TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सुहृद्-भेदः - कथा ४

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


कथा ४
अस्ति श्री-पर्वत-मध्ये ब्रह्मपुराख्यं नगरम् । तच्-छिखर-प्रदेशे घंटाकर्णो नाम राक्षसः प्रतिवसतीति जन-प्रवादः श्रूयते । एकदा घंटाम् आदाय पलायमानः कश्चिच् चौरो व्याघ्रेण व्यापादितः । तत्-पाणि-पतिता घंटा वानरैः प्राप्ता । वानरास् तां घंटाम् अनुक्षणं वादयंति । ततो नगर-जनैः स मनुष्यः खादितो दृष्टः प्रतिक्षणं घंटा-रवश् च श्रूयते । अनंतरं घंटाकर्णः कुपितो मनुष्यान् खादति घंटां च वादयतीत्य् उक्त्वा सर्वे जना नगरात् पलायिताः । ततः करालया नाम कुट्टंया विमृश्यानवरो यं घंटा-नादः । तत् किं मर्कटा घंटां वादयंतीति स्वयं विज्ञाय राजा विज्ञापितः-देव ! यदि कियद् धनोपक्षयः क्रियते, तदाहम् एनं घंटाकर्णं साधयामि ।
ततो राजा तस्यै धनं दत्तम् । कुट्टंया मंडलं कृत्वा तत्र गणेशादि-पूजा-गौरवं दर्शयित्वा स्वयं वानर-प्रिय-फलांय् आदाय वनं प्रविश्य फलांय् आकीर्णानि । ततो घंटां परित्यज्य वानराः फलासक्ता बभूवुः । कुट्टनी च घंटां गृहीत्वा नगरम् आगता सर्व-जन-पूज्याभवत् । अतो हं ब्रवीमि-शब्द-मात्रान् न भेतव्यम् इत्य् आदि । ततः संजीवकम् आनीय दर्शनं कारितवंतौ । पश्चात् तत्रैव परम-प्रीत्या निवसति ।

अथ कदाचित् तस्य सिंहस्य भ्राता स्तब्ध-कर्ण-नामा सिंहः समागतः । तस्यातिथ्यं कृत्वा सिंहम् उपवेश्य पिंगलकस् तद्-आहाराय पशुं हंतुं चलितः । अत्रांतरे संजीवको वदति-देव ! अद्य हत-मृगाणां मांसानि क्व ?
राजाह-दमनक-करटकौ जानीतः ।
संजीवको ब्रूते-ज्ञायतां किम् अस्ति नास्ति वा ?
सिंहो विमृश्याह-नास्त्य् एव तत् ।
संजीवको ब्रूते-कथम् एतावन् मांसं ताभ्यां खादितम् ?
राजाह-खादितं व्ययितम् अवधीरितं च । प्रत्यहम् एष क्रमः ।
संजीवको ब्रूते-कथं श्रीमद्-देव-पादानां अगोचरेणैव क्रियते ?
राजाह-मदीयागोचरेणैव क्रियते ।
अथ संजीवको ब्रूते-नैतद् उचितम् । तथा चोक्तम्-
नानिवेद्य प्रकुर्वीत भर्तुः किंचिद् अपि स्वयम् । कार्यम् आपत्-प्रतीकाराद् अंयत्र जगती-पते ॥९०॥
अंयच् च- कमंडलूपमो मात्यस् तनु-त्यागी बहु-ग्रहः । नृपते किंक्षणो मूर्खो दरिद्रः किंवराटकः ॥९१॥
स ह्य् अमात्यः सदा श्रेयान् काकिनीं यः प्रवर्धयेत् । कोषः कोषवतः प्राणाः प्राणाः प्राणा न भूपतेः ॥९२॥
किं चार्थैर् न कुलाचारैः सेवताम् एति पूरुषः । धन-हीनः स्व-पत्ंयापि त्यज्यते किं पुनः परैः ॥९३॥
एतच् च राज्ञः प्रधानं दूषणम्-
अतिव्ययो नपेक्षा च तथार्जनम् अधर्मतः । मोषणं दूर-संस्थानां कोष-व्यसनम् उच्यते ॥९४॥
यतः- क्षिप्रम् आयतम् अनालोच्य व्ययमानः स्व-वाञ्छया । परिक्षीयत एवासौ धनी वैश्रवणोपमः ॥९५॥
स्तब्धकर्णो ब्रूते-शृणु भ्रातः चिराश्रिताद् एतौ दमनक-करटकौ संधि-विग्रह-कार्याधिकारिणौ च कदाचिद् अर्थाधिकारे न नियोक्तव्यौ । अपरं च नियोग-प्रस्तावे यन् मया श्रुतं तत् कथ्यते ।
ब्राह्मणः क्षत्रियो बंधुर् नाधिकारे प्रशस्यते । ब्राह्मणः सिढम् अप्य् अर्थं कृच्छ्रेणापि न यच्छति ॥९६॥
नियुक्तः क्षत्रियो द्रव्ये खड्गं दर्शयते ध्रुवम् । सर्वस्वं ग्रसते बंधुर् आक्रम्य ज्ञाति-भावतः ॥९७॥
अपराधेपि निःशंको नियोगी चिर-सेवकः । स स्वामिनम् अवज्ञाय चरेच् च निरवग्रहः ॥९८॥
उपकर्ताधिकार-स्थः स्वापराधं न मंयते । उपकारं ध्वजी-कृत्य सर्वम् एव विलुंपति ॥९९॥
उपंशु-क्रीडितो मात्यः स्वयं राजायते यतः । अवज्ञा क्रियते तेन सदा परिचयाद् ध्रुवम् ॥१००॥
अंतर्-दुष्टः क्षमा-युक्तः सर्वानर्थ-करः किल । शकुनिः शकटारश् च दृष्टांताव् अत्र भूपते ॥१०१॥
सदामत्यो न साध्यः स्यात् समृढः सर्व एव हि । सिढानाम् अयम् आदेशः ऋढिश् चित्त-विकारिणी ॥१०२॥
प्राप्तार्थ-ग्रहणं द्रव्य-परीवर्तो नुरोधनम् । उपेक्षा बुढि-हीनत्वं भोगो मात्यस्य दूषणम् ॥१०३॥
नियोग्य् अर्थ-ग्रहोपायो राज्ञा नित्य-परीक्षणम् । प्रतिपत्ति-प्रदानं च तथा कर्म-विपर्ययः ॥१०४॥
निपीडिता वमंत्य् उच्चैर् अंतः-सारं महीपतेः । दुष्ट-व्रणा इव प्रायो भवंति हि नियोगिनः ॥१०५॥
मुहुर् नियोगिनी बाध्या वसुधारा महीपते । सकृत् किं पीडितं स्नान-वस्त्रं मुञ्चेद् धृतं पयः ॥१०६॥
एतत् सर्वं यथावसरं ज्ञात्वा व्यवहर्तव्यम् ।
सिंहो ब्रूते-अस्ति तावद् एवम् । किंत्व् एतौ सर्वथा न मम वचन-कारिणौ ।
स्तब्धकर्णो ब्रूते-एतत् सर्वम् अनुचितं सर्वथा । यतः-
आज्ञा-भंग-करान् राजा न क्षमेत सुतान् अपि । विशेषः को नु राज्ञश् च राज्ञश् चित्र-गतस्य च ॥१०७॥
स्तब्धस्य नश्यति यशो विषम् अस्य मैत्री नष्टेंद्रियस्य कुलम् अर्थ-परस्य धर्मः । विद्या-फलं व्यसनिनः कृपणस्य सौख्यं राज्यं प्रमत्त-सचिवस्य नराधिपस्य ॥१०८॥
अपरं च- तस्करेभ्यो नियुक्तेभ्यः शत्रुभ्यो नृप-वल्लभात् । नृपतिर् निज-लोभाच् च प्रजा रक्षेत् पितेव हि ॥१०९॥
भ्रातः ! सर्वथास्मद्-वचनं क्रियताम् । व्यवहारो प्य् अस्माभिः कृत एव । अयं संजीवकः सस्य-भक्षको र्थाधिकारे नियुज्यताम् ।
एतद्-वचनात् तथानुष्ठिते सति तद् आरभ्य पिंगलक-संजीवकयोः सर्व-बंधु-परित्यागेन महता स्नेहेन कालो तिवर्तते । ततो नुजीविनाम् अप्याहार-दाने शैथिल्य-दर्शनाद् दमनक-करटकाव् अंयोंयं चिंतयतः । तद् आह दमनकः करटकम्-मित्र ! किं कर्तव्यम् ? आत्म-कृतो यं दोषः । स्वयं कृतेपि दोषे परिदेवनम् अप्य् अनुचितम् । तथा चोक्तम्-
स्वर्ण-रेखाम् अहं स्पृष्ट्वा बढ्वात्मानं च दूतिका । आदित्सुश् च मणिं साधुः स्व-दोषाद् दुःखिता इमे ॥११०॥
करटको ब्रूते--कथम् एतत् ?
दमनकः कथयति-

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:41.0530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Morrison's pouch

  • मॉरिसन कोष्ठ 
  • (also called hepatorenal pouch) 
RANDOM WORD

Did you know?

जानवे म्हणजे नेमके काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.