सप्तचत्वारिंशः पटलः - पञ्चमूर्तिन्यासः

रूद्राणीरूद्रयो पूजाप्रकरणम्


पञ्चमूर्तिन्यासः
पञ्चमूर्तीर्न्यसेन्नाथ तत्प्रकारं श्रृष्णव तत् ।
ईशानादिस्वबीजं तु प्रकारेण प्रविण्यसेत् ॥१४५॥

कलान्यासः
शूद्रः कुर्यान्न्यासजालमेतत् पर्यन्तमेव हि ।
तत ऊर्ध्वप्राग्दक्षिणपश्चिमोत्तरसंमुखे ॥१४६॥

ईशानस्य पञ्चकला ब्रह्मऋग्‍ वेदसंयुताः ।
पञ्चपादादिका नाथ प्रणवादिनमोऽन्तिकाः ॥१४७॥

ईशानं सर्वविद्यानां ॐ नलिन्यै ततः परम् ।
कलायै नम एवापि सर्वत्रैवं क्रमेण तु ॥१४८॥

ईश्वरः सर्वभूताना तद्ङुं पदकं ततः ।
दयायै कलायै नमश्चापि ब्रह्मादिपदं ततः ॥१४९॥

ॐ ब्रह्येष्टदायै चान्ते कलायै नम इत्यपि ।
ततः शिवोस्तु मेम पदं ॐ सावित्र्यै पदं वदेत् ॥१५०॥

कलायै नम एवं हि सदाशिवो पदन्ततः ।
ओमन्ते चांशुमालिन्यै कलायै पद इत्यपि ॥१५१॥

दिङ्‌मुखे स न्यसेन्मन्त्री पूर्वदिक्रमयोगतः ।
तत्पुरुषस्य चतस्त्रः कला न्यसेत् सदा वशी ॥१५२॥

ॐ तत्पुरुषायपदं विद्महे तदनन्तरम् ।
ॐ शान्त्यै पदस्यान्ते कलायै नम इत्यपि ॥१५३॥

महादेवाय शब्दान्ते धीमहीति ततः पदम् ।
ॐ विद्यायै पदस्यान्ते कलायै नम इत्यपि ॥१५४॥

तन्नो रुद्रः पदं पश्चात् ॐ प्रतिष्ठायै पदं लिखेत् ।
श्री दुर्गायै कलायै नमश्चाथ प्रचोदयात् ॥१५५॥

ॐ निवृत्यै कलायै च नमः पदं समुच्यरेत् ।
ततोऽष्टस्थानमध्ये तु अघोराष्टकला न्यसेत् ॥१५६॥

हद्ग्रीवा मध्यगतलं तथा नाभिशु पृष्ठके ।
तथा वक्षसि चाघोरा अष्टौ कला न्यसेत् सुधीः ॥१५७॥

अघोरेभ्य उमान्ते वै उमायै पदमुच्चरेत् ।
कलायै नम एवाथ अघोरेभ्यः पदं वदेत् ॥१५८॥

ॐ मोहायै पदस्यान्ते कलायै नम इत्यपि ।
अघोरपदमुच्चार्य क्षमायै शब्दमुच्चरेत् ॥१५९॥

कलायै नम एवाथ घोरतरेभ्य एव च ।
ॐ निद्रायै पदस्यान्ते कलायै नम इत्यपि ॥१६०॥

सर्वतः सर्वं ॐ अन्ते व्याधये शब्दमुच्चरेत् ।
कलायै नम एवाथ सर्वेभ्यः पदमुच्चरेत् ॥१६१॥

ॐ मृत्यवे पदस्यान्ते कलायै नम इत्यपि ।
नमस्तेऽस्तु पदस्यान्ते ओम् क्षुधायै पदं वदेत् ॥१६२॥

कलायै नम एवाथ रुद्रपेऽथ एव च ।
ओम् पदस्यान्ते कलायै नम इत्यपि ॥१६३॥

वामदेवस्य देवस्य त्रयोदश कला न्यसेत् ।
एतेषु स्थानपद्मेषु तत्प्रकारं श्रृणु प्रभो ॥१६४॥

गुह्येऽण्ड शेषमध्ये तु ऊरुयुग्मे ततः पदम् ।
जानुद्वये तथा जङ्वायुगले स्फिग्द्वये तथा ॥१६५॥

कट्यां पार्श्वयुगे चैव क्रमेण भावको न्यसेत् ।
आदौ प्रणवमुच्चार्य ततो मन्त्रं स्मरेत्सुधीः ॥१६६॥

वामदेवाय शब्दान्ते नमो ज्येष्ठायशब्दतः ॥१६७॥

नमो रुद्राय शब्दान्तेः नमः शब्दं समुच्चरेत् ।
कालाय नम एवान्ते कलविकरणाय च ॥१६८॥

नमो बलविकरणाय बलप्रमथनाय च ।
ओम् वामदेवाय नमः ओम् वज्राय ततः परम् ॥१६९॥

कलायै नम एवाथ ज्येष्ठाय नम इत्यपि ।
ओम् रक्षायै पदस्यान्ते कलायै नम इत्यपि ॥१७०॥

रुद्राय नम ओम् रत्यै कलायै नम इत्यपि ।
कालाय नम इत्यन्ते पालिन्यै शब्दमुच्चरेत् ॥१७१॥

कलायै नम इत्यन्ते पालिन्यै शब्दमुच्चरेत् ।
कामायै शब्दमुच्चायै कलायै नम एव हि ॥१७२॥

विकरणय नमोन्ते प्रणवञ्चोञ्चरेद्बुधः ।
संयमिन्यै पदान्ते च कलायै नम इत्यपि ॥१७३॥

बल ओम् शब्दमुच्चार्य क्रोधायैपदमुच्चरेत् ।
कलायै नम एवाथ विकलायै नमस्ततः ॥१७४॥

ॐ वृद्धयै पदकस्यान्ते कलायै नम इत्यपि ।
बल ॐ शब्दमुच्चार्य स्थिरायै शब्दमुच्चरेत् ॥१७५॥

कलायै नम एवाथ प्रथनाय नमस्ततः ।
ॐ रौद्रपदस्यान्ते कलायै नम इत्यथ ॥१७६॥

सर्वभूतदमनाय नम ॐ पदमुच्चरेत् ।
भ्रामिन्यै पदकस्यान्ते कलायै नम इत्यपि ॥१७७॥

नम ॐ शब्दमुच्चार्य मोहिन्यै पदकं स्मरेत् ।
कलायै नम एवाथ उन्मनाय नमस्ततः ॥१७८॥

ॐ जयायै पदस्यान्ते कलायै नम उच्चरेत् ।
ततो न्यासं महाकाल सद्योजातस्य ताः कलाः ॥१७९॥

सद्योजातं प्रपद्यामि ओम् वृद्ध्यै पदमुच्चरेत् ।
कलायै नम एवाथ सद्योजाताय वै नमः ॥१८०॥

ओम् वृद‌ध्यै पदकस्यान्ते कलायै नम इत्यपि ।
भवे पदे ततः पश्चाद् ओम् सद्यः पदमुच्चरेत् ॥१८१॥

कलायै नम एवाथ अभवे ओम् ततः परम् ।
ओम् मेधायै पदस्यान्ते कलायै नम उच्यते ॥१८२॥

ततो भजस्व मां शब्दं ओम् प्रज्ञायै पदं वदेत् ।
कलायै नम एवाथ भव ओम् शब्दमुच्चरेत् ॥१८३॥

प्रभायै पदमुच्चार्य कलायै नम इत्यपि ।
तद्भवाय नमः पश्चात् ओम् सुधायै नमस्ततः ॥१८४॥

N/A

References : N/A
Last Updated : April 28, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP