सुहृद्-भेदः - कथा ७

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


कस्मिंश्चित् तरौ वायस-दंपती निवसतः । तयोश् चापृत्यानि तत्-कोटरावस्थितेन कृष्ण-सर्पेण खादितानि । ततः पुनर् गर्भवती वायसी वायस्म् आह-नाथ ! त्यज्यताम् अयं वृक्षः । अत्रावस्थित-कृष्ण-सर्पेणावयोः संततिः सततं भक्ष्यते । यतः- दुष्टा भार्या शठं मित्रं भृत्यश् चोत्तर-दायकः । स-सर्पे च गृहे वासो मृत्युर् एव न संशयः ॥१२१॥
वायसो ब्रूते-प्रिये ! न भेतव्यम् । वारं वारं मवैतस्य सोढः । इदानीं पुनर् न क्षंतव्यः ।
वायस्य् आह-कथम् एतेन बलवता सार्धे भवान् विग्रहीतुं समर्थः ।
वायसो ब्रूते-अलम् अनया शंकया । यतः-
बुढिर् यस्य बलं तस्य निर्बुढेस् तु कुतो बलम् । पश्य सिंहो मदोन्मत्तः शशकेन निपातितः ॥१२२॥वायसी विहस्याह--कथम् एतत् ?
वायसः कथयति-

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP