संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्| अध्याय ७० बृहत्पाराशरहोराशास्त्रम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ बृहत्पाराशरहोराशास्त्रम् - अध्याय ७० `बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय. Tags : astrologyjyotishaparasharज्योतिषपाराशरहोराशास्त्र अथाऽष्टकवर्गफलाध्यायः Translation - भाषांतर आत्मस्वभावशक्तिश्च पितृचिन्ता रवेः फलम् ।मनोबुद्धिप्रसादश्च मातृचिन्ता मृगाङ्कतः ॥१॥भ्रातृसत्त्वं गुणं भूमिं भौमेनैव विचिन्तयेत् ।वाणिज्यकर्म वृत्तिश्च सुहृदं च बुधेन तु ॥२॥गुरुणा देहपुष्टिञ्च विद्या पुत्रार्थसम्पदः ।भृगोर्विवाहकर्माणि भोगस्थान च वाहनम् ॥३॥वेश्यास्त्रीजनसंयोगं शुक्रेण च निरीक्षयेत् ।आयुश्च जीवनोपायं दुःखशोक भयानि च ॥४॥सर्वक्षयं च मरणं मन्देनैव निरीक्षयेत् ।तत्तद्भावफलाङ्केन गुणयेद् योगपिण्डकम् ॥५॥सप्तविंशओ्धृतं शेषतुल्यर्क्षे याति भानुजः ।यदा तदा तस्य तस्य भावस्यार्ति विनिर्दिशेत् ॥६॥अर्काश्रितर्क्षान्नवमो राशिः पितृ गृहं स्मृतम् ।तद्राशिफलसंख्याभिर्वर्धयेद् योगपिण्डकम् ॥७॥विभजेत् सप्तविंशत्या शेषर्क्षे याति भानुजः ।यदा तदा पितृक्लेशो भवतीति न संशयः ॥८॥तत्त्रिकोणगते वापि पिता पितृसमोऽपि वा ।मरणं तस्य जानीयात् पीडां वा महतीं वदेत् ॥९॥गुणयेद् योगपिण्डं वा तद्राशिफलसंख्यया ।अर्कोद्धृतावशेषर्क्षे यदा गच्छति भानुजः ॥१०॥तत्त्रिकोणर्क्षकं वापि पितृकष्टं तदा वदेत् ।रिष्टप्रददशायां तु मरणं कष्टमन्यदा ॥११॥अर्कात्तु तुर्यगे राहौ मन्दे वा भूमिनन्दने ।गुरुशुक्रेक्षणमृते पितृहा जायते नरः ॥१२॥लग्नात् चन्द्राद् गुरुस्थाने याते सूय्रसुतेऽथवा ।पापैर्दृष्टे युते वापि पितृनाशं वदेद् बुधः ॥१३॥लग्नात् सुखेश्वरारिष्टदशाकाले पितृक्षयः ।अनुकूलदशाकाले नेति चिन्त्यं विचक्षणैः ॥१४॥पितृजन्माष्टमे जातस्तदीशे लग्नगेऽपि वा ।करोति पितृकार्याणि स एवात्र न संशयः ॥१५॥सुखनाथदशायान्तु सुखप्राप्तेश्च संभवः ।सुखेशे लग्नलाभस्थे चन्द्रस्थानाद् विशेषतः ।पितृगेहसमायुक्ते जातः पितृवशानुगः ॥१६॥पितृजन्मतृतीयर्क्षे जातः पितृधनाश्रितः ।पितृकर्मगृहे जातः पितृतुल्यगुणान्वितः ॥१७॥तदीशे लग्नसंस्थेऽपि पितृश्रेष्ठो भवेन्नरः ।एवं पूर्वक्तसामान्यफलं चात्रापि चिन्तयेत् ॥१८॥सूर्याष्टवर्गे यन्छून्यं तन्मासे वस्तरेऽपि च ।विवाहव्रतचूडादि शुभकर्म परित्यजेत् ॥१९॥यत्र रेखाधिका तत्र मासे संवचरेऽपि च ।अनिष्टेऽपि रवौ जीवे शुभकर्म समाचरेत् ॥२०॥एवं चन्द्राष्टवर्गे च यत्र शून्यं भवेद् बहु ।तत्र तत्र गते चन्द्रे शुभं कर्मं परित्यजेत् ॥२१॥चन्द्राच्चतुर्थो मातृप्रसादग्रामचिन्तनम् ।चन्द्रात् सुखफलं पिण्डं वर्द्धयेद् भैश्च सम्भजेत् ॥२२॥शेषमृक्षं शनौ याते मातृहानिं विनिर्दिशेत् ।तत्त्रिकोणगते चापि शनौ मातृरुजं वदेत् ॥२३॥भौमाष्टवर्गे संचिन्त्यं भ्रातृविक्रमधैर्यकम् ।कुजाश्रितात् तृतीयर्क्षं बुधैर्भ्रातृगृहं स्मृतम् ॥२४॥त्रिकोणशोधनं कृत्वा यत्र स्यादधिकं फलम् ।भूमेर्लाभोऽत्र भार्याया भ्रातृणां सुखमुत्तमम् ॥२५॥भौमो बलविहीनश्चद् दीर्घायुर्भातृको भवेत् ।फलाअनि यत्र क्षीयन्ते तत्र भौमे गते क्षतिह् ॥२६॥तृतीयर्क्षफलेनाथ पिण्डं सम्बर्ध्य पूर्ववत् ।शेषमृक्षं शनौ याते भ्रातृकष्टं विनिर्दिशेत् ॥२७॥बुधात्तुर्ये कुटुम्बं च मातुलं मित्रमेव च ।बुधे फलाधिके राशौ गते तेएषां सुखं दिशेत् ॥२८॥बुधाष्टवर्गं संशोध्य शेषमृक्षं गते शनौ ।कष्टं कुटुम्बमित्राणां मातुलानां च निर्दिशेत् ॥२९॥जीवात् पञ्चमतो ज्ञानं धर्मं पुत्रं च चिन्तयेत् ।तस्मिन् फलाअधिके राशौ सन्तानस्य सुखं दिशेत् ॥३०॥बृहस्पतेः सुतस्थाने फलं यत्संख्यकं भवेत् ।शत्रुनीचग्रहं त्यक्त्वा तावती सन्ततिर्ध्रुवा ॥३१॥सुतभेशनवांशैश्च तुल्या वा सन्ततिर्भवेत् ।सुतभावफलेनैवं पिण्डं संगुण्य पूर्ववत् ॥३२॥पुत्रकष्टं विजानीयात् शेषमृक्षं गते शनौ ।एवं धर्मं च विद्यां च कल्पयेत् कालचित्तमः ॥३३॥शत्रुस्याकष्टवर्गं च निक्षिप्याकाशचारिषु ।यत्र यत्र फलानि स्युर्भूयांसि कलि तत्र तु ॥३४॥वित्तं कलत्रं भूमिं च तत्तद्देशाद् विनिर्दिशेत् ।शुक्राज्जामित्रतो दारलब्धिश्चिन्त्या विचक्षणैः ॥३५॥जामित्रतत्त्रिकोणस्थराशिदिग्देशसम्भवा ।सुखेदुःखे स्त्रियाश्चिन्त्ये पिण्डं सम्वर्ध्य पूर्ववत् ॥३६॥सनैश्चराश्रितस्थानादष्टमं मृत्युभं स्मृतम् ।तदेव चायुषः स्थानं तस्मादायुर्विचिन्तयेत् ॥३७॥लग्नात्प्रभृति मन्दान्तं फलान्येकत्र कारयेत् ।तद्योगफलतुल्याब्दे व्याधिं वैरं समादिशेत् ॥३८॥एवं मन्दादिलग्नान्तं फलान्येकत्र योजयेत् ।तत्तुल्यवर्षे जातस्य तस्य व्याधिभयं वदेत् ॥३९॥द्वयोर्योगसमे वर्षे कष्टं मृत्युसमं दिशेत् ।दशारिष्टसमायोगो मृत्युरेव न संशयः ॥४०॥पिण्डं संस्थाप्य गुणयेत् शनेरष्टमगैः फलैः ।सप्तविंशतिहृच्छेषतुल्यमृक्षं गते शनौ ॥४१॥तत्त्रिकोणर्क्षगे वापि जातकस्य मृतिं वदेत् ।अर्कहृच्छेषराशौ वा तत्त्रिकोणेऽपि तद् वदेत् ॥४२॥शनैश्चराष्टवर्गेषु यत्र नास्ति फलं गृहे ।तत्र नैव शुभं तस्य यदा याति शनैश्चरः ॥४३॥यत्र राशौ शुभाधिक्यं तत्र याते शनैश्चरे ।जातकस्य ध्रुवं ज्ञेयं तस्मिन् काले शुभं फलम् ॥४४॥ N/A References : N/A Last Updated : July 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP