संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्| अध्याय ७५ बृहत्पाराशरहोराशास्त्रम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ बृहत्पाराशरहोराशास्त्रम् - अध्याय ७५ `बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय. Tags : astrologyjyotishaparasharज्योतिषपाराशरहोराशास्त्र पंचमहापुरुषलक्षणाध्यायः Translation - भाषांतर अथ वक्ष्याम्यहं पञ्चमहापुरुषलक्षणम् ।स्वभोच्चगतकेन्द्रस्थैर्बलिभिश्च कुजादिभिः ॥१॥क्रमशो रुचको भद्रो हंसो मालव्य एव च ।शशश्चैते बुधैः सर्वैर्महान्तः पुरुषाः स्मृताः ॥२॥दीर्घाननो महोत्साहो स्वच्छकान्तिर्महाबलः ।चारुभ्रूर्नीलकेशश्च सुरुचिश्च रणप्रियः ॥३॥रक्तश्यामोऽरिहन्ता च मन्त्रविच्चोरनायकः ।क्रूरोभर्ता मनुष्याणां क्षामाऽङ्घ्रिर्द्विजपूजकः ॥४॥वीणावज्रधनुःपाशवृषचक्राङ्कितः करे ।मन्त्राभिचारकुशली दैर्ध्ये चैव शतांगुलः ॥५॥मुखदैर्घ्यसमं मध्यं तस्य विज्ञैः प्रकीर्तितम् ।तुल्यस्तुलासहस्रेण रुचको द्विजपुङ्गव ॥६॥भुनक्ति विन्ध्यसह्याद्रिप्रदेशं सप्ततिं समाः ।शत्रेण वह्निना वापि स प्रयाति सुरालयम् ॥७॥शार्दूलप्रतिभह् पीनवक्षा गजगतिः पुमान् ।पीनाजानुभुजः प्राज्ञश्चतुरस्रश्च योगवित् ॥८॥सात्त्विकः शोभनांघ्रश्च शोभनश्मश्रुसंयुतः ।कामी शङ्खगदाचक्रशरकुञ्जरचिह्नकैः ॥९॥ध्वजलाङ्गलचिह्नैश्च चिह्नितांघ्रिकराम्बुजः ।सुनासश्शास्त्रविद् धीरः कृष्णाकुञ्चितकेशभृत् ॥१०॥स्वतन्त्रः सर्वकार्येषु स्वजनप्रीणनक्षमः ।ऐश्वर्यं भुज्यते चास्य नित्यं मित्रजनैः परैः ॥११॥तुलया तुलितो भारप्रमितः स्त्रीसुतान्वितः ।सक्षेमो भूपतिः पाति मध्यदेशं शतं समाः ॥१२॥हंसो हंसस्वरो गौरः सुमुखोन्नतनासिकः ।श्लेष्मलो मधुपिङ्गाक्षो रक्तवर्णनखः सुधीः ॥१३॥पीनगण्डस्थलो वृत्तशिराः सुचरणो नृपः ।मत्स्याऽङ्कुशधनुःशंखकञ्जखट्वाङ्गचिह्नकैः ॥१४॥चिह्नतांघ्रिकरः स्त्रीषु कामार्तो नैति तुष्टताम् ।षण्ण्वत्यंगुलो दैर्घ्ये जलक्रीडारतः सुखी ॥१५॥गङ्गायमुनयोर्मध्यदेशं पाति शतं समाः ।वनान्ते निधनं याति भुक्त्वा सर्वसुखं भुवि ॥१६॥समौष्ठः कृशमध्यश्च चन्द्रकान्तिरुचिः पुमान् ।सुगन्धो नातिरक्ताङ्गो न ह्रस्वो नातिदीर्घकः ॥१७॥समस्वच्छरदो हस्तिनाद आजानुबाहुधृक् ।मुखं विश्वांगुलं दैर्घ्ये विस्तारे च दशाङ्गुलम् ॥१८॥मालव्यो मालवाख्यं च देशं पाति ससिन्धुकम् ।सुखं सप्ततिवर्षान्तं भुक्त्वा याति सुलालयम् ॥१९॥तनुद्विजमुखः शूरो नातिह्रस्वः कृशोदरः ।मध्ये क्षामः सुजंघश्च मतिमान् पररन्ध्रवित् ॥२०॥शक्तो वनाद्रिदुर्गेषु सेनानीर्दन्तुरः शशः ।चंचलो धातुवादी च स्त्रीशक्तोऽन्यधानान्वितः ॥२१॥मालावीणामृदङ्गाऽस्त्ररेखाङ्कितकरांघ्रिकः ।भूपोऽयं वसुधा पाति जीवन् खाद्रिसमाः सुखी ॥२२॥ N/A References : N/A Last Updated : July 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP