संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्| अध्याय ७४ बृहत्पाराशरहोराशास्त्रम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ बृहत्पाराशरहोराशास्त्रम् - अध्याय ७४ `बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय. Tags : astrologyjyotishaparasharज्योतिषपाराशरहोराशास्त्र सुदर्शनचक्रफलाध्यायः Translation - भाषांतर अथोच्यते मया विप्र रहस्यं ज्ञानमुत्तमम् ।जगतामुपकाराय यत् प्रोक्तं ब्रह्मण स्वयम् ॥१॥चक्रं सुदर्शनं नाम यद्वशात् प्रस्फुटं फलम् ।नृणां तन्वादिभावानां ज्ञातुं शक्नोति दैववित् ॥२॥जन्मतो मृत्युपर्यन्तं वर्षमासदिनोद्भवम् ।शुभं वाऽप्यशुभं सर्वं तच्छृणुष्वैकमानसः ॥३॥एककेन्द्रोद्भवं रम्यं लिखेद् वृत्तत्रयं द्विज ।द्वादशारं च तत् कुर्याद् भवेदेवं सुदर्शनम् ॥४॥तत्राद्यवृत्ते लग्नाद्या भावा लेख्याः सखेचराः ।तदूर्ध्ववृत्ते चन्द्राच्च भवाः खेटसमन्विताः ॥५॥तदूर्ध्ववृत्ते सूर्याच्च क्रमात् भवा ग्रहान्विताः ।एवमेकैकभावेऽत्र भवेद्भानां त्रयं त्रयम् ॥६॥अत्र तु प्रथमो भावो लग्नेन्दुरविभिर्युतः ।तं प्रकल्प्य तनुं त्वग्रे ज्ञेया भावा धनादयः ॥७॥तत्र तत्र ग्रहस्थित्या ज्ञेयं तत्तत्फलं बुधैः ।तनुभावे शुभः सूर्यो ज्ञेयोऽन्यत्राशुभप्रदः ॥८॥पापोऽपि स्वोच्चराशिस्थो न भवत्यशुभप्रदः ।एवं शुभाऽशुभं दृष्ट्वा तत्तद्भावफलं वदेत् ॥९॥यो भावः स्वामिसौम्याभ्यां युक्तो दृष्टोऽयमेधते ।पापैर्दृष्टो युतो यो वा तस्य हानिः प्रजायते ॥१०॥ज्ञेयं सग्रहभावस्य ग्रहयोगसमं फलम् ।अग्रहस्य तु भावस्य ग्रहदृष्टिसमं फलम् ॥११॥शुभैरेव शुभं पापैर्शुभं मिश्रखेचरैः ।शुभाधिके शुभं ज्ञेयमशुभं त्वशुभाधिके ॥१२॥एवं भावेषु खेटानां योगं दृष्टिं विलोक्य च ।तारतम्येन वाच्यानि फलानि द्विजसत्तम ॥१३॥यत्र नैव ग्रहः कश्चिन्न दृष्टि कस्यचिद् भवेत् ।तदा तद्भावजं ज्ञेयं तत्स्वामिवशतः फलम् ॥१४॥शुभोऽपि शुभवर्गेषु ह्यधिकेष्वशुभप्रदः ।पापोऽपि शुभवर्गेषु ह्यधिकेषु शुभप्रदः ॥१५॥स्वभोच्चस्य शुभस्यात्र वर्गा ज्ञेयाः शुभवाहाः ।शत्रोः क्रूरस्य नीचस्य षड्वर्गा अशुभप्रदाः ॥१६॥एवं सर्वेषु खेटेषु भवेष्वपि द्विजोत्तम ।शुभाशुभत्वं सञ्चिन्य्त ततस्तत्फलमादिशेत् ॥१७॥यदा सुदर्शनादेव फलं सिद्ध्यति देहनाम् ।तदा किं मुनिभिः सर्वैर्लग्नादेव फलं स्मृतम् ॥१८॥इति म संशयो जातस्तं छेत्तुमर्हति ।पृथग्भगौ यदाऽर्केन्दू लग्नादन्यत्र संस्थितौ ॥१९॥तदा सुदर्शनाच्चक्रात् फलं वाच्यं विचक्षणैः ।एकभे द्वौ त्रयो वा चेत् तदा लग्नात् फलं वदेत् ॥२०॥अथ विप्र प्रवक्ष्येऽहं प्रतिवर्षादिजं फलम् ।अस्मात् सुदर्शनादेव दशान्तरदशावशात् ॥२१॥तन्वाद्यैर्वर्षमास्सार्धद्विकधस्रान् प्रवर्तयेत् ।भवेशादिद्वादशानां दशा वर्षेषु कल्पयेत् ॥२२॥तदाद्यन्तर्दशास्तद्वन्मासादौ तद्बलैः फलम् ।तं तं भावं प्रकल्प्याङ्कं तत्तत्तन्वादिजं द्विज ॥२३॥तत् तल्लग्नात् केन्द्रकोणाष्टमे सौम्याः शुभप्रदाः ।यत्र भावे सैंहिकेयो भवेत् तद्भावहानिकृत् ॥२४॥पापा वा यत्र बहवस्तत्तद्भावविनाशनम् ।विरिष्फारिशुभैः पापैस्त्रिषडायस्थितैः शुभम् ॥२५॥एवं प्रत्यब्दमासादौ भावानां फलचिन्तनम् ।द्वादशानां दशाऽवृत्त्या दशाश्चायुषि चिन्तयेत् ॥२६॥एवं सुदर्शनाच्चक्राद् वर्षमासादिजं फलम् ।ज्ञात्वा तथाष्टवर्गोत्थमुभाभ्यां फलनिर्णयः ॥२७॥उभयत्र समत्वे हि सम्पूर्णं तत् फलं वदेत् ।विषमत्वे यदाधिक्यं तत्फलं च बलक्रमात् ॥२८॥ N/A References : N/A Last Updated : July 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP