सप्तचत्वारिंशः पटलः - रूद्राणीध्यानम्

रूद्राणीरूद्रयो पूजाप्रकरणम्


रुद्राणीं रुद्रकान्तां नवरसजडितां कुङ्‌कुमाशक्तगात्रां
लोकेशीं षड्‌जान्तां त्रिभुवनयजितां कोटिसौदामिनीभाम् ।
पद्मस्थां पद्महस्तां वरभयकरां खड्‌गशक्तिं दधानां
ध्यायेद् रौद्रीं त्रिनेत्रां शवदमनशशिश्रेणिभूषामलाङीम् ॥११९॥

रुद्रवत् पूजन्म कार्यं रुद्रशक्त्याश्च शङ्कर ।
दशोपचारैः पूजा वा तथा पञ्चोपचारकेः ॥१२०॥

अष्टादशोपचारैर्वा षोडशाद्युपचारकैः ।
अलाभे तु प्रकर्त्तव्य्म मानसेन निवेदयेत् ॥१२१॥

सर्वत्र मानसं कार्यं कोटि कोटिगुणं भवेत् ।
पूजां समाप्य विधिना जलं दत्त्वा जपादिके ॥१२२॥

प्राणायामत्रयं कृत्वा जप्त्वाष्टोत्तरकं शतम् ।
सहस्त्रं वा मुहुर्जप्त्वा अष्टोत्तरसमन्वितम् ॥१२३॥

जपं समर्पयेद्व्द्वान् गुह्यातिगुह्यमन्त्रकैः ।
प्राणायामत्रयं पश्चात् कुर्यात् साधकसत्तमः ॥१२४॥

वन्दनं भक्तियुक्तेन कुर्याद् योगादिसिद्धये ।
महारौद्रं नमस्तेऽस्तु लाकिन्यै ते नमो नमः ॥१२५॥

शान्त्यै तुष्ट्यै नमो नित्यं दुर्गायै ते नमो नमः ।
रुद्रशक्त्यै नमो नित्य मणिपूरनिवासिनी ॥१२६॥

अष्टसिद्धिं योगसिद्धिं देहि तुभ्यं नमो नमः ।
सर्वग्रन्थिछेदिकायै परब्रह्मस्वरुपिणी ॥१२७॥

मां रक्ष पालय त्वं हि मणिपूरे नमो नमः ।
प्रणम्य विधिनानेन पूजासमापनञ्चरेत् ॥१२८॥

पुनस्तत्र पूजयेद् प्रासादाख्यं महाप्रभुम‌ ।
तथा मृत्युञ्जयं देवं मणिपूरे प्रपूजयेत् ॥१२९॥

N/A

References : N/A
Last Updated : April 28, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP