TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

सुहृद्-भेदः - कथा ८

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


कथा ८
अस्ति मंदर-नाम्नि पर्वते दुर्दांतो नाम सिंहः । स च सर्वदा पशूनां वधं कुर्वंन् आस्ते । ततः सर्वैः पशुभिर् मिलित्वा स सिंहो विज्ञप्तः-मृगेंद्र ! किम् अर्थम् एकदा बहु-पशु-घातः क्रियते । यदि प्रसादो भवति तदा वयम् एव भवद्-आहाराय प्रत्यहम् एकैकं पशुम् उपढौकयामः ।
ततः सिंहेनोक्तम्-यद्य् एतद् अभिमतं भवतां तर्हि भवतु तत् ।
ततः-प्रभृत्य् एकैकं पशुम् उपकल्पितं भक्षयंन् आस्ते । अथ कदाचिद् वृढ-शशकस्य वारः समायातः । सो चिंतयत्-
त्रास-हेतोर् विनीतिस् तु क्रियते जीविताशया । पञ्चत्वं चेद् गमिष्यामि किं सिंहानुनयेन मे ॥१२३॥
तन् मंदं मंदं गच्छामि । ततः सिंहो पि क्षुधा-पीडितः कोपात् तम् उवाच-कुतस् त्वं विलंब्य समागतो सि ।
शशको ब्रवीत्-देव ! नाहम् अपराधी । आगच्छन् पथि सिंहांतरेण बलाद् धृतः । तस्याग्रे पुनर् आगमनाय शपथं कृत्वा स्वामिनं निवेदयितुम् अत्रागतो सिम् ।
सिंहः सकोपम् आह-सत्वरं गत्वा दुरात्मानं दर्शय । क्व स दुरात्मा तिष्ठति ।
ततः शशकस् तं गृहीत्वा गभीर-कूपं दर्शयितुं गतः । तत्रागत्य स्वयम् एव पश्यतु स्वामीत्य् उक्त्वा तस्मिन् कूप-जले तस्य सिंहस्यैव प्रतिबिंबं दर्शितवान् । ततो सौ क्रोधाध्मातो दर्पात् तस्योपर्य् आत्मानं निक्षिप्य पञ्चत्वं गतः । अतो हं ब्रवीमि बुढिर् यस्य इत्य् आदि ।
वायस्य् आह-श्रुतं मया सर्वम् । संप्रति यथा कर्तव्यं ब्रूहि ।
वायसो वदत्-अत्रासंने सरसि राज-पुत्रः प्रत्यहम् आगत्य स्नाति । स्नान-समये मद्-अंगाद् अवतारितं तीर्थ-शिला-निहितं कनक-सूत्रं चञ्च्वा विधृत्यानीयास्मिन् कोटरे धारयिष्यसि ।
अथ कदाचित् स्नातुं जलं प्रविष्टे राज-पुत्रे वायस्या तद्-अनुष्ठितम् । अथ कनक-सूत्रानुसरण-प्रवृत्तै राज-पुरुषैस् तत्र तरु-कोटरे कृष्ण-सर्पो दृष्टो व्यापादितश् च । अतो हं ब्रवीमि-उपायेन हि यच् छक्यम् इतेन हि यच् छक्यम् इत्य् आदि ।
करटको ब्रूते-यद्य् एवं तर्हि गच्छ । शिवास् ते संतु पंथानः ।
ततो दमनकः पिंगलक-समीपं गत्वा प्रणम्योवाच-देव ! आत्यंतिकं किम् अपि महा-भय-कारि कार्यं मंयमानः समागतो स्मि । यतः-
आपद्य् उन्मार्ग-गमने कार्य-कालात्ययेषु च । कल्याण-वचनं ब्रूयाद् अपृष्टो पि हितो नरः ॥१२४॥
अंयच् च- भोगस्य भाजनं राजा न राजा कार्य-भाजनम् । राज-कार्य-परिध्वंसी मंत्री दोषेण लिप्यते ॥१२५॥
तथा हि पश्य । अमात्यानाम् एष क्रमः ।
वरं प्राण-परित्यागः शिरसा वापि कर्तनम् । न तु स्वामि-पदावाप्ति-पातकेच्छोर् उपेक्षणम् ॥१२६॥
पिंगलकः सादरम् आह-अथ भवान् किं वक्तुम् इच्छति ।
दमनको ब्रूते-देव ! संजीवकस् तवोपय-सदृश-व्यवहारीव लक्ष्यते । तथा चास्मत् संनिधाने श्रीमद्-देव-पादानां शक्ति-त्रय-निंदां कृत्वा राज्यम् एवाभिलषति ।
एतच् छ्रुत्वा, पिंगलकः सभयं साश्चर्यं मत्वा तूष्णीं स्थितः । दमनकः पुनर् आह-देव ! सर्वामात्य-परित्यागं कृत्वैक एवायं यत् त्वां सर्वाधिकारी कृतः । स एव दोषः । यतः-
अत्युच्छ्रिते मंत्रिणि पार्थिवे च विष्टभ्य पादाव् उपतिष्ठते श्रीः । सा स्त्री-स्वभावाद् असहा भरस्य तयोर् द्वयोर् एकतरं जहाति ॥१२७॥
अपरं च- एकं भूमि-पतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहात् श्रयते मदः स च मदालस्येन निर्विद्यते । निर्विंणस्य पदं करोति हृदये तस्य स्वतंत्र-स्पृहा- स्वातंत्र्य-स्पृहया ततः स नृपतेः प्राणान् अभिद्रुह्यति ॥१२८॥
अंयच् च- विष-दग्धस्य भक्तस्य दंतस्य चलितस्य च । अमात्यस्य च दुष्टस्य मूलाद् उढरणं सुखम् ॥१२९॥
किं च- यः कुर्यात् सचिवायत्तां श्रियं तद्-व्यसने सति । सो ंधवज् जगती-पालः सीदेत् सञ्चारकैर् विना ॥१३०॥
सर्व-कार्येषु स्वेच्छातः प्रवर्तते । तद् अत्र प्रमाणं स्वामी । एतं च जानाति ।
न सो स्ति पुरुषो लोके यो न कामयते श्रियम् । परस्य युवतिं रम्यां सादरं नेक्षतेत्र कः ॥१३१॥
सिंहो विमृश्याह-भद्र ! यद्यप्य् एवं तथापि संजीवकेन सह मम महान् स्नेहः । पश्य-
कुर्वंन् अपि व्यलीकानि यः प्रियः प्रिय एव सः । अशेष-दोष-दुष्टो पि कायः कस्य न वल्लभः ॥१३२॥
अंयच् च- अप्रियाण्य् अपि कुर्वाणो यः प्रियः प्रिय एव सः । दग्ध-मंदिर-सारेपि कस्य वह्नाव् अनादरः ॥१३३॥
दमनकः पुनरे एवाह-देव ! स एवातिदोषः, यतः-
यस्मिंन् एवाधिकं चक्षुर् आरोहयति पार्थिवः । सुतेमात्येप्य् उदासीने स लक्ष्म्याश्रीयते जनः ॥१३४॥
शृणु देव ! अप्रियस्यापि पथ्यस्य परिणामः सुखावहः । वक्ता श्रोता च यत्रास्ति रमंते तत्र संपदः ॥१३५॥
त्वया च मूल-भृत्यानपास्यायम् आगंतुकः पुरस्कृतः । एतच् चानुचितं कृतम् । यतः- मूल-भृत्यान् परित्यज्य नागंतून् प्रतिमानयेत् । नातः परतरो दोषो राज्य-भेद-करो यतः ॥१३६॥
सिंहो ब्रूते-किम् आश्चर्यम् । मया यद् अभय-वाचं दत्त्वानीतः संवर्धितश् च तत् कथं मह्यं द्रुह्यति ।
दमनको ब्रूते-देव !
दुर्जनो नार्जवं याति सेव्यमानो पि नित्यशः । स्वेद-नाभ्यञ्जनोपायैः श्वपुच्छम् इव नामितम् ॥१३७॥
अपरं च- स्वेदितो मर्दितश् चैव रञ्जुभिः परिवेष्टितः । मुक्तो द्वादशभिर् वर्षैः श्व-पुच्छः प्रकृतिं गतः ॥१३८॥
अंयच् च- वर्धनं वा संमानं खलानां प्रीतये कुतः । फलंत्य् अमृत-सेकेपि न पथ्यानि विष-द्रुमाः ॥१३९॥
अतो हं ब्रवीमि- अपृष्टस् तस्य न ब्रूयाद् यश् च नेच्छेत् पराभवम् । एष एव सतां धर्मो विपरीतो सतां मतः ॥१४०॥
तथा चोक्तम्- स्निग्धो कुशलान् निवारयति यस् तत् कर्म यन् निर्मलं सा स्त्री यातु-विधायिनी स मतिमान् यः सद्भिर् अभ्यर्च्यते । सा श्रीर् या न मदं करोति स सुखी यस् तृष्णया मुच्यते तन् मित्रं यत् कृत्रिमं स पुरुषो यः खिद्यते नेंद्रियैः ॥१४१॥
यदि सञ्जीवक-व्यसनादितो विज्ञापितो पि स्वामी न निवर्तते, तद् ईदृशे भृत्ये न दोषः । तथा च-
नृपः कामासक्तो गणयति न कार्ये न च हितं यथेष्टं स्वच्छंदः प्रविचरति मत्तो गज इव । ततो मान-ध्मातः स पतति यदा शोक-गहने तदा भृत्ये दोषान् क्षिपति न निजं वेत्त्य् अविनयम् ॥१४२॥
पिंगलकः स्वगतम्-
न परस्यापराधेन परेषां दंडम् आचरेत् । आत्मनावगतं कृत्वा बध्नीयात् पूजयेच् च वा ॥१४३॥
तथा चोक्तम्- गुण-दोषाव् अनिश्चित्य विधिनं ग्रह-निग्रहे । स्व-नाशाय यथा ंयस्तो दर्पात् सर्प-मुखे करः ॥१४४॥
प्रकाशं ब्रूते-तदा संजीवकः किं प्रत्यादिश्यताम् ।
दमनकः स-संभ्रमम् आह-देव ! मा मैवम् । एतावता मंत्र-भेदो जायते । तथा ह्य् उक्तम्-
मंत्र-बीजम् इदं गुप्तं रक्षणीयं यथा तथा । मनाग् अपि न भिद्येत तद् भिन्नं न प्ररोहति ॥१४५॥
किं च- आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः । क्षिप्रम् अक्रियमाणस्य कालः पिबति तद्-रसम् ॥१४६॥
तद् अवश्यं समारब्धं महता प्रयत्नेन संपादनीयम् । किं च-
मंत्रो योधः इवाधीरः सर्वांगैः संवृतैर् अपि । चिरं न सहते स्थातुं परेभ्यो भेद-शंकया ॥१४७॥
यद्य् असौ दृष्ट-दोषो पि दोषान् निवत्यं संधातव्यस् तद् अतीवानुचितम् । यतः-
सकृद् दुष्टं तु यो मित्रं पुनः संधातुम् इच्छति । स मृत्युर् एव गृह्णाति गर्भम् अश्वतरी यथा ॥१४८॥
अंगांगि-भावम् अज्ञात्वा कथं सामर्थ्य-निर्णयः । पश्य टिट्टिभ-मात्रेण समुद्रो व्याकुलीकृतः ॥१४९॥
सिंहः पृच्छति--कथम् एतत् ?
दमनकः कथयति-

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:41.2700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

transponder

  • प्रतिसाद प्रेषक 
  • पु. प्रतिसंप्रेषक 
RANDOM WORD

Did you know?

I want Ganesh Puran marathi book which is on your site by Balbheem Bhat.
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.