संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्| अध्याय ६४ बृहत्पाराशरहोराशास्त्रम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ बृहत्पाराशरहोराशास्त्रम् - अध्याय ६४ `बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय. Tags : astrologyjyotishaparasharज्योतिषपाराशरहोराशास्त्र कालचक्रान्तर्दशाफलाध्यायः Translation - भाषांतर जगद्धिताय प्रोक्तानि पुरा यानि पुरारिणा ।तानि चक्रान्तर्दशाफलानि कथयाम्यहम् ॥१॥मेषांशे स्वान्तरे भौमे ज्वरश्च व्रणसम्भवः ।बुधशुक्रेन्दुजीवेषु सुखं शत्रुभयं रवौ ॥२॥वृषांशे स्वान्तरे सौरे कलहो रोगसम्भवः ।विद्यालाभस्तनौ सौख्यं गुरौ तत्र गते फलम् ॥३॥देशत्यागो मृतिर्वापि शस्त्रघातो ज्वरोऽथवा ।वृषभस्वांशके विप्र कुजे तत्र गते फलम् ॥४॥वस्त्राभरणलाभश्च स्त्रीसुयोगो महत् सुखम् ।शुक्रेन्दुसुतचन्द्रेषु वृषभस्वांशके फलम् ॥५॥नृपाद् भयं पितृमृतिः स्ववदाद्यैर्भयं रवौ ।मिथुने स्वांशके शुक्रे धनवस्त्रसमागमः ॥६॥पितृमातृमृतेर्भीतिर्ज्वरश्च व्रणसम्भवः ।दूरदेशप्रयाणं च मिथुने स्वांशके कुजे ॥७॥बुद्धिविद्याविवृद्धिश्च महाविभवसम्भवः ।लोके मानश्च प्रीतिश्च मिथेने स्वांशके गुरौ ॥८॥विदेशगमनं व्याधिर्मरणं धननाशनम् ।बन्धुनाशोऽथवा विप्र मिथुने स्वांशके शनौ ॥९॥विद्यावस्त्रादिलाभश्च दारपुत्रादिजं सुखम् ।सर्वत्र मानमाप्नोति मिथुने स्वांशके बुधे ॥१०॥कर्क स्वांशगते चन्द्रे पुत्रदारसुखं महत् ।ऐश्वर्यं लभते लोके मानं प्रीतिं तथैव च ॥११॥शत्रुभ्यश्च पशुभ्यश्च भयं राजकुलात् तथा ।आधिव्याधिभयं चैव कर्के स्वांशगते रवौ ॥१२॥पुत्रदारसुहृत्सौख्यं धनवृद्धिस्तथैव च ।लोके मानं यशश्चैव कर्कांशे बुधशुक्रयोः ॥१३॥विषशस्त्रमृतेर्भीतिं ज्वररोगादिसम्भवाम् ।पीडां चैव समाप्नोति कर्के स्वांशगते कुजे ॥१४॥विभवस्यातिलाभश्च शरीरेऽपि सुखं तथा ।नृपात् सम्मानलाभश्च कर्के स्वांशगते गुरौ ॥१५॥वादव्याधिभयं घोरं सर्पवृश्चिकतो भयम् ।नानाकष्टमवाप्नोति कर्के स्वांशगते शनौ ॥१६॥सिंहांशे स्वांशगे भौमे मुखरोगभयं दिशेत् ।पित्तज्वरकृतां वाधां शस्त्रक्षतमथापि वा ॥१७॥धनवस्त्रादिलाभश्च स्त्रीपुत्रादिसुखं तथा ।बुधभार्गवयोर्विप्र सिंहांशे स्वान्तरस्थयोः ॥१८॥उच्चात् पतनभीतिश्च स्वल्पद्रव्यसमागमः ।विदेशगमनं चैव सिंहे स्वान्तर्गते विधौ ॥१९॥भयं शत्रुजनेभ्यश्च ज्वरादिव्याद्धिसम्भवः ।ज्ञानहानिर्मृतेर्भीतिः सिंहे स्वान्तर्गते रवौ ॥२०॥धनधान्यादिलाभं च प्रसादं द्विजभूपयोः ।विद्यावृद्धिमवाप्नोति सिंहे स्वान्तर्गते गुरौ ॥२१॥कन्यायां स्वांशगे सौरे कष्टं प्राप्नोति मानवः ।द्रयाणं च ज्वरं चैव क्षुद्भवं वैक्लवं तथा ॥२२॥नृपप्रसादमैश्वर्यं सुहृद्बन्धुसमागमम् ।विद्यावृद्धिमवाप्नोति कन्यायां स्वांशके गुरौ ॥२३॥पित्तज्वरभवा पीडा विदेशे गमनं तथा ।शस्त्रघातोऽग्निभीतिश्च कन्यायां स्वान्तरे कुजे ॥२४॥भृत्यपुत्रार्थलाभश्च नानासुखसमागमः ।बन्धुभार्गवचन्द्रेषु कन्यास्वांशगतेषु च ॥२५॥प्रयाणं रोगभीतिश्च कलहो बन्धुभिः सह ।शस्त्रघातभयं चैव कन्यांशे स्वांशगे रवौ ॥२६॥तुले स्वान्तर्गते शुक्रे सद्बुद्धिश्च सुखोदयः ।स्त्रीपुत्रधननवस्त्रादिलाभो भवति निश्चितः ॥२७॥पितृकष्टं सुहृद्वैरं शिरोरोगो ज्वरोदयः ।विषशस्त्राग्निभीतिश्च तुले स्वान्तर्गते कुजे ॥२८॥द्रव्यरत्नादिलाभश्च धर्मकार्यं नृपादयः ।सर्वत्र सुखसम्प्राप्तिस्तुले स्वांशगते गुरौ ॥२९॥प्रयाणं च महाव्याधिः क्षेत्रदेः क्षतिरेव च ।शत्रुवाधा च कार्येषु तुले स्वांशगते शनौ ॥३०॥पुत्रजन्म धनप्राप्तिः स्त्रीसुखं च मनःप्रियम् ।भाग्योदयश्च विज्नेयस्तुले स्वान्तर्गते बुधे ॥३१॥शशाङ्कबुधशुक्रेषु वृश्चिके स्वांशगेषु च ।नानाधान्यधनप्राप्तिर्व्याधिविनाशो महत् सुखम् ॥३२॥शत्रुक्षोभभयं व्याधिमर्थनाशं पितुर्भयम् ।श्वापदाद् भयमाप्नोति वृश्चिके स्वांशगे रवौ ॥३३॥वातपित्तभयं चैव मसूरीव्रणमादिशेत् ।अग्निशस्त्रादिभीतिश्च वृश्चिके स्वांशगे कुजे ॥३४॥धनं धान्यञ्च रत्नं च देवब्राह्मणपूजनम् ।राजप्रसादमाप्नोति वृश्चिके स्वांशगे गुरौ ॥३५॥धनबन्धुविनाशश्च जायते मानसी व्यथा ।शत्रुवाधा महाव्याधिर्वृश्चिके स्वांशगे शनौ ॥३६॥अतिदाहं ज्वरं छर्दि मुखरोगं विशेषतः ।नानाक्लेशमवाप्नोति चापांशे स्वांशगे कुजे ॥३७॥श्रियं विद्यां च सौभाग्यं शत्रुनाशं नृपात् सुखम् ।भार्गवेन्दुचन्द्राणां चापे स्वस्वांशके दिशेत् ॥३८॥भार्यावित्तविनाशं च कलहं च नृपाद् भयम् ।दूरयात्रामवाप्नोति चापांशे स्वांशगे रवौ ॥३९॥दानधर्मतपोलाभं राजपूजनमाप्नुयात् ।भार्याविभवलाभं च चापे स्वांशगते गुरौ ॥४०॥द्विजदेवनृपोद्भूतं कोपं बन्धुविनाशनम् ।देशत्यागमवाप्नोति मकरस्वांशगे शनौ ॥४१॥देवार्चनं तपोध्यानं सम्मानं भूपतेः कुले ।भार्गवज्ञेन्दुजीवानां मृगांशेऽन्तर्दशाफलम् ॥४२॥शिरोरोगं ज्वरं चैव करपादक्षतं दिशेत् ।रक्तपित्तातिसारांश्च मृगस्वांशगते कुजे ॥४३॥विनाशं पितृबन्धूनां ज्वररोगादिकं दिशेत् ।नृपशत्रुभयं चैव मृगांशस्वांशगे शनौ ॥४४॥नानाविद्यार्थलाभश्च पुत्रस्त्रीमित्रजं सुखम् ।शरीरारोग्यमैश्वर्यं कुम्भे स्वांशगते भृगौ ॥४५॥ज्वराग्निचोरजा पीडा शत्रुणां च महद् भयम् ।मनोव्यथामवाप्नोति घटांशस्वान्तरे कुजे ॥४६॥नैरुज्यं च सुखं चैव सम्मानं भूपतेः द्विजात् ।मनःप्रसादमाप्नोति कुम्भांशस्वांशगे गुरौ ॥४७॥धातुत्रयप्रकोपं च कलहं देशविभ्रमम् ।क्षयव्याधिमवाप्नोति कुंभांशस्वांशगे शनौ ॥४८॥पुत्रमित्रधनस्त्रीणां लाभं चैव मनःप्रियम् ।सौभाग्यवृद्धिमाप्नोति कुम्भांशस्वांशगे बुधे ॥४९॥विद्यावृद्धिमवाप्नोति स्त्रीसुखं व्याधिनाशनम् ।सुहृत्सङ्गं मनःप्रीतिं मीनांशस्वांशगे विधौ ॥५०॥बन्धुभिः कलहं चैव चौरभीतिं मनोव्यथाम् ।स्थानभ्रंशमवाप्नोति मीनांशस्वांशगे रवौ ॥५१॥रणे विजयमाप्नोति पशुभूमिसुतागमम् ।धनवृद्धिश्च मीनांशे स्वांशयोर्बुधशुक्रयोः ॥५२॥पित्तरोगं विवादञ्च स्वजनैरपि मानवः ।शत्रुणां भयमाप्नोति मीनांशस्वांशगे कुजे ॥५३॥धनवस्त्रकलत्राणां लाभो भूपसमादरः ।प्रतिष्ठा बहुधा लोके मीनांशस्वांशगे गुरौ ॥५४॥धननाशो मनस्तापो वेश्यादीनां च सङ्गमात् ।देशत्यागो भवेद्वापि मीनांशस्वांशगे शनौ ॥५५॥एवं प्राज्ञैश्च विज्ञेयं कालचक्रदशाफलम् ।अन्तर्दशाफलं चैव वामर्क्षेऽप्येवमेव च ॥५६॥इदं फलं मया प्रोक्तं धर्माऽधर्मकृतं पुरा ।तत्सर्वं पाणिभिर्नित्यं प्राप्यते नाऽत्र संशयः ॥५७॥सुहृदोऽन्तर्दशा भव्या पापस्यापि द्विजोत्तम ।शुभस्यापि रिपोश्चैवमशुभा च प्रकीर्तिता ॥५८॥ N/A References : N/A Last Updated : July 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP