TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सुहृद्-भेदः - कथा ९

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


कथा ९
दक्षिण-समुद्र-तीरे टिट्टिभ-दंपती निवसतः । तत्र चासन्न-प्रसदा टिट्टिभी भर्तारम् आह-नाथ ! प्रसव-योग्य-स्थानं निभृतम् अनुसंधीयताम् ।
टिट्टिभो वदत्-भार्ये, नंव् इदम् एव स्थानं प्रसूति-योग्यम् ।
सा ब्रूते-समुद्र-वेलया व्याप्यते स्थानम् एतम् ।
टिट्टिभो वदत्-किम् अहं त्वया निर्बलः समुद्रेण निग्रहीतव्यः ।
टिट्टिभी विहस्याह-स्वामिन् ! त्वया समुद्रेण च महद् अंतरम् । अथवा-
पराभवं परिच्छेत्तुं योग्यायोग्यं च वेत्ति यः । अस्तीह यस्य विज्ञानं कृच्छ्रेणापि न सीदति ॥१५०॥
अपि च- अनुचित-कार्यारंभः स्वजन-विरोधो बलीयसा स्पर्धा । प्रमदा-जन-विश्वासो मृत्योर् द्वाराणि चत्वारि ॥१५१॥
ततः कृच्छ्रेण स्वामि-वचनात्मा तत्रैव प्रसूता । एतत् सर्वं श्रुत्वा समुद्रेणापि यच् छक्ति-ज्ञानार्थं तद्-अंडांय् अवहृतानि । ततष् टिट्टिभी शोकार्ता भर्तारम् आह-नाथ ! कष्टम् आपतितम् । तांय् अंडानि मे नष्टानि ।
टिट्टिभो वदत्-प्रिये ! मा भैषीः इत्य् उक्त्वा पक्षिणां मेलकं कृत्वा पक्षि-स्वामिनो गरुडस्य समीपं गतः । तत्र गत्वा सकल-वृत्तांतं टिट्टिभेन भगवतो गरुडस्य पुरतो निवेदितम्-देव, समुद्रेणाहं स्व-गृहावस्थितो विनापराधनेनैव निगृहीतः ।
ततस् तद्-वचनम् आकर्ण्य गरुत्मना प्रभुर् भगवान् नारायणः सृष्टि-स्थिति-प्रलय-हेतुर् विज्ञप्तः । स समुद्रम् अंड-दानायादिदेश । ततो भगवद्-आज्ञां मौलौ निधाय समुद्रेण तांय् अंडानि टिट्टिभाय समर्पितानि । अतो हं ब्रवीमि-अंगांगि-भावम् अज्ञात्वा इत्य् आदि ।
राजाह-कथम् असौ ज्ञातव्यो द्रोह-बुढिर् इति ।
दमनको ब्रूते-यदासौ स-दर्पः शृंगाग्र-प्रहरणाभिमुखश् चकितम् इवागच्छति तदा ज्ञास्यति स्वामी । एवम् उक्त्वा संजीवक-समीपं गतः । तत्र गतश् च मंदं मंदम् उपसर्पन् विस्मितम् इवात्मानम् अदर्शयत् । संजीवकेन सादरम् उक्तम्-भद्र ! कुशलं ते ।
दमनको ब्रूते-अनुजीविनां कुतः कुशलम् । यतः-
संपत्तयः पराधीनाः सदा चित्तम् अनिर्वृत्तम् । स्व-जीइवितेप्य् अविश्वासस् तेषां ये राज-सेवकाः ॥१५२॥
अंयच् च- को र्थान् प्राप्य न गर्वितो विषयिणः कस्यापदो स्तं गताः स्त्रीभिः कस्य न खंडितं भुवि मनः को वास्ति राज्ञां प्रिया । कः कालस्य भुजांतरं न च गतः को र्थी गतो गौरवं को वा दुर्जन-वागुरासु पतितः क्षेमेण यातः पुमान् ॥१५३॥
संजीवकेनोक्तम्-सखे ! ब्रूहि किम् एतत् ?
दमनक आह-किं ब्रवीमि मंद-भाग्यः । पश्य-
मज्जंन् अपि पयोराशौ लब्ध्वा सर्पावलंबनम् । न मुञ्चति न चादत्ते तथा मुग्धो स्मि संप्रति ॥१५४॥
यतः- एकत्र राज-विश्वासो नश्यत्य् अंयत्र बांधवः । किं करोमि क्व गच्छामि पतित् ओ दुःख-सागरे ॥१५५॥
इत्य् उक्त्वा दीर्घः निःश्वस्योपविष्टः । संजीवको ब्रूते-मित्र ! तथापि स-विस्तरं मनोगतम् उच्यताम् ।
दमनकः सुनिभृतम् आह-यद्यपि राज-विश्वासो न कथनीयस् तथापि भवान् अस्मदीय-प्रत्ययाद् आगतः । मया परलोकार्थिनावश्यं तव हितम् आख्येयम् । शृणु, अयं स्वामी तवोपरि विकृत-बुढी रहस्य् उक्तवान् -संजीवकम् एव हत्वा स्व-परिवारं तर्पयामि ।
एतच् छ्रुत्वा संजीवकः परं विषादम् अगमत् । दमनकः पुनर् आह-अलं विषादेन । प्राप्त-कालकायम् अनुष्ठीयताम् । संजीवकः क्षणं विमृश्याह स्व-गतम्-सुष्ठु खल्व् इदम् उच्यते । किं वा दुर्जन-चेष्टितं न वेत्य् एतद् व्यवहारान् निर्णेतुं न शक्यते । यतः- दुर्जन-गम्या नार्यः प्रायेणापात्र-भृद् भवति राजा । कृपणानुसारि च धनं देवो गिरि-जलधि-वर्षी च ॥१५६॥
कश्चिद् आश्रय-सौंदर्याद् धत्ते शोभाम् असज्जनः । प्रमदालोचन-ंयस्तं मलीमसम् इवाञ्जनम् ॥१५७॥
आराध्यमानो नृपतिः प्रयत्नान् न तोषम् आयाति किम् अत्र चित्रम् । अयं त्व् अपूर्व-प्रतिमा-विशेषो यः सेव्यमानो रिपुताम् उपैति ॥१५८॥
तद् अयम् अशक्यर्थः प्रमेयः, यतः-
निमित्तम् उद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति । अकारण-द्वेषि मनस् तु यस्य वै कथं जनस् तं परितोषयिष्यति ॥१५९॥
किं मयापकृतं राज्ञः । अथवा निर्निमित्तापकारिणश् च भवंति राजानः ।
दमनको ब्रूते-एवम् एतत् । शृणु-
विज्ञैः स्निग्धैर् उपकृतम् अपि द्वेष्यताम् एति कैश्चित् साक्षाद् अंयैर् अपकृतम् अपि प्रीतिम् एवोपयाति । चित्रं चित्रं किम् अथ चरितं नैकभावाश्रयाणां सेवा-धर्मः परम-गहनो योगिनाम् अप्य् अगम्यः ॥१६०॥
अंयच् च- कृत-शतम् असत्सु नष्टं सुभाषित-शतं च नष्टम् अबुधेषु । वचन-शतम् अवचन-करे बुढि-शतम् अचेतने नष्टम् ॥१६१॥
किं च- चंदन-तरुषु भुजंगा जलेषु कमलानि तत्र च ग्राहाः । गुण-घातिनश् च भोगे खला न च सुखांय् अविघ्नानि ॥१६२॥
मूलं भुजंगैः कुसुमानि भृंगैः शाखाः प्लवंगैः शिखराणि भल्लैः । नास्त्य् एव तच्-चंदन-पादपस्य यन् नाश्रितं दुष्टतरैश् च हिंस्रैः ॥१६३॥
अयं तावत् स्वामी वाचि मधुरो विष-हृदयो ज्ञातः । यतः-
दूराद् उच्छ्रित-पाणिर् आद्र-नयनः प्रोत्सारितार्धासनो गाढालिंगन-तत्-परः प्रिय-कथा-प्रश्नेषु दत्तादरः । अंतर्भूत-विषो बहिर् मधुमयश् चातीव माया-पटुः को नामायम् अपूर्व-नाटक-विधिर् यः शिक्षितो दुर्जनैः ॥१६४॥
तथा हि- पोतो दुस्तर-वारि-राशितरणे दीपो ंधकारागमे निर्वाते व्यजनं मदांध-करिणां दर्पोपशांत्यै सृणिः । इठं तद् भुवि नास्ति यस्य विधिना नोपाय-चिंता कृता मंये दुर्जन-चित्त-वृत्ति-हरणे धातापि भग्नोद्यमः ॥१६५॥
संजीवकः पुनर् निःश्वस्य-कष्टं भोः ! कथम् अहं सस्य-भक्षकः सिंहेन निपातयितव्यः ? यतः-
ययोर् एव समं वित्तं ययोर् एव समं बलम् । तयोर् विवादो मंतव्यो नोत्तमाधमयोः क्वचित् ॥१६६॥

अयुढे हि यदा पश्येन् न काञ्चिद् हितम् आत्मनः । युध्यमानस् तदा प्राज्ञो म्रियते रिपुणा सह ॥१७०॥

अपरं च- भूम्य्-एक-देशस्य गुणांवितस्य भृत्यस्य वा बुढिमतः प्रणाशः । भृत्य-प्रणाशो मरणं नृपाणां नष्टापि भूमिः सुलभा न भृत्याः ॥१७७॥
दमनको ब्रूते-स्वामिन् ! को यं नूतनो ंयायो यद् अरातिं हत्वा संतापः क्रियते ? तथा चोक्तम्-
पिता वा यदि वा भ्राता पुत्री वा यदि वा सुहृत् । प्राण-च्छेद-करा राज्ञा हंतव्या भूतिम् इच्छता ॥१७८॥
अपि च- धर्मार्थ-काम-तत्त्वज्ञो नैकांत-करुणो भवेत् । नहि हस्तस्थम् अप्य् अन्नं क्षमावान् भक्षितुं क्षमः ॥१७९॥
किं च- क्षमा शत्रौ च मित्रे च यतीनाम् एव भूषणम् । अपराधिषु सत्त्वेषु नृपाणां सैव दूषणम् ॥१८०॥
अपरं च- राज्य-लोभाद् अहंकाराद् इच्छतः स्वामिनः पदम् । प्रायश्चित्तं तु तस्यैकं जीवोत्सर्गो न चापरम् ॥१८१॥
अंयच् च- राजा घृणी ब्राह्मणः सर्व-भक्षी स्त्री चावज्ञा दुष्प्रकृतिः सहायः । प्रेष्यः प्रतीपो धिकृतः प्रमादी त्याज्या इमे यश् च कृतं न वेत्ति ॥१८२॥
विशेषतश् च- सत्यानृता च परुषा प्रिय-वादिनी च हिंस्रा दयालुर् अपि चार्थ-परा वदांया । नित्य-व्यया प्रचुर-रत्न-धनागमा च वारांगनेव नृप-नीतिर् अनेक-रूपा ॥१८३॥
इति दमनकेन संतोषितः पिंगलकः स्वां प्रकृतिम् आपन्नः सिंहासने समुपविष्टः । दमनकः प्रहृष्ट-मनाः विजयतां महाराजः शुभम् अस्तु सर्व-जगताम् इत्य् उक्त्वा यथा-सुखम् अवस्थितः ।
विष्णु-शर्मोवाच-सुहृद्-भेदः श्रुतस् तावद् भवद्भिः ।
राज-पुत्रा ऊचुः-भवत्-प्रसादाच् छ्रुतः । सुखिनो भूता वयम् ।
विष्णुशर्माब्रवीत्-अपरम् अपीदम् अस्तु-
सुहृद्-भेदस् तावद् भवतु भवतां शत्रु-निलये खलः कालाकृष्टः प्रलयम् उपसर्पत्व् अहर्-अहः । जनो नित्यं भूयात् सकल-सुख-संपत्ति-वसतिः कथारंभे रंभ्ये सततम् इह बालो पि रमताम् ॥१८४॥
इति हितोपदेशे सुहृद्-भेदो नाम द्वितीयः कथा-संग्रहः समाप्तः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:41.3200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मींजुम्ला

  • पु. समुदाय . [ फा .] 
RANDOM WORD

Did you know?

मृत माणसाच्या दहाव्याच्या पिंडाला कावळा न शिवल्यास धर्मशास्त्राप्रमाणे अन्य उपाय कोणता?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.