संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|सप्तचत्वारिंशः पटलः| सदाशिवध्यानमानसोपचारञ्ज सप्तचत्वारिंशः पटलः रूद्राण्या रूद्रस्य व मन्त्रोद्धारः रूद्रस्य एकपञ्चाशनामानि रुद्राणीनामानि रूद्र ध्यानम् रूद्रस्य पीठशक्तयः शक्त्यर्चनविधानम् रूद्राणीध्यानम् श्रीकण्ठन्यासः पञ्चमूर्तिन्यासः पञ्चमुखन्यासः सदाशिवध्यानमानसोपचारञ्ज सदाशिवस्तोत्रम् मृत्युञ्जयविधानम् पीठन्यासः मृत्युञ्जयऋष्यादिन्यासः महामृत्युञ्जयध्यानम् सप्तचत्वारिंशः पटलः - सदाशिवध्यानमानसोपचारञ्ज रूद्राणीरूद्रयो पूजाप्रकरणम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल सदाशिवध्यानमानसोपचारञ्ज Translation - भाषांतर ओम् मुक्तापीतयोदमौक्तिकजवावर्णैर्मुखैः पञ्चभिः त्र्यक्षै रञ्चितमीशामिन्दुमुकुटं पूर्णेअन्दुकोटिप्रभम् ।शूलं टङ्कपाणवज्रदहनान्नागेन्द्रघण्टाङ्कुशान्पाशं भीतिहरं दधान ममिकल्पोज्ज्वलाङुं भजे ॥२०७॥एवं ध्यात्वा मानसोपचारैः सम्पूज्य पूज्यकः ।अर्घ्यस्थापनमाकुर्यान्निज मन्त्राभिशोधनम् ॥२०८॥शैवोक्तपीठमन्वन्तां पीठपूजां ततश्चरेत् ।पुनर्ध्यात्वा समावाह्य चावाहनादिमुद्रया ॥२०९॥पञ्चपुष्पाञ्जलिदानपर्यन्तं परिपूजयेत् ।पञ्चपुष्पाञ्जलिं दत्त्वा वदनार्चनमाचरेत् ॥२१०॥शिवावरुण देवांश्च पूजयेत्तत् क्रमं श्रृणु ।ऐशान्यां पूजयेद्विद्वान् ईशानाय नमस्ततः ॥२११॥पूर्वे ॐ तत्पुरुषाय नमः शब्दं समुच्चरेत् ।दक्षिणे ॐ अघोराय नमः शब्दं समुच्चरेत् ॥२१२॥उत्तरे ॐ वामशब्दं देवाय नम उच्चरेत् ।पश्चिमे प्रणवं पश्चात् सद्योजाताय एव हि ॥२१३॥नमोऽन्तं पूजनं कृत्वा सर्वसिद्धीश्वरो भवेत् ।ईशानादिचतुष्केषु निवृत्तीत्यादीन् प्रपूजयेत् ॥२१४॥प्रणवान्ते निवृत्यै च नमश्चान्ते ततोऽर्चयेत् ।एवं “प्रतिष्ठां विद्यां च शान्तिं सम्पूज्य यत्नतः ॥२१५॥प्रणवादिनमोऽन्तेन चतुर्थ्यन्तपदेन च ।योजयित्वा महापूजाविधौ कुर्यात् समर्पणम् ॥२१६॥दशदलस्य मध्ये तु विभाव्याष्ट दलं सुधीः ।तत्रैव पूजनं कुर्यात् अष्टाङुयोगसिद्धये ॥२१७॥प्रणवादिनमोऽन्तेन चतुर्थ्यपदेन च ।पूजयेद्देवदेवेशं गन्धपुष्पाक्षतादिभिः ॥२१८॥अनन्तेशं पूजयेद्वै तथा सूक्ष्मशमेव च ।शिवोत्तमेशं सम्पूज्य एकनेत्रेशमेव च ॥२१९॥एकरुदेशमेवं हि त्रिमूर्तीशं ततोऽर्चयेत् ।भक्त्या समर्चयेत्तत्र श्रीकण्ठेशं शिखण्डिनम् ॥२२०॥तद्बाह्यपत्रिकागेषु उत्तरदिक्रमेण तु ।उमाद्यादेवताः पूज्याः प्रणवादिनमोऽन्तिकाः ॥२२१॥उमादेवीं समभ्यर्च्य तथा चण्डेश्वरं ततः ।नन्दिनञ्च महाकालं गणेश वृषभं तथा ॥२२२॥भृङुरीटः स्कन्दपुत्रौ तद्बाह्ये क्रमतोऽर्चयेत् ।इन्द्रादीन् लोकपालाँश्च गन्धदीपैः समर्चयेत् ॥२२३॥वज्रादींश्च क्रमेनैव पूजयेत्साधकोत्तमः ।धूपदीपादिनैवेध्यपानार्थं पुनराचमनम् ॥२२४॥संहारमुद्रया चोर्ध्वे स्थापयेद्रुद्ररुपिणम् ।विसर्जनान्तं तत्कर्म उत्सृष्टपूजादिकम् ॥२२५॥समाप्य विधिनानेन पूजाकर्म समापयेत् ।प्रत्यहं मानसं जापं होममर्चनतर्पणे ॥२२६॥वर्धयेत् साधकश्रेष्ठो भक्तिभावपरायणः ।पञ्चलक्षजपेनास्या पुरश्चरणामिष्यते ॥२२७॥एवं ध्यात्वा जपेन्मन्त्रं पञ्चलक्षं मधुप्लुतैः ।प्रसूनैः करवीरोत्थैरथवा जुहुयात सुधीः ॥२२८॥सर्वदा मानसं कार्यं द्रव्यालाभेऽनिशं चरेत् ।तद्दशांशं प्रजुहुयात्तद्द्शांशञ्च तर्पणम् ॥२२९॥तद्दशांशं चाभिषेकं दशांश विप्रभोजनम् ।एवं जपं साधनञ्च पुरा नारायणो मुनिः ॥२३०॥कृत्वा सर्वसत्त्वमयः शीतलो योगिराड् भवेत् ।यः करोति साधनानि सोऽचिरादमरो भवेत् ॥२३१॥पूजान्ते पूजाशेषे च पूजामध्यक्रमेण च ।प्रणमेत् साधकश्रेष्ठो वरुणात् पापभूपतेः ॥२३२॥ N/A References : N/A Last Updated : April 28, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP