संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्तचत्वारिंशः पटलः| पञ्चमुखन्यासः सप्तचत्वारिंशः पटलः रूद्राण्या रूद्रस्य व मन्त्रोद्धारः रूद्रस्य एकपञ्चाशनामानि रुद्राणीनामानि रूद्र ध्यानम् रूद्रस्य पीठशक्तयः शक्त्यर्चनविधानम् रूद्राणीध्यानम् श्रीकण्ठन्यासः पञ्चमूर्तिन्यासः पञ्चमुखन्यासः सदाशिवध्यानमानसोपचारञ्ज सदाशिवस्तोत्रम् मृत्युञ्जयविधानम् पीठन्यासः मृत्युञ्जयऋष्यादिन्यासः महामृत्युञ्जयध्यानम् सप्तचत्वारिंशः पटलः - पञ्चमुखन्यासः रूद्राणीरूद्रयो पूजाप्रकरणम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल पञ्चमुखन्यासः Translation - भाषांतर कलायै नम उच्चार्य न्ससेदष्टौ कलाः प्रभोः ।ईशानाख्यास्ततो नाथ भक्तः पञ्च ऋचो न्यसेत् ॥१८५॥पञ्चाङ्गुलिषु योगेश क्रमशः कामनाशनात् ।प्रणवं पूर्वमुच्चार्य ततो मन्त्रं स्मरेत्सुधीः ॥१८६॥ईशानः सर्वविद्यानां ईश्वरस्तदनन्तरम् ।उच्चरेत्सर्वभूतानां ब्रह्माधिपतिरित्यपि ॥१८७॥ब्रह्मणोधिपतिः पश्चात् शिवो मेऽस्तु सदाशिवः ।प्रणवं पूर्वमुच्चार्य ततस्तत्पुरुषाय च ॥१८८॥विद्महे पदतः पश्चात् महादेवाय धीमहि ।ततो रुद्रः पदस्यान्ते प्रचोदयात्पुनर्वदेत् ॥१८९॥प्रणवं पूर्वमुद्धत्य ततो मन्त्रं स्मरेत् सुधीः ।अघोरेभ्योऽअथ घोरेभ्यो घोरशब्दं समुच्चरेत् ॥१९०॥घोरतरेभ्य एवान्ते सर्वतः सर्वशब्दकम् ।सर्वेभ्योऽन्ते नमस्तेऽस्तु रुद्रपेभ्य एव च ॥१९१॥अष्ट्ॐ स्थानेषु चैतेषु सर्वपापनिवृत्तये ।पार्श्वयोर्हस्तयोग्श्चैव नासिकायाञ्च मस्तके ॥१९२॥बाहुयुग्मे महावीर मणिपूरविभेदकः ।तत्प्रकारं प्रवक्ष्येऽहं सावधानोऽवधारय ॥१९३॥बलप्रमथनाय नमोऽन्ते च सर्वभूतपदं वदेत् ।दमनाय नमोऽन्ते तु नमः शब्दं समुच्चरेत् ॥१९४॥उन्मनाय नमः पश्चात् पुनः प्रणवमुद्धरेत् ।सद्योजातं प्रपद्यामि सद्योजाताय वै नमः ॥१९५॥भवे भवेनादिभवे भजस्व मां ततः परम् ।भवोद्भवाय शब्दान्ते नमो मन्त्रं मुदा न्यसेत् ॥१९६॥अङुगुलीभ्यां समाह्रत्य ऋचानया प्रभो ।एवं क्रमेण सन्नयासं कुर्यादेषु स्थलेषु च ॥१९७॥मूर्ध्निह्रद्ह्यपादेषु न्यसेदेता ऋचो मुदा ।ततः कुर्यान्महाकाल चाङुन्यासान्तरं शुभम् ॥१९८॥तत्प्रकारं प्रवक्ष्यामि सावधानोऽवधारय ।वाग्भवं पूर्वमुच्चार्य कामबीजं ततः परम् ॥१९९॥वकारं शत्रुसंयुक्तं दक्षकार्णेन्दुसंयुतम् ।चन्द्रबीजं वामनेत्रथान्तवहिविधून्न्तम् ॥२००॥केवलं चन्द्रबीजं तु सविसर्गमनुं ततः ।सर्वज्ञाय पदस्यान्ते ह्रदयाय नमः पदम् ॥२०१॥अमृते पदमुच्चार्य कामबीजं ततः पदम् ।तेजोज्वालापदं मालिनेऽन्ते च क्लृप्ताय ब्रह्मणेऽपि वसेत्ततः ॥२०२॥स्वाहान्तं तत एवाथ ज्वलितशिखिशब्दकम् ।शिखायानादिबोधाय शिखायै वषडित्यथ ॥२०३॥वज्रिणे वज्रहस्ताय स्वतन्त्राय पदं वदेत् ।कवचाय तारशब्दं ततोऽन्यद् बीजमुच्चरेत् ॥२०४॥नाकारं बिन्दुसंयुक्तं वामनेत्रं सबिन्दुकम् ।पशुशब्द तारमन्त्रं अनन्तशक्तये पदम् ॥२०५॥अस्त्राय फडिति प्रोच्य एवं विन्यस्य योगिराट् ।मणिपूरे मनो योज्य ध्यायेच्चैतन्यमुत्तमम् ॥२०६॥ N/A References : N/A Last Updated : April 28, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP