सप्तचत्वारिंशः पटलः - शक्त्यर्चनविधानम्

रूद्राणीरूद्रयो पूजाप्रकरणम्


मणिपूरे दृढो याति सत्यं सत्यं कुलेश्वर ।
शक्त्यर्च्चनविधिं वक्ष्ये मूलमन्त्रेण पूजनम् ॥१०९॥

सर्वत्र कारयेन्मन्त्री अष्टैश्वर्यजयाय च ।
आदौ ऋषिन्यासकार्यं वक्ष्यामि श्रृणु तत्त्वतः ॥११०॥

शिरसीह रुद्रशक्तिर्महाविष्णुपदं ततः ।
ऋषये नम उच्चार्य मुखे हस्तं नियोजयेत् ॥१११॥

पङि‌क्तछन्दसे नमश्च ह्रदि हस्तं नियोजयेत् ।
महारुद्राणीति पदं लाकिनीपदमेव च ॥११२॥

त्रिशक्त्यन्ते महाविद्या देवतायै नमस्ततः ।
गुह्ये ॐ पदमुचार्य निजबीजाय ते नमः ॥११३॥

सर्वाङे सकलायैव वज्राय कीलकाय च ।
नमः पदं समुच्चार्य ऋष्यादिन्यासमेव च ॥११४॥

रुक्तवत्सकलं कार्यं कराङुन्यासकर्मणि ।
आदा वृष्यादिकन्यासः करशुद्धिस्ततः परम् ॥११५॥

अङ्‌गलिव्यापकन्यासो ह्रदादिन्यास एव च ।
रुद्रशक्तिमहाषोढान्यासञ्च तदनन्तरम् ॥११६॥

मन्त्रयासं ततः कृत्वा व्यापकन्यासमाचरेत् ।
तालयञ्च दिग्बन्धः प्राणायामस्ततः परम् ॥११७॥

ध्यानं कुर्याद्विशेषेण रुद्रशक्त्या महाप्रभो ॥११८॥

N/A

References : N/A
Last Updated : April 28, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP