संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्तचत्वारिंशः पटलः| रूद्र ध्यानम् सप्तचत्वारिंशः पटलः रूद्राण्या रूद्रस्य व मन्त्रोद्धारः रूद्रस्य एकपञ्चाशनामानि रुद्राणीनामानि रूद्र ध्यानम् रूद्रस्य पीठशक्तयः शक्त्यर्चनविधानम् रूद्राणीध्यानम् श्रीकण्ठन्यासः पञ्चमूर्तिन्यासः पञ्चमुखन्यासः सदाशिवध्यानमानसोपचारञ्ज सदाशिवस्तोत्रम् मृत्युञ्जयविधानम् पीठन्यासः मृत्युञ्जयऋष्यादिन्यासः महामृत्युञ्जयध्यानम् सप्तचत्वारिंशः पटलः - रूद्र ध्यानम् रूद्राणीरूद्रयो पूजाप्रकरणम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल रूद्र ध्यानम् Translation - भाषांतर धृतशूलपालादि बाणशक्तिप्रखेटकाः ।वराभयकरा नित्याः सर्पवाहनवाहनाः ॥६६॥श्रीकण्ठाद्या महारुद्रा धृतशूलकपालकाः ।खड्गखेटकशक्तीषु गदामूसलधारकाः ॥६७॥नानास्त्रधारका नित्या बन्धूककोटिसुन्दरा ।रक्तचन्दनदिग्धाङा पञ्चचूडधराः पराः ॥६८॥रक्तोत्पलमहामाला लङ्कारकरपङ्कजाः ।पीठन्यासं ततः कुर्यात् मम तन्त्रानुसारतः ॥६९॥सर्वत्रमूलपुटितमथवा वर्णसम्पुटम् ।कृत्वा पीठन्यासकार्यं विधानेन वदामि तत् ॥७०॥ॐ अनन्ताय नमश्च नमो ह्रदि ततः परम् ।ॐ पद्माय नमः शब्दं ह्रदये च ततः परम् ॥७१॥ॐ सूर्यमण्डलाय द्वादशान्ते कलात्मने ।ॐ नमः पदं समुच्चार्य चान्ते च ह्रदये प्रभो ॥७२॥ॐ उं सोममण्डलाय षोडशलकलास्मने नमः ।सर्वत्र ह्रदये कार्यं पीठन्यासं मनोलयम् ॥७३॥ॐ मं वहिनमण्डलाय दशकलात्मने नमः ।ॐ सं सत्त्वाय नमश्च ॐ रं रजसे नमः ॥७४॥ॐ तं तमसे नमश्च पूर्वादिकेशरेषु च ।ॐ तं आत्मने नमश्च ॐ सर्वव्यापिने नमः ॥७५॥ॐ अं अन्तरात्मने च ॐ मनोन्मन्यै नमश्च ।तदुपरि ततो वदेत् नमोऽन्ते शून्यवासिने ॥७६॥ॐ पं परमात्मने च नमोऽन्ते कालरुपिणे ।ॐ ह्रीं ज्ञानान्मने चान्ते नमोऽन्ते वर्णवासिने ॥७७॥पीठशक्तेस्तती न्यासं कुर्यात् साधकयोगिराट् ।ह्रल्पद्मस्यापि पूर्वादि केशरेषु च संन्यसेत् ॥७८॥ॐ वामायै नमश्चान्ते ॐ ज्येष्ठायै नमो वदेत् ।ॐ सर्वभूतदमन्यै नमः शब्दं समुच्चरेत् ॥७९॥(ॐ रौद्रायै नमश्चान्ते ॐ काल्यै च नमो वदेत् ।ॐ कलाविरिण्यै नमः शब्द ततो वदेत् ।ॐ बलप्रमथन्यै नमो व भोऽन्ते न पुनर्वदेत् ।)एता विन्यस्य देवेश मध्ये विन्यासमाचरेत् ।ह्रत्पद्मस्य कर्णिकायां कृत्वा भावनमाचरेत् ॥८०॥ॐ मनोन्मन्यै नमश्च तदुपरि ततो वदेत् ।ॐ नमो भगवतेऽन्ते च सकलपदमुच्चरेत् ।गुणाय शक्तियुक्ताय अनन्ताय पदं तातः ॥८१॥(योगपीठात्मने चान्ते नमः शब्द समुच्चरेत् ।ततः कुर्यानहादेव ऋष्यादिन्यासमेव च ।रुद्रशक्त्या ऋषेर्विष्णुस्तथा मृत्युञ्जयस्य च ।कहोड मुनिपुत्रश्च ऋषिरस्य प्रकीर्तितः ।महेश्वरमुखाज्ज्ञात्वा यः साक्षात्तपसा मनुम् ॥८२॥संसाधयती शुद्धात्मा स तस्य ऋषिरीरितः ।गुरुल्वान्मस्तके चास्य न्यासस्तु परिकीर्तितः ॥८३॥सर्वेषां मन्त्रतत्त्वानां छादनाद् छन्द उच्यते ।अक्षरात्वात्पदवाच्च मुखे च्छन्दः समीरितम् ॥८४॥सर्वेषामेव जन्तूनां प्रेषणात्प्रेरणात्तथा ।ह्रदयाम्भोजमध्यस्था देवता तत्र तां न्यसेत् ॥८५॥ऋषिच्छन्दोऽपरिज्ञानान्न मन्त्रः फलभाग्भवेत् ।दौर्बल्यं याति मन्त्राणां विनियोगमजानताम् ॥८६॥न्यसेन्मूर्ध्नि ऋषिन्यासं छन्दोन्यासं मुखाम्बुजे ।देवतान्यासमाकुर्यात् ह्रदयाम्भोरुहे सुधीः ॥८७॥मूके गुह्ये बीजन्यासं शक्तिन्यासं तु पादयोः ।सर्वाङे कीलकन्यासमाचरेत् यत्नतः सुधीः ॥८८॥शिवशक्त्यात्मकन्यासं शिरस्तेव समाचरेत् ।शिरसि पडिक्तच्छन्दसे वै नमः शब्दं समुच्चरेत् ।ह्रदि महारुद्राय शक्तियुक्ताय संवदेत् ॥९०॥देवतायै नमः शब्दं करन्यासं तत्स्श्चरेत् ।ततोऽङुन्यासमाकृत्य ध्यानं कुर्यात् प्रयत्नतः ॥९१॥वहिननां दीर्घबीजने मन्त्रस्याङुक्रिया चरेत ।रुद्रध्यानं प्रवक्ष्यामि ध्यानाद् भवती भूपतिः ॥९२॥रौद्रं रौद्रात्मकं तं प्रकृतिपुरुषं गंभीरगीताभिधानंशूलं खड्गं दधानं वरमभयकरं पद्मकेम प्रचण्डम् ।सञ्चारं रश्मिजाल सशिशतिकिरणं कामधेनुस्वरुपंध्यायेद्रौदीं स्वरशक्तिं प्रलयमयतनु सूर्यकोटिप्रकाशम् ॥९३॥ N/A References : N/A Last Updated : April 28, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP