संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्तचत्वारिंशः पटलः| मृत्युञ्जयविधानम् सप्तचत्वारिंशः पटलः रूद्राण्या रूद्रस्य व मन्त्रोद्धारः रूद्रस्य एकपञ्चाशनामानि रुद्राणीनामानि रूद्र ध्यानम् रूद्रस्य पीठशक्तयः शक्त्यर्चनविधानम् रूद्राणीध्यानम् श्रीकण्ठन्यासः पञ्चमूर्तिन्यासः पञ्चमुखन्यासः सदाशिवध्यानमानसोपचारञ्ज सदाशिवस्तोत्रम् मृत्युञ्जयविधानम् पीठन्यासः मृत्युञ्जयऋष्यादिन्यासः महामृत्युञ्जयध्यानम् सप्तचत्वारिंशः पटलः - मृत्युञ्जयविधानम् रूद्राणीरूद्रयो पूजाप्रकरणम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल मृत्युञ्जयविधानम् Translation - भाषांतर ततो वक्ष्ये महादेव मृत्युञ्जयविधानकम् ।यत् कृत्वा परमब्रह्ममयो भवति साधकः ॥२४१॥मृत्युञ्जयस्य मन्त्रं वै जपते यदि मानुषः ।कोटिवर्षशतं स्थित्वा लीनो भवति ब्रह्मणि ॥२४२॥सर्वव्यापकरुपेण स तिष्ठति सदाशिव ।तत्प्रकारं प्रवक्ष्यामि सावधानोऽवधारय ॥२४३॥आदौ पूजां विधानेन वक्ष्यामि सारनिर्मिताम् ।श्रीकण्ठ सपूर्णोदर्याश्च न्यासं चास्ये समाचरेत् ॥२४४॥ततो ह्रदयमध्ये तु स्वहस्ताङ्गुलिमुद्रया ।तद्वयान्यस्य देवेश तत्प्रकाशं प्रचक्ष्यते ॥२४५॥प्रण्वादि नमोऽन्तेन चतुर्थ्यन्तपदेन च ।योजयित्वा न्यसेन्मन्त्री मन्त्रभावपरायणः ॥२४६॥आधारशक्तिमेवं हि प्रकृतितदनन्तरम् ।कूर्ममनन्तं तत्पश्चात् पृथिवीं क्षीरसारम् ॥२४७॥श्वेतद्वीपं ततः पश्चान्मणिमण्डपमेव च ।कल्पवृक्षे ततो नाथ विन्यसेन्मणिवेदिकाम् ॥२४८॥रत्नसिंहासनं तत्र ह्रदयाम्भोजमण्डले ।दक्षवामस्कन्धभागे वामोरौ दक्षिणे तथा ॥२४९॥मुखे वामपार्श्वभागे नाभौ दक्षपार्श्वके ।प्रणवादिनमोऽन्तेन चतुर्थ्यन्तपदेन च ॥२५०॥सर्वत्र न्यासकुर्यात्तेषां नाम श्रृणु प्रभो ।क्रमेण सर्वं कर्त्तंव्यं क्रमभङो न चाचरेत् ॥२५१॥धर्मं ज्ञानञ्च वैराग्यमैश्वर्यं तदनन्तरम् ।अधर्ममपि चाज्ञानमवैराग्यं ततः परम् ॥२५२॥अनैश्वर्य क्रमेणापि विन्यसेत् साधकोत्तमः ।पुनर्वारं ह्रदम्भोजे न्यसेदेकमनाः सुधीः ॥२५३॥ N/A References : N/A Last Updated : April 28, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP