TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सुहृद्-भेदः - कथा २

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


कथा २
अस्ति वाराणस्यां कर्पूर-पटको नाम रजकः । स रात्रौ गाढ-निद्रायां प्रसुप्तः । तद्-अनंतरं तद्-गृह-द्रव्याणि हर्तुं चौरः प्रविष्टः । तस्य प्रांगणे गर्दभो बढस् तिष्ठति । कुक्कुरश् चोपविष्टो स्ति । अथ गर्दभः श्वानम् आह-सखे ! भवतस् तावद् अयं व्यापारः । तत् किम् इति त्वम् उच्चैः शब्दं कृत्वा स्वामिनं न जागरयसि ।
कुक्कुरो ब्रूते-भद्र ! मम नियोगस्य चर्चा त्वया न कर्तव्या । त्वम् एव किं न जानासि यथा तस्याहर्निशं गृह-रक्षां करोमि । यतो यं चिरान् निर्वृतो ममोपयोगं न जानाति । तेनाधुनापि ममाहार-दाने मंदादरः । यतो विना विधुर-दर्शनं स्वामिन उपजीविषु मंदादरा भवंति ।
गर्दभो ब्रूते-शृणु रे बर्बर ! याचते कार्य-काले यः स किं-भृत्यः स किं-सुहृत् ।
कुक्कुरो ब्रूते- भृत्यान् संभाषयेद् यस् तु कार्य-काले स किं-प्रभुः ॥३२॥
यतः- आश्रितानां भृतौ स्वामि-सेवायां धर्म-सेवने । पुत्रस्योत्पादने चैव न संति प्रतिहस्तकाः ॥३३॥
ततो गर्दभः स-कोपम् आह-अरे दुष्ट-मते ! पापीयांस् त्वं यद् विपत्तौ स्वामि-कार्ये उपेक्षां करोषि । भवतु तावत् । यथा स्वामी जागरिष्यति, तन् मया कर्तव्यम् । यतः- पृष्ठतः सेवयेद् अर्कं जठरेण हुताशनम् । स्वामिनं सर्व-भावेन परलोकम् अमायया ॥३४॥
इत्य् उक्त्वातीव चीत्कार-शब्दं कृतवान् । ततः स रजकस् तेन चीत्कारेण प्रबुढो निद्रा-भंग-कोपाद् उठाय गर्दभं लगुडेन तादयामास । तेनासौ पञ्चत्वम् अगमत् । अतो हं ब्रवीमि-पराधिकार-चर्चाम् इत्य् आदि । पश्य, पशूनाम् अंवेषणम् एवास्मन्-नियोगः । स्व-नियोग-चर्चा क्रियताम् । किंत्व् अद्य तया चर्चया न प्रयोजनम् । यत आवयोर् भक्षित-शेषाहारः प्रचुरो स्ति ।
दमनकः सरोषम् आह-कथम् आहारार्थी भवान् केवलं राजानं सेवते ? एतद् अयुक्तम् उक्तं त्वया । यतः-
सुहृदाम् उपकार-कारणाद् द्विषताम् अप्य् अपकार-कारणात् । नृप-संश्रय इष्यते बुधैर् जठरं को न बिभर्ति केवलम् ॥३५॥
जीविते यस्य जीवंति विप्रा मित्राणि बांधवाः । सफलं जीवितं तस्य आत्मार्थे को न जीवति ॥३६॥
अपि च- यस्मिन् जीवति जीवंति बहवः स तु जीवतु । काको पि किं न कुरुते चञ्च्वा स्वोदर-पूरणम् ॥३७॥
पश्य- पञ्चभिर् याति दासत्वं पुराणैः को पि मानवः । को पि लक्षैः कृती को पि लक्षैर् अपि न लभ्यते ॥३८॥
अंयच् च- मनुष्य-जातौ तुल्यायां भृत्यत्वम् अति-गर्हितम् । प्रथमो यो न तन् नापि स किं जीवत्सु गण्यते ॥३९॥
तथा चोक्तं- वाजि-वारण-लोहानां काष्ठ-पाषाण-वाससाम् । नारी-पुरुष-तोयानाम् अंतरं हद-हंतरम् ॥४०॥
तथा हि स्वल्पम् अप्य् अतिरिच्यते- स्वल्प-स्नायु-वसावशेष-मलिनं निर्मांसम् अप्य् अस्थिकं श्वा लब्ध्वा परितोषम् एति न भवेत् तस्य क्षुधः शांतये । सिंहो जंबुकम् अंकम् आगतम् अपि त्यक्त्वा निहंति द्विपं सर्वः कृच्छ्र-गतो पि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥४१॥अपरं च, सेव्य-सेवकयोर् अंतरं पश्य-
लांगूल-चालनम् अधश् चरणावपातं भूमौ निपत्य वदनोदर-दर्शनं च । श्वा पिंडदस्य कुरुते गज-पुंगवस् तु धीरं विलोकयति चाटु-शतैश् च भुंक्ते ॥४२॥
किं च- यज् जीव्यते क्षणम् अपि प्रथितं मनुष्यैर् विज्ञान-विक्रम-यशोभिर् अभज्यमानम् । तन् नाम जीवितम् इह प्रवदंति तज्-ज्ञाः काको पि जीवति चिराय बलिं च भुंक्ते ॥४३॥
अपरं च- यो नात्मजे न च गुरौ न च भृत्य-वर्गे दीने दयां न कुरुते न च बंधु-वर्गे । किं तस्य जीवित-फलेन मनुष्य-लोके काको पि जीवति चिराय बलिं च भुंक्ते ॥४४॥
अपरम् अपि- अहित-हित-विचार-शूंय-बुढेः श्रुति-समयैर् बहुभिर् बहिष्कृतस्य । उदर-भरण-मात्र-केवलेच्छोः पुरुष-पशोश् च पशोश् च को विशेषः ॥४५॥
करटको ब्रूते-आवां तावद् अप्रधानौ । तदाप्य् आवयोः किम् अनया विचारणया ।
दमनको ब्रूते-कियता कालेनामात्याः प्रधानताम् अप्रधानतां वा लभंते, यतः-
न कस्यचित् कश्चिद् इह स्वभावाद् भवत्य् उदारो भिमतः खलो वा । लोके गुरुत्वं विपरीततां वा स्व-चेष्टितांय् एव नरं नयंति ॥४६॥
किं च- आरोप्यते शिला शैले यत्नेन महता यथा । निपात्यते क्षणेनाधस् तथात्मा गुण-दोषयोः ॥४७॥
यात्य् अधो धः व्रजत्य् उच्चैर् नरः स्वैर् एव कर्मभिः । कूपस्य खनिता यद्वत् प्राकारस्येव कारकः ॥४८॥
तद् भद्रम् । स्वयत्नायत्तो ह्य् आत्मा सर्वस्य ।
करटको ब्रूते-अथ भवान् किं ब्रवीति ?
स आह-अयं तावत् स्वामी पिंगलकः कुतो पि कारणात् स-चकितः परिवृत्योपविष्टः ।
करटको ब्रूते- उदीरितो र्थः पशुनापि गृह्यते हयाश् च नागाश् च वहंति चोदिताः । अनुक्तम् अप्य् ऊहति पंडितो जनः परेंगित-ज्ञान-फला हि बुढयः ॥४९॥
आकार-रिंगतैर् गत्या चेष्टया भाषणेन च । नेत्र-वक्त्र-विकारेण लक्ष्यतेंतर्गतं मनः ॥५०॥
अत्र भय-प्रस्तावे प्रज्ञा-बलेनाहम् एनं स्वामिनम् आत्मीयं करिष्यामि । यतः-
प्रस्ताव-सदृशं वाक्यं सद्-भाव-सदृशं प्रियम् । आत्म-शक्ति-समं कोपं यो जानाति स पंडितः ॥५१॥
करटको ब्रूते-सखे त्वं सेवानभिज्ञः । पश्य-
अनाहूतो विशेद् यस् तु अपृष्टो बहु भाषते । आत्मानं मंयते प्रीतं भू-पालस्य स दुर्मतिः ॥५२॥
दमनको ब्रूते-भद्र ! कथम् अहं सेवानभिज्ञः ? पश्य-
किम् अप्य् अस्ति स्वभावेन सुंदरं वाप्य् असुंदरम् । यद् एव रोचते यस्मै भवेत् तत् तस्य सुंदरम् ॥५३॥
यतः- यस्य यस्य हि यो भावस् तेन तेन हि तं नरम् । अनुप्रविश्य मेधावी क्षिप्रम् आत्म-वशं नयेत् ॥५४॥
अंयच् च- को त्रेत्य् अहम् इति ब्रूयात् सम्यग् आदेशयेति च । आज्ञाम् अवितथां कुर्याद् यथा-शक्ति महीपतेः ॥५५॥
अपरं च- अल्पेच्छुर् धृतिमान् प्राज्ञश् छायेवानुगतः सदा । आदिष्टो न विकल्पेत स राज-वसतिं वसेत् ॥५६॥
करटको ब्रूते-कदाचित् त्वाम् अनवसर-प्रवेशाद् अवगम्यते स्वामी ।
स चाह-अस्त्व् एवम् । तथाप्य् अनुजीविना स्वामि-सांनिध्यम् अवश्यं करणीयम् । यतः- दोष-भीतेर् अनारंभस् तत् कापुरुष-लक्षणम् । कैर् अजीर्ण-भयाद् भ्रातर् भोजनं परिहीयते ॥५७॥
पश्य- आसन्नम् एव नृपतिर् भजते मनुष्यं विद्या-विहीनम् अकुलीनम् असंस्तुतं वा । प्रायेण भूमि-पतयः प्रमदा-लताश् च यः पार्श्वतो वसति तं परिवेष्टयंति ॥५८॥
करटको ब्रूते-अथ तत्र गत्वा किं वक्ष्यति भवान् ।
स आह-शृणु ! किम् अनुरक्तो विरक्तो वा मयि स्वामीति ज्ञास्यामि ।
करटको ब्रूते-किं तज् ज्ञान-लक्षणम् ।
दमनको ब्रूते-शृणु- दूराद् अवेक्षणं हासः संप्रश्नेष्व् आदरो भृशम् । परोक्षेपि गुण-श्लाघा स्मरणं प्रिय-वस्तुषु ॥५९॥
असेवके चानुरक्तिर् दानं स-प्रिय-भाषणम् । अनुरक्तस्य चिह्नानि दोषेपि गुण-संग्रहः ॥६०॥
अंयच् च-- काल-यापनम् आशानां वर्धनं फल-खंडनम् । विरक्तेश्वर-चिह्नानि जानीयान् मतिमान् नरः ॥६१॥
एतज् ज्ञात्वा यथा चायं ममायत्तो भविष्यति । तथा वदिष्यामि ।
अपायसं दर्शनजां विपत्तिम् उपाय-संदर्शन-जां च सिढिम् । मेधाविनो नीति-विधि-प्रयुक्तां पुरः स्फुरंतीम् इव दर्शयंति ॥६२॥
करटको ब्रूते-तथाप्य् अप्राप्ते प्रस्तावे न वक्तुम् अर्हसि, यतः-
अप्राप्त-कालं वचनं बृहस्पतिर् अपि ब्रुवन् । लभते बुढ्य्-अवज्ञानम् अवमानं च भारत ॥६३॥
दमनको ब्रूते-मित्र ! मा भैषीः ! नाहम् अप्राप्तावसरं वचनं वदिष्यामि । यतः- आपद्य् उन्मार्ग-गमने कार्य-कालात्ययेषु च । अपृष्टो पि हितांवेषी ब्रूयात् कल्याण-भाषितम् ॥६४॥
यदि च प्राप्तावसरेणापि मया मंत्रो न वक्तव्यस् तदा मंत्रित्वम् एव ममानुपपन्नम् । यतः-
कल्पयति येन वृत्तिं येन च लोके प्रशस्यते । स गुणस् तेन गुणिना रक्ष्यः संवर्धनीयश् च ॥६५॥
तद् भद्र ! अनुजानीहि माम् । गच्छामि ।
करटको ब्रूते-शुभम् अस्तु । शिवास् ते पंथानः । यथाभिलषितम् अनुष्ठीयताम् इति ।
ततो दमनको विस्मित इव पिंगलक-समीपं गतः । अथ दूराद् एव सादरं राज्ञा प्रवेशितः साष्टांग-प्रणिपातं प्रणिपत्योपविष्टः । राजाह-चिराद् दृष्टो सि ।
दमनको ब्रूते-यद्यपि मया सेवकेन श्रीमद्-देवपादानां न किंचित् प्रयोजनम् अस्ति, तथापि प्राप्त-कालम् अनुजीविना सांनिध्यम् अवश्यं कर्तव्यम् इत्य् आगतो स्मि । किं च-
दंतस्य निर्घर्षणकेन राजन् कर्णस्य कंडूयनकेन वापि । तृणेन कार्यं भवतीश्वराणां किम् अंग-वाक्-पाणि-मता नरेण ॥६६॥
यद्यपि चिरेणावधीरितस्य देव-पादैर् मे बुढि-नाशः शक्यते, तद् अपि न शंकनीयम् । यतः-
कदर्थितस्यापि च धैर्य-वृत्तेर् बुढेर् विनाशो नहि शंकनीयः । अधः-कृतस्यापि तनूनपातो नाधः शिखा याति कदाचिद् एव ॥६७॥
देव ! तत् सर्वथा विशेषज्ञेन स्वामिना भवितव्यम् । यतः-
मणिर् लुठति पादेषु काचः शिरसि धार्यते । यथैवास्ते तथैवास्तां काचः काचो मणिर् मणिः ॥६८॥
अंयच् च- निर्विशेषो यदा राजा समं सर्वेषु वर्तते । तदोद्यम-समर्थानाम् उत्साहः परिहीयते ॥६९॥
किं च- त्रिविधाः पुरुषा राजंन् उत्तमाधम-मध्यमाः । नियोजयेत् तथैवैतांस् त्रिविधेष्व् एव कर्मसु ॥७०॥
यतः- स्थान एव निज्योज्यंते भृत्याश् चाभरणानि च । नहि चूडामणिः पादे नूपुरं शिरसा कृतम् ॥७१॥
अपि च- कनक-भूषण-संग्रहणोचितो यदि मणिस् त्रपुणि प्रणिधीयते । न स विरौति न चापि न शोभते भवति योजयितुर् वचनीयता ॥७२॥
अंयच् च- मुकुटे रोपिता काचश् चरणाभरणे मणिः । नहि दोषो मणेर् अस्ति किंतु साधोर् अविज्ञता ॥७३॥
पश्य- बुढिमान् अनुरक्तो यम् अयं शूर इतो भयम् । इति भृत्य-विचारज्ञो भृत्यैर् आपूर्यते नृपः ॥७४॥
तथा हि- अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश् च नारी च । पुरुष-विशेषं प्राप्ता भवंत्य् अयोग्याश् च योग्याश् च ॥७५॥
अंयच् च- किं भक्तेनासमर्थेन किं शक्तेनापकारिणा । भक्तं शक्तं च मां राजन् नावज्ञातुं त्वम् अर्हसि ॥७६॥
यतः- अवज्ञानाद् राज्ञो भवति मति-हीनः परिजनस् ततस् तत्-प्रामाण्याद् भवति न समीपे बुध-जनः । बुधैस् त्यक्ते राज्ये न हि भवति नीतिर् गुणवती विपन्नायां नीतौ सकलम् अवशं सीदति जगत् ॥७७॥
अपरं च- जनं जनपदा नित्यम् अर्चयंति नृपार्चितम् । नृपेणावमतो यस् तु स सर्वैर् अवमंयते ॥७८॥
किं च- बालाद् अपि गृहीतव्यं युक्तम् उक्तं मनीषिभिः । रवेर् अविषये किं न प्रदीपस्य प्रकाशनम् ॥७९॥
पिंगलको वदत्-भद्र दमनक ! किम् एतत् ? त्वम् अस्मदीय-प्रधानामात्य-पुत्र इयंतं कालं यावत् कुतो पि खल-वाक्यान् नागतो सि । इदानीं यथाभिमतं ब्रूहि ।
दमनको ब्रूते-देव ! पृच्छामि किंचित् । उच्यताम् । उदकार्थी स्वामी पानीयम् अपीत्वा किम् इति विस्मित इव तिष्ठति ।
पिंगलको वदत्-भद्रम् उक्तं त्वया । किंत्व् एतद् रहस्यं वक्तुं काचिद् विश्वास-भूमिर् नास्ति । तथापि निभृतं कृत्वा कथयामि । शृणु, संप्रति वनम् इदम् अपूर्व-सत्त्वाधिष्ठितम् अतो स्माकं त्याज्यम् । अनेन हेतुना विस्मितो स्मि । तथा च श्रुतो मयापि महान् अपूर्व-शब्दः । शब्दानुरूपेणास्य प्राणिनो महता बलेन भवितव्यम् ।
दमनको ब्रूते-देव ! अस्ति तावद् अयं महान् भय-हेतुः । स शब्दो स्याभिर् अप्य् आकर्णितः । किंतु स किं मंत्री यः प्रथमं भूमि-त्यागं पश्चाद् युढं चोपविशति अस्मिन् कार्य-संदेहे भृत्यानाम् उपयोग एव ज्ञातव्यः । यतः-
बंधु-स्त्री-भृत्य-वर्गस्य बुढेः सत्त्वस्य चात्मनः । आपन्-निकष-पाषाणे नरो जानाति सारताम् ॥८०॥
सिंहो ब्रूते-भद्र ! महती शंका मां बाधते ।
दमनकः पुनर् आह स्वगतम्-अंयथा राज्य-सुखं परित्यज्य स्थानांतरं गंतुं कथं मां संभाषसे ? प्रकाशं ब्रूते-देव ! यावद् अहं जीवामि तावद् भयं न कर्तव्यम् । किंतु करटकादयो प्य् आश्वास्यंतां यस्माद् आपत्-प्रतीकार-काले दुर्लभह् पुरुष-समवायः ।
ततस् तौ दमनक-करटकौ राज्ञा सर्वस्वेनापि पूजितौ भय-प्रतीकारं प्रतिज्ञाय चलितौ । करटको गच्छन् दमनकम् आह-सखे ! किं शक्त्य-प्रतीकारो भय-हेतुर् अशक्य-प्रतीकारो वेति न ज्ञात्वा भयोपशमं प्रतिज्ञाय कथम् अयं महा-प्रसादो गृहीतः ? यतो नुपकुर्वाणो न कस्याप्य् उपायनं गृह्णीयाद् विशेषतो राज्ञः । पश्य- यस्य प्रसादे पद्मास्ते विजयश् च पराक्रमे । मृत्युश् च वसति क्रोधे सर्व-तेजोमयो हि सः ॥८१॥
तथा हि- बालो पि नावमंतव्यो मनुष्य इति भूमिपः । महती देवता ह्य् एषा नर-रूपेण तिष्ठति ॥८२॥
दमनको विहस्याह-मित्र ! तूष्णीम् आस्यताम् । ज्ञातं मया भय-कारणम् । बलीवर्द-नर्दितं तत् । वृषभाश् चास्माकम् अपि भक्ष्याः । किं पुनः सिंहस्य ।
करटको ब्रूते-यद्य् एवं तदा किम् पुनः स्वामि-त्रासस् तत्रैव किम् इति नापनीतः ।
दमनको ब्रूते-यदि स्वामि-त्रासस् तत्रैव मुच्यते तदा कथम् अयं महा-प्रसाद-लाभः स्यात् । अपरं च-
निरपेक्षो न कर्तव्यो भृत्यै स्वामी कदाचन । निरपेक्षं प्रभुं कृत्वा भृत्यः स्याद् दधि-कर्णवत् ॥८३॥
करटकः पृच्छति--कथम् एतत् ?
दमनकः कथयति-

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:40.9430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

apocarp

  • स्त्री. Bot. वाटीफलिका 
  • न. ऍपोकार्प 
RANDOM WORD

Did you know?

What are the names for Ekadashi (11th day in fortnight)?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.