संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : पंचमः स्कन्धः|

पंचमः स्कन्धः - अथ एकोनविंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

किम्पुरुषे वर्षे भगवन्तमादिपुरुषं लक्ष्मणाग्रजं सीताभिरामं

रामं तच्चरणसं निकर्षाभरतः परमभागवतो हनुमान सह

किम्पुरुषैरविरत भक्तिरुपास्ते ॥१॥

आर्ष्टिषेणेन सह गन्धर्वैरनुगीयमानां परमकल्याणीं भर्तृगभवत्कथां

समुपश्रृणोति स्वयं चेदं गायति ॥२॥

ॐ नमो भगवते उत्तमश्लोकाय नम

आर्यलक्षणशीलव्रताय नम उपशिक्षितात्मन

उपासितलोकाय नमः साधुवादनिकषणाय नमो

ब्रह्माण्यदेवाय महापुरुषाय महाराजाय नम इति ॥३॥

यत्तद्विशुद्बानुभवमात्रमेकं स्वतेजासा ध्वस्तगुनव्यवस्थम ।

प्रत्यक प्रशान्तं सुधियोपलम्भनं ह्यानामरुपं निरहं प्रपद्ये ॥४॥

मार्त्यावतारस्त्विह मार्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः ।

कुतोऽन्यथा स्याद्रमतः स्व आत्मनः सीताकृतानि व्यसनानीश्वरस्य ॥५॥

न वै स आत्माऽऽत्मवतां सुहृतमः सक्तस्त्रिलोक्या भगवान वासुदेवः ।

न स्वीकृतं कश्मलमश्रुवीत न लक्ष्मणं चापि विहातुमर्हति ॥६॥

न जन्म नुनं महतो न सौभगं न वाड न बुद्धिर्नाकृतिस्तोषहेतुः ।

तैर्यद्विसृष्टानपि नो वनौकस श्चकार सख्ये बत लक्ष्मणाग्रजः ॥७॥

सुरोऽसुरो वाप्यथ वानरो नरः सर्वात्मना यः सुकृतज्ञमुत्तमम ।

भजेत रामं मनुजाकृति हरिं य उत्तराननयत्कोसलान्दिवमिति ॥८॥

भारतेऽपि वर्षे भगवान्नरनायणाख्य

आकल्पान्तमुपचितधर्मज्ञानवैराग्यैश्वर्योपशमो

परमात्मेपलम्भ्नमनुग्रहायात्मवतामनुकम्पया

तपोऽव्यक्तगतिश्वरति ॥९॥

तं भगवान्नारदो वर्णाश्रमवतीभिर्भारतीभिः

प्रजाभिर्भगवत्प्रोक्ताभ्यां सांख्ययोगाभ्यां भगवद

नुभावोपवर्णनं सावर्णेरुपदेक्ष्यमाणः परमभक्ति

भावेनोपसरति इंद चाभिगृणाति ॥१०॥

ॐ नमो भगवते उपशमशीलायोपरता

नात्म्याया नमोऽकित्र्चनवित्ताय ऋषिऋषभाय नर

नारायणाय परमहंसपरमगुरवे आत्मारामाधिपतये

नमो नम इति ॥११॥

गायति चेदम कर्तास्य सुरादिषु यो न बध्यते

न हन्यते देहगतोऽपि दैहिकैः ।

द्रष्टुर्न दुग्यस्य गुणैर्विदुष्यते तस्मै नमोऽसक्तविविक्तसाक्षिणे ॥१२॥

इदं हि योगेश्वर योगनैपुणं हिरण्यागर्भो भगवात्र्जगाद यत ।

यदन्तकाले त्वयि निर्गुणे मनो भक्त्या दधीतोज्झितदुष्कलेवरः ॥१३॥

यथैहिकामुषिमककामलम्पटः सुतेषु दारेषु धनेषु चिन्तयन ।

शंकेत विद्वान कुकलेरात्ययाद यस्तस्य यत्‍नः श्रम एव केवलम ॥१४॥

तन्नः प्रभो त्वं कुकलेवरार्पितां तन्माययाहंममतामधोक्षज ।

भिन्द्याम येनाशु वयं सुदुर्भिदां विधेहि योगं त्वयि नः स्वभावमिति ॥१५॥

भारते‍ऽप्यस्मिन वर्षे सरिच्छैलाः सन्ति बहवो मलयो मंगलप्रस्थो मैनाकस्त्रिकुट

ऋषभः क्रुटक कोल्लकः सह्यो देवगिरिऋष्यमकः श्रीशैलो वेंकटो महेन्द्रो वारिधारो

विन्ध्यः शुक्तिमानृ क्षगिरिः पारियात्रो द्रोणाश्चित्रकुटो गोवर्धनो रैवतकः ककुभोनीलो

गोकामुख इन्द्रकीलः कामगिरिरिति चान्ये च शतसहस्रशः शैलास्तेषां नितम्बप्रभवा

नदा नद्यश्च सन्त्यसंख्याताः ॥१६॥

एतासामपो भारत्याः प्रजा नामभिरेव पुनन्तीनामात्मना चोपस्पृशन्ति ॥१७॥

चन्द्रवसा ताम्रपर्णी अवटोदा कृतमाला वैरायसी कावेरी वेणी पयस्विनी शर्करावर्ता

तुंगभद्रा कृष्णा वेण्या भीमरथी गोदावरी निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा

चर्मण्वती सिन्धुरन्धः शोणश्च नदौमहानदी वेदस्मृतिऋषिकुल्या त्रिसामा कौशिकी

मन्दकिनी यमुना सरस्वती दृषद्वती गोमती सरयु रोधस्वती सप्तवती सुषोमा

शतद्रूश्चन्द्रभागा मरुदवृधा वितस्ता असिक्री विश्वेती महानद्यः ॥१८॥

अस्मिन्नैव वर्शे पुरुषैर्लब्धजन्मभिः शुक्ललोहितकृष्णवर्णेन

स्वारब्धेन कर्मणा दिव्यमानुषनारकगतयो बह्व्य आत्मन

आनुपूर्व्येन सर्वा ह्योव सर्वेषां विधीयन्ते यथावर्णविधानमपवर्ग

श्चापि भवति ॥१९॥

योऽसौ भगवति सर्वभुतामन्यनात्म्येऽनिरुक्तेऽनिलयने

परमात्मनि वासुदेवेऽनन्यनिमित्तभक्तियोगलक्षणो

नानागतिनिमित्ताविद्याग्रन्थिरन्धनद्वारेण यदा हि

महापुरुषपुरुषप्रसंगः ॥२०॥

एतदेव हि देवा गायन्ति

अहो अमीषाकिमकारिशोभनं प्रसन्न एषां स्विदुतं स्वयं हरिः ।

यैर्जन्म लब्ध नृषु भारताजिरे मुक्कुन्दसेवौपयिकं स्पृहा हि नः ॥२१॥

किं दुष्करैर्नः क्रतुभिस्तपोव्रतै र्दानादिभिर्वा द्युजयेन फल्गुना ।

न यत्र नारायणपादपंकज स्मृति प्रमुष्टातिहयेन्रियोत्सवात ॥२२॥

कल्पयुषां स्थानजयात्पुनर्भावता क्षणायुषं भारतभुजयो वरम ।

क्षणेन मर्त्येन कृतं मनस्विनः संन्यस्य संयान्त्यभयं पदं हरेः ॥२३॥

न यत्र वैकुण्ठकथासुधापगा न साधवो भागवतास्तदाश्रयाः ।

न यत्र यज्ञेश्मखा महोत्सवाः सुरेशलोकोऽपि न वै स सेव्यताम ॥२४॥

प्राप्ता नृजातिं त्विह ये च जन्तवो ज्ञानक्द्रियाद्रव्यकलापसम्भृताम ।

न वै यतेरन्नपुनर्भवाय ते भुयो वनौका इव यान्ति बन्धनम ॥२५॥

यैःश्रद्धया बर्हिशःइ भागशो हवि र्निरुप्तमिष्टं विधिमन्त्रवस्तुतः ।

एक पृथडनामभिराहुतो मृदा गृह्णति पुर्णः स्वयमाशिषां प्रभुः ॥२६॥

सत्यं दिशत्यार्थितमर्थितो नृणां नैवार्थदो यत्पुनरर्थितां यतः ।

स्व्यं विध्यत्ते भजतामनिच्छता मिच्छपिधानं निजपादपल्लवम ॥२७॥

यद्यत्र नः स्वर्गसुखावशेषितं स्विष्टस्य सुक्तस्य कृतस्य शोभनम ।

तेनाजनाभो स्मृतिमज्जन्म न स्याद वर्षे हरिर्यद्भजतां शं तनोति ॥२८॥

श्रीशुक उवाच

जम्बुद्वीपस्य च राजन्नुपद्वीपानष्टौ हैक उपदिशन्ति सगरात्मजैरश्वान्वेषण

इमां महीं परितो निखनद्भिर्पकल्पितान ॥२९॥

तद्यथा स्वर्णप्रस्थश्चन्द्रशुक्ल आवर्तनो रमणको मन्दरहरिणः पांचजन्यः

सिंहलो लंकेति ॥३०॥

एवं तव भारतोत्तम जम्बूद्वीपवर्षविभागो यथोपदेशमुपवर्णित इति ॥३१॥

इति श्रीमद्भागवते महपुराणे पारमहंस्यां संहितायां पंचमस्कन्धे जम्बूद्वीपवर्णनं नामैकोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP