संस्कृत सूची|संस्कृत साहित्य|कथा-संग्रहः|हितोपदेशम्|सुहृद्-भेदः| कथा १ सुहृद्-भेदः आरंभः कथा १ कथा २ कथा ३ कथा ४ कथा ५ कथा ६ कथा ७ कथा ८ कथा ९ सुहृद्-भेदः - कथा १ हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं। Tags : hitopadeshakathastoryकथासंस्कृतहितोपदेश कथा १ Translation - भाषांतर अस्ति मगध-देशे धर्मारण्य-संनिहित-वसुधायां शुभदत्त-नाम्ना कायस्थेन विहारः कर्तुम् आरब्धः । तत्र करपत्रदार्य-माणैक-स्तंभस्य कियद् दूरस्फाटितस्य काष्ठ-खंड-द्वय-मध्ये कीलकः सूत्र-धारेण निहितः । तत्र बलवान् वानर-यूथः क्रीडंन् आगतः । एको वानरः काल-प्रेरित इव तं कीलकं हस्ताभ्यां धृत्वोपविष्टम् । अनंतरं स च सहज-चपलतया महता प्रयत्नेन तं कीलकम् आकृष्टवान् । आकृष्टे च कीलके चूर्णितांड-द्वयः पञ्चत्वं गतः । अतो हं ब्रवीमि-अव्यापरेषु व्यापारम् इत्य् आदि ।दमनको ब्रूते-तथापि स्वामि-चेष्टा-निरूपणं सेवकेनावश्यं करणीयम् ।करटको ब्रूते-सर्वस्मिंन् अधिकारे य एव नियुक्तः प्रधान-मंत्री स करोतु । यतो नुजीविना पराधिकार-चर्चा सर्वथा न कर्तव्या । पश्य- पराधिकार-चर्चा यः कुर्यात् स्वामि-हितेच्छया । स विषीदति चीत्काराद् गर्दभस् ताडितो यथा ॥३१॥दमनकः पृच्छति--कथम् एतत् ?करटको ब्रूते- N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP