संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्तचत्वारिंशः पटलः| रूद्राण्या रूद्रस्य व मन्त्रोद्धारः सप्तचत्वारिंशः पटलः रूद्राण्या रूद्रस्य व मन्त्रोद्धारः रूद्रस्य एकपञ्चाशनामानि रुद्राणीनामानि रूद्र ध्यानम् रूद्रस्य पीठशक्तयः शक्त्यर्चनविधानम् रूद्राणीध्यानम् श्रीकण्ठन्यासः पञ्चमूर्तिन्यासः पञ्चमुखन्यासः सदाशिवध्यानमानसोपचारञ्ज सदाशिवस्तोत्रम् मृत्युञ्जयविधानम् पीठन्यासः मृत्युञ्जयऋष्यादिन्यासः महामृत्युञ्जयध्यानम् सप्तचत्वारिंशः पटलः - रूद्राण्या रूद्रस्य व मन्त्रोद्धारः रूद्राणीरूद्रयो पूजाप्रकरणम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल रूद्राण्या रूद्रस्य व मन्त्रोद्धारः Translation - भाषांतर श्रीआनन्दभैरवी उवाचश्रृणु कैलासनाथाब्ज चक्रमण्डलसंस्थितिम् ।षट्चक्रभेदमाहात्म्यं सावधानावधारय ॥१॥अप्रकाश्यमिदं मन्त्रं मणिपूरविभैदनम् ।अष्टैश्वर्यसाधनाय जीवन्मुक्तिप्रदाय च ॥२॥कथयामि महाकाल यज्ज्ञात्वा योगिनोऽमराः ।क्रियासाधनमात्रेण केन योगेन एव हि ॥३॥साधनादेव सर्वज्ञः सर्वार्थज्ञानवान् भवेत् ।रुद्राणीसहितं रुद्रं ध्यात्वा सम्पूज्य सञ्जपेत् ॥४॥अत वक्ष्ये महामन्त्रं पूजाप्रकरणं तथा ।मणिपूरे स्थितो मन्त्री रुद्राणीयजनं चरेत् ॥५॥सम्प्रति मन्त्रस्योद्धारं करोमि कालकूलप ।प्रणवं पूर्वमुच्चार्य नमः शब्दं ततो वदेत् ॥६॥ते शब्दान्ते समुद्धृत्य रुद्रशब्दं ततः परम् ।रुपिण्यै पदमुच्चार्य रुद्राणी मन्त्रमीरितम् ॥७॥ततो महारुद्रमन्त्रं वक्ष्यामि तत्त्वतः श्रॄनु ।प्रणवान्ते नमशब्दं ते महाशब्दमुच्चरेत् ॥८॥रुद्राय पदमुद्धृत्य महारुद्रमनुः स्मृतः ।ततोऽन्यत्कालरुपेश रुद्राणीमिन्त्रमाश्रृणु ॥९॥डादिफान्तैः सर्ववर्णैंराद्यन्ते पुटितं मनोः ।सर्वशेषे वहिनजाया महामन्त्रोत्तमोत्तमः ॥१०॥अस्य जापनमात्रेण षट्पद्मं साधने जयी ।एवं प्रकारं रुद्रस्य चाथवान्यप्रकारकम् ॥११॥रुद्राणां विविधं मन्त्रं कोटितन्त्रे विनिर्णयम् ।मणिपूरे सदा ध्यायेद् योगसाधहुतुना ॥१२॥सर्वत्र मानसं कार्यं ध्यानपूजाविधानकम् ।प्रमोदाख्यातिमनुभिर्मृञ्जयादिस्तथा ॥१३॥चैतन्यं कारयेत् शीघ्रं मणिपूरस्थदेवयोः ।अथ वक्ष्ये महेशस्य रुद्रस्य परमात्मनः ॥१४॥प्रासादाख्यं महामन्त्रं त्रैलोक्यफलसिद्धिदम् ।सान्तमोङ्कार संयुक्तं नादबिन्दुविभूषितम् ॥१५॥प्रासादाख्ये मनुः प्रोक्तो भजतां कामदो मणिः ।प्रणवं पूर्वमुच्चार्य स्वाहान्तं जपते यदि ॥१६॥स्तम्भनादीनि कर्मणि स करोति संशयः ।अथवा मृत्युजेतारं महामन्त्रं महामनुम् ॥१७॥जपेन्मानसजापेन यज्जाप्यं प्राणरक्षकम् ।तारं स्थिरा सकर्णेन्दुर्भृगुः सर्गसमन्वितः ॥१८॥त्र्यक्षरात्मा निगदितो मन्त्रो मृत्युञ्जयात्मकः ।अथवान्यप्रकारेण जपेन्मृञ्जयात्मकम् ॥१९॥मृत्युञ्जयं समुद्धत्य पालय द्वितयं ततः ।मृत्युञ्जयं समुद्धत्य पुनरेव विलोमतः ॥२०॥द्वादशाक्षरमन्त्रोऽयं मृत्युञ्जयाभिधोऽपरः ।ध्यानं (पूजा) तथा न्यासं श्रृणु वक्ष्यामि शङ्कर ॥२१॥रुद्रमन्त्रेण पुटितं योजयेन्मृत्युहारणम् ।तथा हि रुद्रकान्ताया मन्त्रेण पुटितं शिवम् ॥२२॥जपित्वा पूजयित्वा च नरो गोप्ता भवेद्वशी ।प्रातःकृत्यादिकं कृता हविष्याशी जितेन्दियः ॥२३॥अतिसावधानपरो विधिसेवापरायणः ।स्नानसन्ध्यादिकं कृत्वा आसनदिकमाश्रयेत् ॥२४॥समाप्य आसनं सर्वं पीतवस्त्रे पिधाय च ।अथवा शुक्लवस्त्रे द्वे परिधाय मनोहरे ॥२५॥कोमलाद्यासने गत्वा प्रक्षाल्यपादयुग्मकम ।द्विराचम्य विधानेन पूजायां स्वस्तिकासने ॥२६॥वीरासने तथा पद्मासनयोन्यासने तथा ।उपविश्य निर्मलात्मा पूजामार्गपरो भवेत् ॥२७॥सर्वाणि द्रव्यभोज्यानि मनसा कल्पितानि चे ।तदलाभे सलाभे वा मनःकल्पितशोधनम् ॥२८॥करणीयं सर्वदैव निजबाह्येऽपि चालयेत् ।यथा लभ्यानि द्रव्याणि संशोध्य तत्र योजयेत् ॥२९॥ततः कुर्याद् विशेषेण प्राणायामं मनोरमम् ।चतुःषष्टिमात्रया वा तथा षोडशमात्रया ॥३०॥तद्द्वादशमात्रया वा संख्यया वायुमाश्रयेत् ।प्राणायामं समाप्याथ रुद्रन्यासं समाचरेत् ॥३१॥श्रीकण्ठादिमहावीरन्यासं कुर्यात् प्रयत्नतः ।रुद्रन्यास प्रवक्ष्यामि मनुयोगादिसिद्धये ॥३२॥एतन्यासाभिकरणे नरो रुदसमो भवेत् ।सदा कुर्यान्महान्यासं सर्वसिद्धिप्रकाशनात् ॥३३॥शक्तिहीनं शक्तियुक्तं महान्यासं प्रकीर्तितम् ।शक्तियुक्त समाकृत्य महाशक्तो भवेद् बली ॥३४॥शक्तिहीनं तथा कार्यं सर्वविघ्नविनाशनात् ।मातृकापद्मचक्रे तु मातृका वर्गसयुतम् ॥३५॥मातृकापद्मचक्रे तु मातृका वर्गसंयुतम् ॥३५॥मातृकापुटितं मन्त्रं किं वा मन्त्रेण संपुटम् ।कृत्वा मन्त्री न्यासजालं सावधानेन कारयेत् ॥३६॥विक्रमी सिंहतुल्यः स्यात्तं दृष्टवा यान्ति शत्रवः ।मौनी भूत्वा समाकृत्य कुलचक्रस्य भेदनम् ॥३७॥मणिपूरे स्थिरो भूत्वा महातेजोमयो भवेत् ।तेषां नाम प्रवक्ष्यामि पञ्चाशदेकसंख्यया ॥३८॥ N/A References : N/A Last Updated : April 28, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP