपगतः । अथागत्य गोपी दूतीम् अपृच्छत्-का वार्ता ?
दूत्योक्तम्-पश्य माम् । मुखम् एव वार्तां कथयति ।
अनंतरं सा गोपी तथा कृत्वात्मानं बढ्वा स्थिता । इयं च दूती तां छिन्न-नासिकां गृहीत्वा स्व-गृहं प्रविश्य स्थिता । ततः प्रातर् एवानेन नापितेन स्व-वधूः क्षुर-भांडं याचिता सती क्षुरम् एकं प्रादात् । ततो समग्र-भांडे प्राप्ते समुपजात-कोपो यं नापितस् तं क्षुरं दूराद् एव गृहे क्षिप्तवान् । अथ कृतार्तरायेयं मे नासिकानेन छिंनेत्य् उक्त्वा धर्माधिकारि-समीपम् एतम् आनीतवती । सा च गोपी तेन गोपेन पुनः पृष्टोवाच-अरे पाप ! को मां महासती विरूपयितुं समर्थः । मम व्यवहारम् अकल्मषम् अष्टौ लोकपाला एव जानंति, यतः-
आदित्य-चंद्रावनिलानलश् च द्यौर् भूमिर् आपो हृदयं यमश् च । अहश् च रात्रिश् च उभे च संध्ये धर्मश् च जानाति नरस्य वृत्तम् ॥११२॥
अतथ्यांय् अपि तथ्यानि दर्शयंति हि पेशलाः । समे निम्नोन्नतानीव चित्र-कर्म-विदो जनाः ॥११३॥
उत्पंनेषु च कार्येषु मतिर् यस्य न हीयते । स निस्तरति दुर्गाणि गोपी जार-द्वयं यथा ॥११४॥
करटकः पृच्छति-कथम् एतत् ?

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:41.1000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

formal character

  • न. रीतसर स्वरुप 
  • न. औपचारिक स्वरुप 
RANDOM WORD

Did you know?

आत्मा जेव्हा शरीर सोडतो तेव्हा त्याचा पुढचा प्रवास कसा असतो?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site